________________
श्रीजगडूचरितं महाकाव्यम् कोकाम्बुजन्मनिवहे विहितापराधा, शीघ्रं ययौ रविभियेव निशापिशाची ॥५९॥
[द्रुतविलम्बितवृत्तम्] अथ रथाङ्गकलारवसूचितधुमणिभर्तृसमागमशङ्किनी। हरिहरित्प्रससाद तदाधिकं, गलिततामसशोकसमुच्चया ॥६०॥
[मालिनीवृत्तम्] जलनिधिवरदानप्राप्तहर्षप्रकर्षः, सुहृदयजनजाग्रत्तोषपोषः प्रभाते । कविवरपरिगीतस्फीतकीर्त्तिव्रजोऽसौ, निजसदनमवाप प्राज्यसौभाग्यलक्ष्मीः ॥६१॥
इत्याचार्यश्रीधनप्रभगुरुचरणराजीवनञ्चरीकशिष्यश्रीसर्वाणन्दसूरिविरचिते श्रीजगडूचरिते महाकाव्ये रत्नाकरवरदानव्यावर्णनो नाम
तृतीयः सर्गः ॥३॥
१. पूर्खा दिक् ।
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org