________________
११२]
परिशिष्ट-६
व्यवहारवान्।
• व्यवह्रियतेऽपराधजातं प्रायश्चित्तं प्रदानतो येन स व्यवहारः ।
(गा. ५२० टी.प.१८) .जेण य ववहरइ मुणी, जं पि य ववहरइ सो वि ववहारो।
(गा. ३९५८) व्यवहारवान यः सम्यगागमादिव्यवहारं जानाति, ज्ञात्वा च सम्यक् प्रायश्चित्तदानतो व्यवहरति स व्यवहारवान् ।
(गा. ५२० टी.प.१८) व्यवहारी-व्यवहरतीत्येवंशीलो व्यवहारी।
(गा. १ टी.प.३) शमन-शम्यंते उपशमं नीयंते रोगा यैस्तानि शमनानि ।
(गा. ४३६ टी.प.८६) श्रमण-श्राम्यति तपस्यतीति श्रमणः ।
(गा. १४७६ टी.प.२७) श्वपच-श्वपचाश्चण्डाला ये शुनः पचन्ति।
(गा. १४४८ टी.प.२१) संघ--णाण-चरण-संघातं, संघायंतो हवति संघो । .संघातयतीति संघः।
(गा. १६५७ टी.प.६७) संधारणा–सं एगीभावम्मी, धी धरणे ताणि एक्कभावेणं । धारेयऽत्थपयाणि तु, तम्हा संधारणा होति ।
(गा. ४५०५) संप्रघारणा-जम्हा संपहारेउं, ववहारं पउंजती। तम्हा कारणा तेण, नातव्या संपधारणा।।
(गा. ४५०६) संस्तार—संस्तरन्ति साधवोऽस्मिन्निति संस्तारः।
(गा. १७५६ टी.प.७) सत्कारहार्य-सत्कारेण ह्रियते आक्षिप्यते इति सत्कारहार्यः ।
(गा. १३६६ टी.प.११) सर्वाशी-सर्वमश्नातीत्येवंशीलः सर्वाशी।
(गा. ८४३ टी.प.१०६) सारूपिक-समानं रूपं सरूपं तेन चरतीति सारूपिकः।
(गा. १८६१ टी.प.२६) सासु-असवः प्राणाः सह असवा यस्य येन वा तत् सासुः।
(गा. २८१० टी.प.६६) सुपेशल-सुष्टु अतिशयेन पेशलं मनोज्ञं श्रोतमनसां प्रीतिकारि सुपेशलं ।
(गा. ७३ टी.प.३०) सुविहित-शोभनं विहितमनुष्ठानं येषां ते सुविहिताः।
(गा. २२४ टी.प.१५) सुशिक्षा-सोभणसिक्खा सुसिक्खा।
(गा. १६३०) स्थविर-थिरकरणा पुण थेरो । मोक्षमार्गे स्थिरीकरोतीति स्थविरः ।
(गा. ६६१ टी. प. १३४) स्थान-तिष्ठन्ति स्वाध्यायव्यापृता अस्मिन्निति स्थानम् ।
(गा. ६३१ टी.प.५४) स्वयंग्राह-स्वयमात्मना गृह्णातीति स्वयंग्राहः ।
(गा. १६२ टी.प.५) हितभाषी-हितं परिणामसुंदरं तद्भासते इत्येवंशीलो हितभाषी।
(गा. ६८ टी. प.२६) हृदयग्राह-हृदयं गृह्णाति हृदये सम्यग निवेशिते इत्येवंशीलः हृदयग्राहः ।
(गो. ७३ टी.प.३०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org