________________
१४०
श्रीजगडूचरितं महाकाव्यम् ततोऽपरासामिष्टिकानां परीक्षा कृता स्वर्णेष्टिका ज्ञाताः, ततः छन्नं स्वर्णेष्टिका गृहमध्ये आनीता मदनं पृथकृत्वा विक्रीतं पञ्चशतप्रमाणाः । स्वर्णेष्टिका जाता ततः पत्नी पतिं प्रति प्राह-गुरव आकार्यन्ते गुरूक्ते धर्मे धनं व्ययते, धनं शाश्वतं न भवति, ततो गुरव आकारिताः सुमहोत्सवपूर्वं, गुरवो मदनव्यवसायं जगडूसाधुना कृतं, श्रुत्वा जगडूगृहे विहर्तुं न यान्ति, ततो गुरवः प्रोचुरस्माभिश्चल्यते, ततो गुरवो देववन्दनार्थं क्षुल्लकयुता आकारिताः । गुरवो गृहे देवान् वन्दन्ते तदा क्षुल्लकः प्राह-भगवान् ! जगडूगृहे किं लङ्का समागता? इतो वीक्ष्यतां ततो गुरुभिः स्वष्टिका दृष्ट्वा जगडूः पृष्टः का [कुत इमाः] स्वर्णेष्टिकाः ? जगडूः प्राह इष्टिकाग्रहणसम्बन्धं सर्वम्, ततो गुरवो हृष्टा जगडूसाधुना विहारिताः स्वउपाश्रये [स्वोपाश्रये ] आगताः । ततो जगडूः प्राहमया मदनभ्रान्त्या इष्टिका गृहीताः जाताः सुवर्णमय्यः, उच्चैर्न जल्प्यते राजभयात्, टङ्कानां कोटिर्जाता जगडूगृहे ।
एकदा गुरुभि संवत् १३१५।१३१६।१३१७। वर्षत्रये भावि दुर्भिक्षं जातं । ततो भाषासमित्या जगडूसाधुर्जापितः । ततो जगडूसाधुः ग्रामे ग्रामे पुरे पुरे वणिक्पुत्रान् धान्यमूढकलक्षप्रमाणान् संग्राहयामास । ततस्तस्मिन् दुष्काले समागते ११२ महासत्रागारा मण्डितास्तेषु मनुष्यसहस्त्रदशपञ्चाशज्जिमन्ति । राजानः सीदन्तोऽभवन् धान्यं विना, अष्टौ मूढकसहस्राणि वीसलदेवस्य राज्ञः पत्तनस्वामिनो ददौ, द्वादशमूढकसहस्रान् हम्मीरभूपस्यार्पितवान् । इतो गीजनीसुरत्राणो जगडूसमीपे धान्यं याचितुमागतः तदा जगडूः संमुखं गतः सुरत्राणेनोक्तं को जगडू: ? जगडूः प्राह "हुँ जगडू" । ततः सुरत्राणः प्राहन्यायेन त्वं जगत्पिता यतस्त्वया जगदुद्धृतं धान्यदानात्, ततो धान्यं याचितं सुरत्राणेन । जगडूः प्राह-गृह्यताम् । ततः कोष्ठागारे "रङ्कनिमित्त" मित्यक्षराणि वीक्ष्य सुरत्राणः प्राह-अहं पश्चाद्यास्यामि रङ्कनिमित्तं धान्यं न ग्रहीष्ये । ततो जगडू: अस्य रङ्कनिमित्तव्यतिरिक्तं एकविंशतिमूढकमितं धान्यं सुरत्राणाय ददौ ।
अट्ठय मूढसहस्सा वीसलरायस्स बारहम्पीरे । इगवीसा सुरताणे तइं, दिद्धा जगडू दुब्भिक्खे ॥१॥
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org