________________
२४
श्रीजगडूचरितं महाकाव्यम्
[उपजातिवृत्तम्] ग्रावा निजावासवराङ्गणो|, विमोचितस्तेन मनस्विना सः । स्वबन्धुवर्गक्रमपङ्कजानां, जलेन तस्योपरि शुद्धिहेतोः ॥२६।। भद्रः सुरो भद्रपुराधिनाथो, योगीन्द्ररूपं विरचय्य नव्यम् । भिक्षाकृते श्रीजगडूनिवासा-ङ्गणेऽगमत् तद्गुणहृष्टचित्तः ॥२७॥ राजलदेवीं ददतीं सुभिक्षां, राजप्रियां तत्र स योगिराजः । ततो जगादेति शुभे गृहेशं, त्वं साम्प्रतं चानय मे पुरस्तात् ॥२८॥ आकारितः श्रीजगडूस्तयासौ, तत्रैत्य तद्ग्रावनिबद्धदृष्टिम् । ननाम योगीन्द्रमुदारबुद्धि-रत्यद्भुताकारधरं तदानीम् ॥२९॥ त्वं निर्विलम्बं मतिमन्निदानी, गृहाण पाषाणममुं गृहान्तः । किलेति योगीन्द्रवच: प्रमाणी-चकार सत्त्वैकनिधिः स धीरः ॥३०॥
[शालिनीवृत्तम्] ग्राव्णः सन्धौ तीक्ष्णटङ्कप्रहारं, चक्रे योग्यादेशतः सत्वरं सः । भिन्नं चासीत्तत्पुटद्वन्द्वमुच्चै-दिव्या रत्नश्रेणिराविर्बभूव ॥३१॥
[उपजातिवृत्तम्] रत्नान्यमून्यत्र मनोहराणि, न्यवीविशद् भूमिपतिर्दिलीपः । स ग्रावमध्यस्थितताम्रपत्रे, वर्णानिति प्रेक्षत सोलसूनुः ॥३२॥ रत्नानि तानि प्रवरप्रभाणि, प्रदाय तस्मै निजदिव्यरूपम् । प्रदर्श्य तत्सुन्दरसौधमध्यात्-ततस्तिरोधत्त स सत्प्रभावः ॥३३॥
[उपेन्द्रवज्रावृत्तम्] जगत्रयीविश्रुतकीर्तिपूरः, परोपकारैकपरायणोऽसौ । दिने दिने भूरितरं बभार, श्रितोत्तराशोऽर्क इव स्वतेजः ॥३४॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org