________________
परिशिष्ट १०: आचारांग वृत्ति में उद्धृत श्लोक
५१३
वृत्ति पत्र विपर्यास १९४. दारा: परिभवकारा बन्धुजनो बन्धनं विषं विषयाः ।
कोऽयं जनस्य मोहो? ये रिपवस्तेषु सुहृदाशाः ।। (२०६०)
१०९
अशुभ का परिहार १९५. संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः ।
यदि नास्ति ततः किं स्यादस्ति चेन्नास्तिको हतः ।।
(२०६१) मृत्यु का मुख सर्वत्र १९६. शिशुमशिशुं कठोरमकठोरमपण्डितमपि च पण्डितं,
धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम् । यतिमयति प्रकाशमवलीनमचेतनमथ सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि ॥ (२०६२)
वृत्ति पत्र कर्मभोग अवश्यंभावी २०१. पुनरपि सहनीयो दुःखपाकस्त्वयाऽयं,
न खलु भवति नाशः कर्मणां संचितानाम् । इति सह गणयित्वा यद्यदायाति सम्यग्, सदसदिति विवेकोऽन्यत्र भूयः कुतस्त्यः ?
(२०६०) तृप्ति संभव नहीं २०२. यल्लोके व्रीहियवं, हिरण्यं पशवः स्त्रियः ।
नालमेकस्य तत्सर्वमिति मत्वा शमं कुरु ॥
(२।९७,९९) उपभोग से उपशांति नहीं २०३. उपभोगोपायपरो वाञ्छति यः शमयितुं विषयतृष्णाम् ।
धावत्याक्रमितुमसौ, पुरोऽपराह्न निजच्छायाम् ॥
(२।९७,९८) अदान से आक्रोश नहीं २०४. दिट्ठाऽसि कसेरुमई ! अणुभूयासि कसेरुमई !।
पीयं चिय ते पाणिययं वरि तुह नाम न सणं । (२।१०२)
११६-११७ पांच निश्रापद २.५. धर्म चरतः साधोलॊके निश्रापदानि पञ्चापि ।
राजा गृहपतिरपरः षटकाया गणशरीरे च ।।
र०
जिजीविषा १९७. रमइ विहवी विसेसे ठितिमित्तं थेववित्थरो महई ।
मग्गइ सरीरमहणो रोगी जीए च्चिय कयत्थो॥ (२०६३)
१११
लोभी की मनोदशा १९८. कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं,
निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम् । सुरपतिमपि श्वा पावस्थं सशङ्कितमीक्षते, न हि गणयति क्षुद्रो लोकः परिग्रहफल्गुताम् ।। (२०६६)
मूढ कौन ?
१९९. रागद्वेषाभिभूतत्वात्कार्याकार्यपराङ मुखः ।
एष मूढ इति ज्ञेयो, विपरीतविधायकः ॥ (२०६९)
संसार-पर्यटन का खेद २०६. जरामरणदौर्गत्यव्याधयस्तावदासताम् ।
मन्ये जन्मैव धीरस्य, भूयो भूयस्त्रपाकरम् ।।
(२।११०) १११ स्नान है कामांग
२०७. स्नानं मददर्पकरं, कामांगं प्रथम स्मृतम् ।
तस्मात्कामं परित्यज्य, नैव स्नान्ति दमे रताः ॥
(२।११०) मथुनभाव की प्रधानता २०६. न य किंचि अणुण्णायं पडिसिद्धं वावि जिणवरिंदेहि ।
मोत्तुं मेहुणभावं न तं विणा रागदोसेहिं ।।
(२।११०) मोक्ष का उपाय २०९. दोसा जेण निरुज्झति जेण जिझंति पुवकम्माई।
सो सो मुक्खोवाओ, रोगावत्थासु समणं व ॥ (२।११०)
कर्म स्वकृत है २००. उप्तो यः स्वत एव मोहसलिलो जन्मालवालोऽशुभो,
रागद्वेषकषायसन्ततिमहान्निविघ्नबीजस्त्वया । रोगैरङ कुरितो विपत्कुसुमितः कर्मद्रुमः साम्प्रतं, सोढा नो यदि सम्यगेष फलितो दुःखैरधोगामिभिः ।। (२।८०)
११४
Jain Education international
For Private & Personal Use Only
www.jainelibrary.org