________________
श्रीजगडूचरितं महाकाव्यम् ।
[उपजातिवृत्तम्] भर्तुः परीरम्भसुखामृतेन, हृत्सिञ्च दुःसाध्यवियोगतापम् । विमुञ्च मानं च कृतार्थय त्व-मिदं दुरापं नवयौवनं च ॥१८॥ क्रीडाशुकी काचन धन्यगेहे, विचारयुक्ता सुतरां सखीव । अबूबुधद्यत्र किलेति दीर्घ-मानान्वितां काञ्चन चारुनेत्राम् ॥१९॥
युग्मम् ॥ सौधान्तरागत्य मरुद् गवाक्ष-मार्गेण पुष्पावलिगन्धरम्यः । पस्पर्श वक्षोजयुगं वधूनां, यत्राप्यहो पुण्यमये दिवापि ॥२०॥ मृगीदृशां हृत्सरसि स्मरोऽयं, रतिं श्रयन् यत्र चकार केलिम् । तत्प्रौढवक्षोरुहकैतवात्-तत्कुम्भद्वयेनातिमनोहरश्रीः ॥२१॥ प्राणप्रियेणापि हृते करेण, रागेण यत्र स्वनितम्बवस्त्रे । सत्पद्मरागालयभावृताङ्गी, सरोजनेत्रा हियमाप नैव ॥२२॥ वापीषु कूपेषु सरस्सु यत्र, पीयूषपूरं निदधे पयोधिः । सूर्योऽपि सम्भाव्य सुरखजेभ्यः, स्वमन्थनं भीत इव प्रकामम् ।।२३।।
[रथोद्धतावृत्तम्] देवभक्तिगुरुभक्तिबन्धुरा, बन्धुवर्गपरितोषकारकाः । दम्भलोभमदमत्सरोज्झिता, यत्र पुण्यमतयो जना बभुः ॥२४॥ घुर्घरा जयति यत्र देवता, घोरविघ्ननिकरैकवारिणी । सर्वदातिशयराजिधारिणी, विश्ववाञ्छितविभूतिकारिणी ॥२५॥
[स्वागतावृत्तम्] उन्नतित्वकलितः किल बिभ्रत्, स्थैर्यमद्रिरिव यत्र जनौघः । राजते स्म च तदद्भुतमेव, यनितान्तमयमुज्झितकूटः ॥२६।।
__Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org