________________
२२०]
परिशिष्ट-१५
अपशकुन होने पर कायोत्सर्ग
इह यदि बहिर्गमनं प्रयोजनानंतरप्रारंभे वा वस्त्रादेः स्खलनं भवति, आदिशब्दात् शेषापशकुनदुनिमित्तपरिग्रहः तेषु सर्वेषु स्खलितादिषु समुपजातेषु विवक्षितप्रयोजनव्याघातसूचकेषु समुद्गतेषु तत्प्रतिघातनिमित्तं पंचमंगलमष्टोच्छ्वासप्रमाणं नमस्कारसूत्रं ध्यायेत यदि वा यौ वा तौ वा स्वाध्यायभूतौ द्वौ श्लोकौ चिंतयेत् अथवा यावता कालेन द्वौ श्लोकौ चिंत्येते तत्क्षणं तावंतं कालं एकाग्रः कायोत्सर्गस्थः सन् शुभमना भूयात् ।
(गा. ११७ टी. प. ४१) दो तीन बार अपशकुन होने पर कायोत्सर्ग
द्वितीयं वारं पुनस्तथा तेनैव प्रकारेण स्खलितादिषु विवक्षितप्रयोजनव्याघातसूचकेषु समुद्भूतेषु तत्प्रतिघातनिमित्तं कायोत्सर्गउच्छ्वासाः षोडश भवंति षोडशोच्छ्वासप्रमाणः कायोत्सर्गः क्रियते इति भावः तइयम्मि उ इत्यादि तृतीयवारे तृतीयस्यां वेलायां स्खलितादिजातेषु तत्प्रतिघातनिमित्तं कायोत्सर्गे द्वात्रिंशदुच्छ्वासाः प्रतिक्षपणीयाः चतुर्थे वारे स्खलितानां प्रवृत्तौ स्वस्थानात् विवक्षितादन्यत् स्थानं न गच्छति उपलक्षणमेतत् नाप्यन्यत् प्रारभते, अवश्यंभाविविघ्नसंभवात्। (गा. ११८ टी. प. ४१) प्राणवध आदि होने पर कायोत्सर्ग
__ प्राणवधे मृषावादे अदत्तादाने मैथुने परिग्रहे च स्वप्ने कृते कारिते अनुमोदिते च केवलं मैथुने कारितेऽनुमोदिते एवं स्वयं कृते इत्थीविप्परियासे इत्यादिना प्रायश्चित्तस्य वक्ष्यमाणत्वात् कायोत्सर्गः प्रायश्चित्तं, तत्र कायोत्सर्गे शतमेकमन्यूनमुच्छ्वासानां क्षपयेत् पंचविंशत्युच्छ्वासप्रमाणं चतुर्विंशस्तवं चतुरो वारान् ध्यायेत् इति भावः ।
(गा. ११६ टी. प. ४१) २५ या २७ श्लोकिक कायोत्सर्ग कब ? कैसे ?
महाव्रतानि दशवैकालिकश्रुतबद्धानि कायोत्सर्गे ध्यायेत्, तेषामपि प्रायः पंचविंशतिश्लोकप्रमाणत्वात्,यदि वा यान् वा तान् वा स्वाध्यायभूतान् पंचविंशतिश्लोकान् ध्यायेत्, स्त्रीविपर्यासे पुनःस्वप्नसंभूते प्रायश्चित्तं कायोत्सर्गः सप्तविंशतिश्लोकिकः सप्तविंशतिश्लोकवान् अष्टोत्तरशतमुच्छ्वासानां तन्निमित्ते कायोत्सर्गे क्षपयेदिति भावः।
(गा. १२० टी. प. ४१) कायोत्सर्ग का कालमान
उच्छ्वासाः कालप्रमाणेन भवन्ति ज्ञातव्याः। पादसमाः, किमुक्तं भवति यावत् कालेनैकश्लोकस्य पादश्चिंत्यते तावत्कालप्रमाणः कायोत्सर्गे उच्छ्वास इति तत्कालमुच्छ्वासानां कायोत्सर्गे ज्ञातव्यं । कायिक-वाचिक-मानसिक ध्यान का प्रतिनिधि : कायोत्सर्ग
अथ ध्यानं योगनिरोधात्मकं, तत्र कायोत्सर्गे किं ध्यानं उच्यते। ध्येयो योगनिरोध इति पूर्वमहर्षिवचनात् तच्च योगनिरोधात्मकं ध्यानं त्रिधा, तद्यथा काययोगनिरोधात्मकं, वाग्योगनिरोधात्मकं, मनोयोगनिरोधात्मकं च, तत्र कायोत्सर्गे किं ध्यानं ? उच्यते त्रिविधमपि, मुख्यतस्तु कायिकं ।
(गा. १२१ टी. प. ४२) कायोत्सर्ग में अन्य योगों का भी निरोध
कायचेटुं निलंभित्ता, मणं वायं च सव्वसो। वट्टति काइए झाणे, सुहुमुस्सासवं मुणी।।
कायचेष्टां कायव्यापार तथा मनोवाचं सर्वशः सर्वात्मना निरुध्य कायोत्सर्गः क्रियते, ततः कायोत्सर्गस्थो मुनि सूक्ष्मोच्छ्वासवान् उपलक्षणमेतत् सूक्ष्मदृष्टिसंचारादिवांश्च, न खलु कायोत्सर्गे सूक्ष्मोच्छ्वासादयो निरुध्यते ।
(गा. १२२ टी. प. ४२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org