________________
वियदुप्रभृतिपूर्वपुरुषव्यावर्णनो नाम प्रथमः सर्गः किं वा मेचकचित्रकेण यदसौ सोलस्तु सोमाननो, दृष्टोऽस्माभिरुदारभाग्यकलया दारिद्र्यसर्वङ्कषः ॥४२॥
[द्रुतविलम्बितवृत्तम्] सकलयाचकचातकपोषकृन्-निजसुहृत् तरुवर्धनबन्धुरः । खलजवासकदैन्यविधायकः, स शुशुभे भुवि दानघनाघनः ॥४३॥
[स्वागतावृत्तम्] सप्ततत्त्वविदुरः शुचिसप्त-क्षेत्रभावनिहितोत्तमवित्तः । सप्तदुर्गतिभयेन विमुक्तः, सप्तससिरभवत् स महोभिः ॥४४॥
__ [उपजातिवृत्तम्] कर्पूरमन्दारगिरीशगौरै-र्गुणैरनेकैः कलितो नयाद्यैः । महेभ्यमुख्यः किल सोलनामा, प्रमोदयामास सतां मनांसि ॥४४॥
इत्याचार्यश्रीधनप्रभगुरुचरणराजीवचञ्चरीकशिष्यश्रीसर्वाणन्दसूरिविरचिते श्रीजगडूचरिते महाकाव्ये वीयहुप्रभृतिपूर्वपुरुषव्यावर्णनो नाम
प्रथमः सर्गः ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org