SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ रत्नाकरवरदानव्यावर्णनो नाम तृतीयः सर्गः त्वत्त एव समासाद्य, जीवनं जलदावली । जगतीं जीवयत्येना-मखिलामपि लीलया ॥५०॥ दर्शनेन तवानेन, त्वदेककृतचेतसः । अद्यैव पातकं सर्वं प्रक्षीणं मम हेलया ॥५१॥ वंशवृद्धिकरं पुत्रं, धर्मवृद्धिकरीं श्रियम् । देहि मे चेत् प्रसन्नोऽसि, रत्नाकरसुरोत्तम । ॥५२॥ स देवः प्रोचिवानेनं, कृतिन् ! भावी न ते सुतः । सर्वार्थसाधिका लक्ष्मी - रेका भवतु निश्चला ॥५३॥ पूरयिष्यसि यानि त्वं, यानपात्राण्यनेकशः । मद्वरेण न तेषूच्चैः, कश्चिद्विघ्नो भविष्यति ॥५४॥ असाविति वरप्रान्ते, तमाह सुरपुङ्गवम् । यथा मे पुत्रहीनत्वं मद्भ्रात्रोरपि किं तथा ॥ ५५॥ गिरेति प्रीणयामास, तमथो सुस्थितामरः । पुत्रौ पुत्र तव भ्राता, राजाख्यः समवाप्स्यति ॥५६॥ स्वकोशान्तरसाराणि, रत्नानि कतिचित् पुनः । प्रदाय जगडूकाय, तिरोधत्त सुरोत्तमः ॥५७॥ निशाप्रस्थानपटह-ध्वनिडम्बरसोदरम् । अथ स्वरं प्रयत्नेन, चकार चरणायुधः ॥५८॥ [ वसन्ततिलकावृत्तम् ] प्रस्वेदबिन्दुनिभनिर्गलदच्छतारा, विस्रस्तमेचकतमोवसना निकामम् । १. कुर्कुटः । Jain Education International 2010_02 For Private & Personal Use Only १९ www.jainelibrary.org
SR No.002555
Book TitleJagducharitam Mahakavyam
Original Sutra AuthorSarvanandsuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages172
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy