________________
परिशिष्टम् [३] जगडूसम्बन्धः
१३९ चानयन्ति तच्छेष्ठिनः प्रमाणमेव । यादृशं भाग्यं धनिकस्य भवति तादृगेव वस्तु आयाति, लाभोऽपि तादृक्ष एव भवति, अत्र विचारो न क्रियते । ततो जगडूः समुद्रतीरे तस्य संमुखं गत्वा सन्महं वणिक्पुत्रं प्रस्तरं च स्वगृहे नीतवान् प्राह च लोकाग्रे हसितेन रुदितेनापि कर्मणः पुर: को न [नु] ब्रूते, वर्यं कृतमनेन मम महत्त्वं तत्र रक्षितं, ततो गृहस्याङ्गणे मुक्तः प्रस्तरः । यदा जगडूः प्रस्तरस्योर्ध्वमुपविशति तदा चिन्तयति-पृथिवीं धनार्पणात् सुखिनी करोमि । ततो गुरुपार्वे प्रस्तरस्वरूपं प्रोक्तं, प्रस्तरमध्ये किमपि वर्यं विद्यते, ततो विदार्य प्रस्तरो विलोकितः, सपादलक्षमूल्यानि रत्नानि निर्गतानि, बही लक्ष्मीर्जाता ॥
जगडूसाधुसम्बन्धः
भद्रेश्वरे भाडलभूपो राज्यं चक्रे । पत्तने वीसलराजः सेवां करोति । सालगश्रेष्ठिनः श्रीदेवी पत्नी, पुत्रा-जगडू-पद्मराज-मल्लाह्वा बभूवुः । जगडूसाधुः समुद्रतीरे हट्टे मण्डयामास । एकदा जगडूपार्वे यानपात्रैकाः समुद्रस्तेना आगताः, तैः प्रोक्तम्-अस्माकम् एकं यानं मदनभृतं चटितमस्ति, यदि भवतो रोचते तदा धनं दत्त्वा ग्राह्यम् । ततो जगडूस्तत्र गतो मूल्यं कृत्वा यानपात्रं मदनभृतं ललौ, शकटानि भृत्वा जगह समेतः, जगडूकर्मकराः जगडूपल्याः पुरः प्रोचुः, जगडूसाधुना मदनं गृहीतं कुत्रोत्तार्यते । जगडूपत्नी प्राह-अस्माकं गृहे मदनं पापनिबन्धनं नोत्तार्यते । तया तु नोत्तारयितुं दत्तम् । ततो मदनेष्टिका गृहाङ्गणलिम्बवृक्षस्याध उत्तारिता । जगडू: पल्या समं कलहं चक्रे, हक्किता वक्ति मदनव्यवसाये बहुपापं लगति, ततो मिथः कलिं कृत्वा रुष्टौ, जगडूः प्रियां न जल्पयति, पत्नी जगडूं न जल्पयति एवं मासत्रये जाते शीतकालः समायातः । जगडूपुत्रेण अङ्गीष्टकं कृतं, तत्र तृणादीनि क्षिपति तापनार्थं । इतो बालचापल्यादेका मदनेष्टिकामंगीष्टके चिक्षेप । मदनं गलितं, स्वर्णमयीष्टिका दृष्टा पल्या । पत्नी अजल्पन्त्यपि धनलोभात् जगहू प्रति 'इतो विलोक्यतां' ततो जगडूः संमुखमपि रुष्टो न विलोकयति, ततः पत्न्योक्तम् 'आत्मनो मदनेष्टिका स्वर्णेष्टिका जाता' ततः संमुखं यावद्विलोकयति तावत्स्वर्णेष्टिका दृष्टा ।
____Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org