________________
वियदुप्रभृतिपूर्वपुरुषव्यावर्णनो नाम प्रथमः सर्गः
सच्चक्रनन्दकतया च मह:श्रिया च, शश्वत् परग्रहसुनिग्रहकारणेन । मित्रोपमामयमवाप दुरापकीर्तिश्चित्रं पुनर्यदवनेर्हरति स्म तापम् ॥२१॥ तस्याङ्गजोऽजनि जनप्रमदैकवार्ता-। धाम श्रियां च वरणाग इति प्रसिद्धः । यत्कीर्तिनव्यशुचिहारयुता निरीक्ष्य, काष्ठाः प्रिया हि चकिता हृदि वासवाऽऽद्याः ॥२२॥ भोगावती परिजिता त्वमरावती वाऽनाऽलका किल यया शतशो दधत्या । भोगीश्वरान् विबुधपान् धनदान् स कन्थां, तामध्युवास नगरीमथ मन्मथाभः ॥२३॥ गौरीपतेरपि शिरः सततं श्रितो यः, शीतद्युतिर्न समवाप कलां द्वितीयाम् । विश्वत्रयीधवलनोद्यतयाऽस्य कीर्त्या, पुष्टिं गतस्तु स बिभर्ति कलाकलापम् ॥२४॥ शत्रुञ्जयाभिधगिरावथ रैवताद्रौ, सङ्घाधिपत्यमधिगत्य चकार यात्राम् । यः कल्पवृक्ष इव दीनजनस्य दैन्यमुद्दामदानकलया दलयाम्बभूव ॥२५॥ तन्नन्दनः सकलसज्जनवर्ण्यमानः, श्रीमज्जिनाधिपतिसेवनकक्षबद्धः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org