________________
श्रीजगडूचरितं महाकाव्यम्
लक्षः शङ्खवलक्षकीर्तिनिकरव्याप्तक्षमामण्डलः, शश्वल्लक्षणमुख्यशास्त्रविदुरो लक्षप्रदातार्थिनाम् । दूरीभूतकुलक्षणः किल जिनाधीशक्रमाब्जद्वयीसेवाजाग्रदुदग्रपुण्यनिवहः प्रीतिं न कस्यातनोत् ॥३७॥
[ वंशस्थवृत्तम् ]
सुलक्षणस्यापि हहा निरर्गला, गुणाः सतां जहुरहो मनोधनम् । वृथा प्रतीतिर्जगतीति कारण - स्वभावभाक् कार्यमवेक्ष्यतेऽखिलम् ॥३८॥ [ शार्दूलविक्रीडितवृत्तम् ]
नो शम्भुर्वृषभं हिमाचलसुता कण्ठीरवं नो निजं, नो ब्रह्मा किल राजहंसमिथुनं नैरावणं वासवः ।
दूरे मुञ्चति जातुचित् पुनरपि क्लेशात् तदाप्त्या भृशम्, श्री सोलस्य यशः श्रिया धवलितेऽप्यस्मिंस्त्रिलोकेऽखिले ||३९||
[ स्वागतावृत्तम् ]
चारुरूपकलिता दयितासीत्, श्रीः पवित्रवरिष्ठा किल तस्य । प्रेमवैभववतीव मुरारे, रुक्मिणी गिरिसुतेव हरस्य ॥४०॥
[ शालिनीवृत्तम् ]
सोहीनामा वर्ण्यते कैर्न धीरः सोऽयं गङ्गातोयशुभ्रैर्गुणोघैः । चित्रं चित्रं सर्वदा सज्जनानां, रागाधिक्यं हृत्सु येन व्यधायि ॥४१॥
[ शार्दूलविक्रीडितवृत्तम् ]
किं चिन्तामणिना किमु द्युतरुणा किं कामगव्या तया, किं वा पूर्णघटेन किं जलधिना किं रोहणक्ष्माभृता ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org