________________
पीठदेवनरपतिदर्पदलनो नाम पञ्चमः सर्गः
___ [उपजातिवृत्तम्] इतश्च वैरिक्षितिपालदर्प-घोरान्धकारप्रशमैकभास्वान् । श्रीपीठदेवः सुतरां प्रशास्ति, पाराभिधानं विषयं प्रशस्तम् ॥१॥ प्रत्यर्थिनो यस्य गुरुप्रताप-सन्तप्तगात्रा न सुधांशुधाम्ना । न पल्लवैर्नाम्बुरुहैर्जला -निलेन नो निर्वृतिमापुरेव ॥२॥ स्वसैन्यधूलीपिहितार्कबिम्बो, भञ्जन् समग्रं किल कच्छदेशम् । अकाण्डसर्पत्प्रलयार्णवश्री-भद्रेश्वरं प्राप स पीठदेवः ॥३॥ चौलुक्यवंशैकविभूषणेन, श्रीभीमदेवेन नरेश्वरेण । स कारितं भद्रपुरस्य दुर्ग-मपातयत् कातरितारिवर्गः ॥४॥ प्रचण्डदोर्दण्डभवं वितत्य, स्वविक्रमं तत्र समं बलेन । श्रीपीठदेवः प्रययौ स भूपो, भूयः समृद्धं निजपारदेशम् ॥५॥ भद्रेश्वरे तत्र नवीनदुर्गं, निर्मापयन्तं जगडूकमुच्चैः । स पीठदेवोऽपि विदाञ्चकार, कारान्तरन्यस्तर्सपत्नपूगः ॥६॥ तत्प्रेषितः कश्चन तत्र गत्वा, सन्देशहारी किल वावदूकः । तदुर्गनिर्माणकृतोद्यमं त-मिति स्फुटां वाचमुवाच सद्यः ॥७॥
१. कच्छैशान्यां दिशि 'पारकर' इति प्रसिद्धो देशोऽस्ति । २. शत्रुसमूहः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org