________________
श्रीजगडूचरितं महाकाव्यम् तीव्रापकारकरणैकहदोऽपि सर्वे, ते दुर्जना जगति जाग्रतु नित्यमेव । येषां नितान्तभयतः क्वचनापि काव्यमार्गात् स्खलन्ति कवयो न लसद्विवेकाः ॥४॥ सन्तः पवित्रचरिता दुरिताभिमुक्ता, राजन्ति ते विधुविभाजयिसद्गुणौघाः । स्वार्थं विमुच्य सुतरां हि परार्थसार्थसंसाधनाय दधते निजमानसं ये ॥५॥ स्वर्गापवर्गपदवीसमवाप्तिमेष, कल्पद्रुमो न ददते ध्रुवमर्थितोऽपि । धर्मः स्वभावसरलस्तु विवेकभाजां, तां लीलयैव ददतेऽपि गतस्पृहाणाम् ॥६॥ विश्वत्रयीहितकृता प्रकटीकृतो यः, श्रीनाभिभूपतनयेन जिनेश्वरेण । दानादिभेदकलिताय नमोऽस्तु तस्मै, धर्माय भूतिधृतिकीर्तिमतिप्रदाय ॥७॥ लक्ष्मीस्तरङ्गतरला पवनप्रकम्पश्रीवृक्षपत्रनिभमायुरिहाङ्गभाजाम् । तारुण्यमेव नवशारदसान्ध्यरागप्रायं स्थिरा सुकृतजा किल कीतिरेषा ॥८॥ गङ्गातरङ्गविमलेन यशोभरेण, दानोद्भवेन किल कल्पशतस्थिरेण ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org