________________
वियदुप्रभृतिपूर्वपुरुषव्यावर्णनो नाम प्रथमः सर्गः
एकस्त्रिलोकमखिलं धवलीचकार, धिक्कारकृत् कलिरिपोर्जगडूविवेकी ॥९॥ चेतः प्रसीदतितरां भवतः पवित्रौ, की जवादपि च गच्छति सर्वदुःखम् । हर्षः परिस्फुरति साधुजनस्य सम्यगाकर्णितेऽत्र जगडूचरिते प्रशस्ते ॥१०॥ सारस्वतस्मरणजाग्रदुदग्रबुद्धिप्राग्भारभासुरकवीश्वरवर्ण्यमानम् । गीर्वाणवारणरदद्युतिसोदरं न, कः संस्तवीति जगडूगुणचक्रवालम् ॥११॥ वाचस्पतेरपि धियामवकाशता न, स्तोतुं गुणाञ्जगति यस्य नितान्तपूतान् । कर्तुं हि तस्य जगडूसुधियश्चरित्रमुत्कण्ठितोऽहमधुना स्मितभून कस्य ॥१२॥ विद्यामहोदधिशशाङ्ककलासमाने, मातः सरस्वति ! मुखे वस मे निकामम् । नो चेत् प्रसिद्धजगडूचरितप्रथायां, मन्दादरस्य तु सतो मम ते त्रपैव ॥१३॥ संस्मृत्य वाचममलां स्वगुरोः क्रमाब्जद्वन्द्वं च पुण्ययशसः प्रथयामि हन्त । तस्योत्तमं चरितमद्भुतभावभासि, तच्छ्रयतां सुकृतिभिः कलितप्रमोदैः ॥१४॥
___Jain Education International 2010_02
. For Private &Personal Use Only
www.jainelibrary.org