________________
२२२ ]
परिशिष्ट-१५
देवता-आह्वान के लिए कायोत्सर्ग
किमयं दैविको देवेन भूतादिना कृत उपद्रव उत धातुक्षोभज इति ज्ञातुं देवताराधनाय उत्सर्गः क्रियते। तस्मिंश्च क्रियमाणे यदाकंपितया देवतया कथितं तदनुसारेण ततः क्रिया कर्त्तव्या।
(गा. १०६८ टी. प. ३२) कायोत्सर्ग से आहूत देव द्वारा भूतचिकित्सा का निर्देश कायोत्सर्गेण देवतामाकम्प्य तद्वचनतः का क्रिया कर्तव्येत्यत आह—भूतचिकित्सा भूतोच्चाटिनी चिकित्सा भूतचिकित्सा ।
(गा. ११४६ टी. प. ४०) वरधनु और आचार्य पुष्यभूति का निश्चल और सूक्ष्म ध्यान
वरधणुग-पुस्सभूती, कुसलो सुहुमे य झाणम्मि।
यथा पुष्यभूतिराचार्यः सूक्ष्मे ध्याने कुशलः सन् ध्यानवशाद् निश्चलो निरुच्छ्वासोऽतिष्ठत् । वरधनुना मृतकवेषकः कृतस्तथा निश्चलो निरुच्छ्वासः सूक्ष्ममुच्छ्वसत् तिष्ठति ।
(गा. ११७८ टी. प. ४७) यथार्थ निर्णय के लिए कायोत्सर्ग भूतार्थनिर्णये तवो त्ति तपस्वी कायोत्सर्गेण देवतामाकम्प्य पृच्छति ।
(गा. १२४३ टी.प. ६०) कायोत्सर्ग द्वारा सम्यग्वादी मिथ्यावादी का निर्णय
तपस्वी क्षपको देवताराधनार्थं कायोत्सर्गं कुर्यात् । कायोत्सर्गे च देवतामाकम्प्य पृच्छति को तयोर्द्वयोर्मध्ये सम्यग्वादी को वा मिथ्यावादीति तत्र यद्देवता ब्रूते।
(गा. १२४७ टी. प. ६१) विविध स्थितियों में कायोत्सर्ग
प्रथम चरमे च कारणे समुपजाते उभयस्मिन्नप्याचार्ये प्रतीच्छके च विधिःस्मरति च्छिन्नोपसंपदिति ज्ञापनार्थं कायोत्सर्ग कृत्वा स प्रतीच्छको व्रजेत्, अथ प्रातीच्छिकस्य विस्मृतं तत आचार्येण स्मारयितव्यं यथा कुरु च्छिन्नोपसंपन्निमित्तं कायोत्सर्गमिति, अथानाभोगतो द्वयोरपि पम्हट्ठमिति एकान्तेन विस्मृतं ततो द्वयोरप्येकान्तेन विस्मृतावकृते कायोत्सर्गे सम्प्रस्थितो यदासन्ने प्रदेशे स्मरति, तदासन्नात् निवर्तेत, निवृत्य च कायोत्सर्गो विधेयः।
(गा. २११४ टी. प. ७४) अथ दूरं गत्वा स्मृतवान् ततो दूरगतेन स्मृतेन साधर्मिकं दृष्ट्वा तस्य सकाशे समीपे कायोत्सर्गः करणीयः, सन्देशश्च प्रेषणीयः, आचार्यस्य यथा तदानीं युष्मत् समीपे कायोत्सर्गकरणं विस्मृतमिदानीममुकस्य साधर्मिकस्य समीपे कृतः कायोत्सर्ग इति कायोत्सर्गं च कृत्वा यदकृते कायोत्सर्गे सचित्तादिकमुत्पन्नं तत्प्रेषयति ।
(गा. २११५ टी. प. ७४) छिन्न उपसंपदा की प्रतीति के लिए कायोत्सर्ग योगं वहन् गणान्तरमन्यत्र संक्रामन् च्छिन्ना उपसम्पदिदानीमिति प्रतिपत्त्यर्थं कायोत्सर्गं कृत्वा व्रजेत् ।
(गा. २११६ टी. प. ७४) अत्राप्यागाढयोगे पूर्णेऽपूर्णे वा आचार्येण यस्य सकाशे योगं प्रतिपन्नस्तेन सूरिणा विसर्जिता, विसर्जने कृते च्छिन्ना उपसम्पदिति ज्ञापनार्थं संस्मरन् कायोत्सर्ग कुर्यात् ।
(गा. २१२२ टी. प. ७५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org