________________
रत्नाकरवरदानव्यावर्णनो नाम तृतीयः सर्गः
बभूव पद्मा पद्मस्य, दयिता हितकारिणी । शचीव मरुतां पत्युः कौमुदीवामृतद्युतेः ॥९॥ अतिदानव्यसनिनः, कृतिनः पुण्यशालिनः । न चिन्ता जगडूकस्य, धने तुच्छेप्यजायत ॥१०॥ अथान्येद्युः परिसरे, पुरस्यास्य स भाग्यभूः । पशुपालकमद्राक्षी-च्चारयन्तमजा निजाः ॥११॥ स्वयूथमध्यगामेका-मजामपि मनोहराम् । ग्रीवाबद्धमणिं दृष्ट्वा, स हृदीति व्यचिन्तयत् ॥१२॥ सर्वश्रीसाधकः कामं, सद्भाग्यावाप्यदर्शनः । मणिर्यद्येष मे गेहे, तदा पूर्णा मनोरथाः ॥१३॥ चिन्तयित्वेति जगडूः, पशुपालस्य किञ्चन । धनं दत्त्वा गृहीत्वाजां, तामगानिजमन्दिरम् ॥१४॥ अजाकण्ठात् तमाकृष्य, मणिं लक्ष्मीविधायिनम् । स्वगृहे पूजयामास प्रच्छन्नं च विचक्षणः ॥१५॥ मणेमहिम्ना तस्याथ, जगडूसदनान्तरे । प्रावर्धताखिला लक्ष्मी-र्भावनेव सदाशये ॥१६॥ चिन्तामणिरिवात्यर्थ-मर्थिनामभिलाषताम् । जगडूः पूरयामास, दानेनाथ गरीयसा ॥१७॥ क्षीरार्णवतरङ्गाभै-जगडूकीर्तिसञ्चयैः । सद्दानकर्मजनितै-स्त्रिलोकी धवलीकृता ॥१८॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org