________________
शत्रुञ्जयतीर्थोद्धारप्रबन्धे ततश्चदिग्नन्दार्कमितेषु विक्रमनृपात्संवत्सरेषु १२९८ प्रयातेषु स्वर्गमवाप वीरधवलामात्यः शुभध्यानतः । बिम्बं मौलमथाभवद्विधिवशाव्यङ्ग्यं सुभद्राचलेद्वैःस्तोकैर्गलितैः कदापि न मृषा शङ्का सतां प्रायशः ॥६२॥ इतश्चआसन् वृद्धतपागणे सुगुरवो रत्नाकराह्वाः पुराऽयं रत्नाकरनामभृत्प्रववृत्ते येभ्यो गणो निर्मलः । तैश्चक्रे समराख्यसाधुरचितोद्धारे प्रतिष्ठा शशिद्वीपत्र्येकमितेषु १३७१ विक्रमनृपादद्वेष्वतीतेषु च ॥६३॥ प्रशस्त्यन्तरेऽपि"वर्षे विक्रमतः कुसप्तदहनैकस्मिन् १३७१ युगादिप्रभुं श्रीशत्रुञ्जयमूलनायकमतिप्रौढप्रतिष्ठोत्सवम् । साधुः श्रीसमराभिधस्त्रिभुवनीमान्यो वदान्यः क्षितौ श्रीरत्नाकरसूरिभिर्गणधरैर्यैः स्थापयामासिवान् ॥१॥" गुप्ताः फलहिकाः सन्ति वस्तुपालसमाहृताः । समरोऽकारयाद्विम्बं स्वाहतेन दलेन तु ॥६४॥ स्मरस्थापितं बिम्बं म्लेच्छैः कालेन पापिभिः । शिरोऽवशेषं विहितं तदद्यापि तथार्च्यते ॥६५॥ तव चित्तालवालेऽसौ मनोरथसुरद्रुमः । उप्तोऽस्मिंस्त्वत्सुते किन्तु भविष्यति फलेग्रहिः ॥६६॥ १-मुख्यम् । २-संवत् १३६८ म्लेच्छाज्ञया तदा शत्रुञ्जयभङ्गः ।
Jain Education International 2010_02
For Private & Personal Use Only
www.jainelibrary.org