SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ वियदुप्रभृतिपूर्वपुरुषव्यावर्णनो नाम प्रथमः सर्गः धर्ता भुवोऽपि भुजगाधिपतिः स्वकीयाः, कामं शुचीरयममंस्त समस्तजिह्वाः ॥३१॥ [मालिनीवृत्तम्] कलियुगरिपुभीतो न क्वचित् स्थातुमीशो, विविधगुणनिवासं यं समाश्रित्य मन्ये । अभजत पुनरेष प्रौढिमानं तु धर्मो, न भवति गुरुसङ्गाद्दीप्तियोगो हि कस्य ॥३२॥ _[वंशस्थवृत्तम्] जगत्त्रयीपावनयद्गुणावली-गानैकतानः सुतरां विरञ्चनः । न तं पुनश्चिन्तयितेति तर्कये, सन्ध्याद्वयोपासनबन्धुरं विधिम् ॥३३॥ [दोधकवृत्तम्] लक्षश्सुलक्षणरसोलक३सोही४नाममनोहरपुत्रचतुष्कः । वीसल एष सुधर्मविशेषं, कं न चकार निरस्तकुबोधः ॥३४॥ [उपजातिवृत्तम्] अथ प्रपूर्यायुरसौ स्वकीयं, सद्धर्मकर्मप्रथनैकचितः । अनन्यमाहात्म्यभराभिरामो, जज्ञे सुरो भासुरकायकान्तिः ॥३५।। [शार्दूलविक्रीडितवृत्तम्] विघ्ना दूरत एव यान्ति निखिलाः सम्पत्तयः सन्ततं, द्योतन्ते परितः स्फुरन्ति विविधाः कल्याणमालास्तथा । सत्कीर्तिः प्रसरीसरीति भवति श्रेयस्करी सन्ततिस्तेषां ये हृदि चिन्तयन्ति कृतिनस्तं भूमिपीठे सुरम् ॥३६॥ Jain Education International 2010_02 For Private & Personal Use Only www.jainelibrary.org
SR No.002555
Book TitleJagducharitam Mahakavyam
Original Sutra AuthorSarvanandsuri
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2009
Total Pages172
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari & Literature
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy