________________
१
श्रीजगडूचरितं महाकाव्यम् श्रुत्वेति वचनं पत्युः, पुनः प्रोचे यशोमती । देवताराधनं कार्यं, त्वया सन्ततिसम्पदे ॥४०॥ साधूदितं त्वया सुभ्र !, जजल्पेत्यथ सोऽनघः । समुद्राराधनं सम्यक्-करिष्याम्याप्तुमीहितम् ॥४१॥ रत्नाकरं परित्यज्य, सर्वदैवतसंश्रितम् । आधारं भूभृतामुच्चैः, कः परं सेवते सुधीः ॥४२॥ पुत्रेणैव कुलं यस्माद् धर्मकार्यं धनेन च । तस्मात् तदुभयप्राप्त्यै, सेवे रत्नाकरं प्रिये ! ॥४३॥ यशोमत्यपि सावादी-ददीनवदना पतिम् । सेत्स्यत्यदोऽखिलं कार्यं, यद्यब्ध्याराधनोद्यमः ॥४४॥ जगजगदानन्दी, कस्मिश्चन शुभे दिने । ययौ वारिनिधेस्तीरे, पवित्रे जलसीकरैः ॥४५॥ ढौकयित्वाथ नैवेद्यं, विविधं भक्तिभासुरः । सोऽब्धिमाराधयामास, सप्ताहाशनवज्जितः ॥४६॥ तद्भक्तिव्यक्तसम्प्रीत-मानस: सुस्थितामरः । प्रादुर्बभूव तस्याग्रे, निशीथे भासुरद्युतिः ॥४७॥ प्रोत्फुल्लनयनद्वन्द्वः, स धीमाञ्जगडूर्जवात् । प्रणम्य च महाभक्त्या, सुस्थितामरमस्तवीत् ॥४८॥ जयाखिलसुरावास !, जय शतमहीधर । जय श्रीकनकप्रोच्यै-जय रत्नाकरप्रभो ! ॥४९॥
१. समुद्राधिष्ठायक देवः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org