________________
परिशिष्ट-१५
[२२३
अस्वास्थ्य में आयंबिल एवं कायोत्सर्ग द्वारा चिकित्सा .
एकस्मिन् दिवसे कायोत्सर्गो, द्वितीये दिवसे निर्विकृतिकं, तृतीये दिवसे कायोत्सर्गश्चतुर्थे निर्विकृतिकं । एवमेकान्तरिते कायोत्सर्गनिर्विकृतिके नवदिवसान् यावत् कारयेत् तथाप्यतिष्ठति ग्लानत्वे दशमे दिवसे योगो निक्षिप्यते ।
(गा. २१३५ टी. प. ७७) कायोत्सर्ग द्वारा देवता का आह्वान कायोत्सर्गेण देवतामाकम्प्य ततः क्षपकस्य कायोत्सर्गकरणं देवताया आकम्पनम् । सा आगता ब्रूते संदिशत किं करोमि ?
(गा. २३३१ टी. प. ८) अनुयोग के प्रारम्भ में कायोत्सर्ग अनुयोगारंभनिमित्तं कायोत्सर्गम् ।
(गा. २६५१ टी. प. ३७) महापान (महाप्राण) ध्यान कितना ? किसके ?
बारसवासा भरधाधिवस्स, छच्चेव वासुदेवाणं। तिण्णि य मंडलियस्सा, छम्मासा पागयजणस्स ।।
महाप्राणध्यानमुत्कर्षतो भरताधिपस्य चक्रवर्तिनो द्वादशवर्षाणि यावद् भवति, षट् वर्षाणि यावद् वासुदेवानां बलदेवानामित्यर्थः । त्रीणि वर्षाणि माण्डलिकस्य, षण्मासान् यावत् प्राकृतजनस्य।
(गा. २७०१ टी. प. ४५) भद्रबाहु की महापानध्यान साधना
पूर्वगते अधीते बाहु स नामे भद्रबाहुरिव पूर्वगतं पश्चान्महापानध्यानबलेन मिनोति निःशेषमात्सेच्छया तावन्न निवर्तते ततश्चिरकालमपि वसति. तस्य न कोऽप्यपराधः प्रायश्चित्तदण्डो।
(गा. २७०३ टी. प. ४६) महापान ध्यान का निर्वचन पिबति अर्थपदानि यत्रस्थितस्तत्पानं, महच्च तत्पानं च महापानमिति ।
(गा. २७०३, टी. प. ४६) चारों दिशाओं में कैसे-कितना कायोत्सर्ग ?
त्रीन् वारान् भूमिं रजोहरणेन प्रमाय॑ ततश्चोत्तराभिमुखो द्वावपि पादौ स्थापयित्वा पञ्चभिरिन्द्रियैः षष्ठेन च मनसा सम्यगुपयुक्तः प्रादोषिककालग्रहणनिमित्तं उत्सर्ग कायोत्सर्गं करोति । स चैवं पादोसियकालस्स सोहणवत्तियाए ठामि काउस्सग्गं अन्नत्थऊससिएणं जाव अरिहंताणं भगवंताणं नमोक्कारेणं न पारेमि ताव कायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि। एवं कायोत्सर्गं कृत्वा तत्राष्टावुच्छ्वासान् चिन्तयति पञ्च नमस्कारं मनसानुप्रेक्षते इत्यर्थः । ततो मनसैव नमस्कारेण पारयित्वा चतुर्विंशतिस्तवं द्रुमपुष्पिकां श्रामण्यपूर्विकाध्ययनं परिपूर्ण क्षुल्लिकाचारकथाध्ययनस्य त्वाद्यामेकगाथां मनसानुप्रेक्षते। एवं तावदुत्तरस्यां दिशि विधिरुक्त । इत्थं च शेषायामप्येकैकस्यां दिशि द्रष्टव्यम् । तद्यथा—क्षुल्लिकाचारकथाद्यगाथानुप्रेक्षानन्तरं ततोऽपि परावृत्त्य पश्चिमाभिमुखं एतच्चिन्तयति । तदनन्तरं ततोऽपि परावृत्त्य पश्चिमाभिमुखं एतच्चिन्तयति । चतसृष्वपि च दिक्षु प्रत्येकं चिन्तयन् द्वे द्वे दिशौ निरीक्षते द्वे द्वे दिशौ दण्डधरः ।
(३१८० टी. प. ६१)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org