SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ परिशिष्ट-१५ कायोत्सर्ग एवं ध्यान के विकीर्ण तथ्य आवश्यक में कायोत्सर्ग न करने पर प्रायश्चित्त आवश्यके यद्येकं कायोत्सर्ग न करोति ततः प्रायश्चित्तं निर्विकृतिकं, कायोत्सर्गद्वयाकरणे पूर्वार्द्ध, त्रयाणामपि कायोत्सर्गाणामकरणे आचाम्लं, सर्वस्यापि वावश्यकस्याकरणे अभक्तार्थमिति । (गा. ११ टी.प. ८) गमन आदि में कायोत्सर्ग गमणागमण-वियारे, सुत्ते वा सुमिण-दंसणे राओ। नावा-नदिसंतारे, पायच्छित्तं विउस्सग्गो॥ प्रयोजनेषु गमनमात्रेऽपि ऐर्यापथिकीप्रतिक्रमणपुरस्सरं कायोत्सर्गः प्रायश्चित्तं, तदनंतरं कार्यसमाप्तौ भूयः स्वोपाश्रयप्रवेशे आगमनमात्रे कायोत्सर्गः, शेषेषु प्रयोजनेष्वपांतराले विश्रामणासंभवे गमनागमनयोरिति वियारे इति विचारो नाम उच्चारादिपरिष्ठापन, तत्रापि प्रायश्चित्तं कायोत्सर्गः,...सूत्रविषयेषु उद्देशसमुद्देशानुज्ञाप्रस्थापनप्रतिक्रमणश्रुतस्कंधांगपरिवर्तनादिश्च विधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः... सुमिणदंसणेराउ इति उत्सर्गतो दिवा स्वप्तुमेव न कल्पते ततो रात्रिग्रहणं रात्रौ स्वप्नदर्शने प्राणातिपातादिसावद्यबहुले कदाचिदनवद्यस्वप्नदर्शने वा अनिष्टसूचके... दुःशकुनदुर्निमित्तेषु वा तप्रतिघातकरणाय कायोत्सर्गकरणं प्रायश्चित्तं, नाभिप्रमाणे उदकसंस्पर्शे लेप तत उपरि उदकसंस्पर्श तदुपरि चतुर्थो नदीसंस्तारो बाहूडुपादिभिः एतेष्वपि सर्वत्र यतनयोपयुक्तस्य प्रायश्चित्तं कायोत्सर्गः। (गा. ११० टी. प. ३६) भत्त, पान, गमन आदि में २५ उच्छ्वास-निःश्वास का कायोत्सर्ग भत्ते पाणे सयणासणे य, अरहंत-समणसेज्जासु । उच्चारे पासवणे, पणवीसं होंति ऊसासा ।। (गा. १११) गमनं प्रतिक्रामतो गमनविषयं प्रतिक्रमणं कुर्वतः कायोत्सर्गः प्रायश्चित्तं स च कायोत्सर्गः पंचविंशत्युच्छ्वासप्रमाणः उच्छ्वासाश्च पादसमा इति पंचविंशतेश्चतुर्भिः भागे हृते षट्श्लोका एकपादाधिका लभ्यते ततश्चतुर्विंशतिस्तवः 'चंदेसु निम्मलयरा' इति पादपर्यंतं कायोत्सर्गे चिंतनीय इति भावः। (गा. ११२ टी.प.३६, ४०) परिष्ठापन क्रिया में कायोत्सर्ग यदापि हस्तशतस्याभ्यंतरे उच्चारं प्रश्रवणं तन्मात्रकं वा परिष्ठापयति तदापि विचारे इति वचनात् ऐर्यापथिकीप्रतिक्रमणपुरस्सरः पंचविंशत्युच्छ्वासप्रमाणः कायोत्सर्गः प्रायश्चित्तं । (गा. ११३ टी. प. ४०) उद्देश, समुद्देश आदि में करणीय कायोत्सर्ग ___ उद्देशो वाचनासूत्रप्रदानमित्यर्थः, समुद्देशो व्याख्याअर्थप्रदानमिति भावः, अनुज्ञासूत्रार्थयोरन्यप्रदानं, प्रदानं प्रत्यनुमननं एतेषु तथेतिशब्दोऽनुक्तसमुच्चयार्थस्तेन श्रुतस्कंधपरिवर्तने अंगपरिवर्तने च कृते तदुत्तरकालमविधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः सप्तविंशत्युच्छ्वासप्रमाणं पर्यन्तैकपादहीनः समस्तश्चतुर्विंशतिस्तवस्तत्र चिंतनीय इति भावः, अट्ठेव य इत्यादि । प्रस्थापनं स्वाध्यायस्य प्रतिक्रमणः कालस्य तयो करणे कायोत्सर्गः प्रायश्चित्तमष्टावेवोछ्वासः अष्टोच्छ्वासप्रमाणः आदिशब्दात् पानकमपि परिस्थाप्य ऐर्यापथिकी प्रतिक्रमणोत्तरकालं कायोत्सर्गोऽष्टोच्छ्वासप्रमाणः करणीयः। (गा. ११४ टी. प. ४०) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002531
Book TitleAgam 36 Chhed 03 Vyavahara Sutra Bhashya
Original Sutra AuthorSanghdas Gani
AuthorKusumpragya Shramani
PublisherJain Vishva Bharati
Publication Year1996
Total Pages860
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy