________________
२२
श्रीजगडूचरितं महाकाव्यम् भृत्यान् नियुक्तानपि तद्ग्रहाय, जयन्तसिंहेन निवार्यमाणान् । निरीक्ष्य दर्प सुतरां दधानो, वाचं जगादेति स कस्य भृत्यः ॥७॥ ददाति दीनारसहस्रमेक-ममुष्य यो मन्दिरनायकस्य । स एव गृह्णाति दृढाभिमानी, ग्रावाणमेनं जलधेस्तटस्थम् ॥८॥ आकर्ण्य तस्येति वचो जयन्तः, पुनर्बभाषे भवतोक्तमाशु । द्रव्यं प्रादायार्द्रपुराधिपस्य, गृह्णामि पाषाणममुं हठेन ॥९॥ स म्लेच्छपोताधिपतिर्जगाद, द्रव्यं तदेतद्विगुणं प्रदाय । किलार्द्रभूपस्य कृतोरुसन्धो, ग्रावाणमादाय भजामि कीर्तिम् ॥१०॥ ददाति दीनारकलक्षमेकं, नरेश्वरस्यास्य तु योऽभिमानी । गृह्णातु पाषाणममुं स एव, जयन्तसिंहस्त्विति जल्पति स्म ॥११॥ स स्तम्भतीर्थीयतुरुष्कभृत्यो, भूयो जगादेति वचः सरोषः । द्रव्यं नृपस्य त्वदुदीरितं द्राक्, प्रदाय पाषाणममुं ग्रहीष्ये ॥१२॥ प्रदाय दीनारकलक्षयुग्म-ममुष्य भूपस्य कृतप्रतिज्ञः ।। गृह्णामि पाषाणममुं समन्ता-दित्याचचक्षे स जयन्तसिंहः ॥१३॥ स म्लेच्छभृत्यः पुनरप्युवाच, दीनारलक्षत्रितयं त्विदानीम् । ददाति यो मन्दिरभतुरनं, स एव पाषाणमिहाददीत ॥१४॥ तद्वादमाकर्ण्य समागतस्य, नृपस्य तत्र त्वरितं तदानीम् । पणीकृतं द्रव्यचयं प्रदाय, पाषाणमङ्गीकृतवाञ्जयन्तः ॥१५॥ दुष्टग्रहेणाब्द इवाम्बुवर्षं, दर्शण शीतांशुरिव प्रकाशम् । शशाक दातुं द्रविणं तदानीं, न तेन वादेन स सत्प्रमाणम् ॥१६॥
१. अमावास्यया ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org