________________
४
श्रीजगडूचरितं महाकाव्यम् कल्याणवानखिलभूमिभृतां सुमान्यो, मित्र-द्विजाधिपति-धिष्ण्यकृतोरुदीप्तिः । श्रीमालवंश इह मेरुरिवोन्नतोऽस्ति, संसेवितः प्रतिदिनं विबुधैरनेकैः ॥१५॥ मर्यादया परियुतो जगतीधराणामाधारतामुपगतः सुतरां गभीरः । पुंरत्नजातिकलितः सुकृतस्रवन्तीसंयोगभाग्विजयते जलराशिवद् यः ॥१६॥ तस्मिन् बभूव सकलव्यवहारमुख्यो, भास्वविवेकविनयादिगुणैकधामा । वियहुरुत्तमजिनेश्वरधर्ममर्मविज्ञाननिर्मलमतिः कमलाभिरामः ॥१७॥ अश्रान्तभूवलयभूरितरोरुभारोद्भारोद्भवश्रमजदु:खमपाकरोति । पातालभर्तुरुरगीभिरतिप्रमोदाद्यद्दानकीर्तिरमला परिगीयमाना ॥१८॥ यत्कीर्तिपूरविमले भुवनत्रयेऽस्मिन्, मन्ये हिमाचलसुता मुदमाससाद । दिग्वाससं श्रितकपालममुं पति मे, नातः परं यदवलोकयितुं परोऽलम् ॥१९॥ श्रीसङ्घभक्तिजिनमन्दिरकूपवापीसत्रप्रपाप्रमुखपुण्यचयं विधाय । प्रौढप्रतापमवनौ परिवर्त्तमानं, कामं कलेरपि च यो दलयाम्बभूव ॥२०॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org