________________
१७
रत्नाकरवरदानव्यावर्णनो नाम तृतीयः सर्गः
दारिदयं दलयनुच्चैः, सर्वेषामपि चार्थिनाम् । स कालं गमयामास, कियन्तं पुत्रवर्जितः ॥२९॥ नानाविधानि पुण्यानि, कुर्वाणस्यापि नाऽभवत् । भ्रातृद्वयान्वितस्यापि, तस्य सत्पुत्रसन्ततिः ॥३०॥ निशावसानसमये, श्रीसोलस्यादिमाङ्गजः । सन्तत्यानघया हीन-श्चिन्तयामासिवानिति ॥३१॥ स्तम्भेनेव गृहं नागा-धीशेनेव महीतलम् । नगरेणेव बोहित्थं, कुलं पुत्रेण धार्यते ॥३२॥ धूलिधूसरपुत्राङ्ग-परिष्वङ्गसुखामृतैः ।। धन्यानां हृदये तापः, सकलोऽपि विलीयते ॥३३॥ हहा ममापि मद्भात्रो-रनयोर्नयशालिनोः । पवित्रा सन्तति स्ति, यया गोत्रं स्थिरीभवेत् ॥३४॥ इति चिन्ताभरव्यग्रं, प्रत्यग्रप्रेमशालिनी । प्रियं यशोमती प्रोचे, तमतीवविचक्षणा ॥३५॥ किमाधिरस्ति वा व्याधि-स्तव प्राणेश ! सम्प्रति । येनेदं त्वन्मुखं याति, दिवसेन्दुसमानताम् ॥३६।। अस्ति मत् तव गोप्यं किं, रहस्यं जीवितेश्वर ! । येनेदमपि नो दुःखं, मदने कथ्यते त्वया ॥३७॥ अथ प्राणप्रियामूचे, सोऽसामान्यगुणान्विताम् । भद्रे ! सत्पुत्रहीनत्वं, परं मे दुःखकारणम् ॥३८॥ ममापि किल मद्भात्रो-रस्ति नो पुत्रसन्ततिः । पतापतं कुलं वीक्ष्य, तेन दूये निरन्तरम् ॥३९॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org