________________
आचार्यश्रीधनप्रभसूरिविनेय__ श्रीसर्वाणन्दसूरिविरचितं
श्रीजगडूचरितं महाकाव्यम् वियदुप्रभृतिपूर्वपुरुषव्यावर्णनो नाम प्रथमः सर्गः
1 [वसन्ततिलकावृत्तम्] यन्मूर्ध्नि पन्नगफणामणिदीपजाग्रज्ज्योतिस्तमोविजयि विघ्नपतङ्गभेदि ।। आविष्करोति कृतिनामपवर्गमार्ग, स श्रेयसे भवतु पार्श्वजिनाधिनाथः ॥१॥ अज्ञानपङ्कनिकरव्यतिषङ्गनाशं, शश्वत्प्रसादसलिलेन समुज्ज्वलेन । बालस्य मे विरचयातिशयाभिरामे, मात: सरस्वति ! जगज्जनवन्द्यपादे ॥२॥ अर्हन्मतार्णवविलासविधाननिष्ठं, राकाभिधेयशुचिपक्षविराजमानम् । दुष्कर्मतापदलनं किल सूरिचन्द्रं, वन्दामहे परमदेवमुदारभक्त्या ॥३॥
___Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org