________________
१६
श्रीजगडूचरितं महाकाव्यम् स्वप्रियायां यशोमत्यां, पुत्रीं प्रीतिमतीमथ । धृताविव मुदं श्रीमा-ञ्जगडूरुदपादयत् ॥१९॥ वर्धमाना कुलाम्भोज-राजहंसी क्रमेण सा । मनो जहार नो कस्य, गत्या च कलया गिरा ॥२०॥ स तां कन्यामथान्येद्यु-र्यशोदेवाय दत्तवान् । तत्पाणिग्रहणादूर्ध्व-मयमाप मृति क्षणात् ॥२१॥ अशुभं कुर्वतः स्थाने, शुभस्य प्रतिकूलतः । दैवस्यास्य न केनापि, महिमाऽत्र तिरस्कृतः ॥२२॥ ततः स्वज्ञातिवृद्धाना-मनुमत्यैष धीमताम् । वराय दातुमन्यस्मै, तनयामुपचक्रमे ॥२३॥ वृद्धे कुलाङ्गने दक्षे, केचिद्वैधव्यदूषिते । शृङ्गारं स्फारमाश्रित्य, तमूचतुरिति स्फुटम् ॥२४॥ पुत्र्या वैधव्ययुक्ताया, अपि चेद्वरमीक्षसे । तदावयोरपि श्रीमन्-विधेहि वरवीक्षणम् ।।२५।। तयोरिति वचः श्रुत्वा, प्रतिबोधोचितं शुचि । अवाप हृदये लज्जां, श्रीमालान्वयमण्डनः ।।२६।। मानयित्वा तयोर्वाचं, यशोमत्याः पतिस्ततः । स पुत्रीश्रेयसेऽकार्षीत्-कूपवाप्यादिकं विधिम् ॥२७॥ पुत्रीवैधव्यदुःखं स, त्यक्त्वा हृदि गभीरधीः । नित्यं विरचयामास, धर्मकर्माण्यनेकशः ॥२८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org