SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 81 आवश्यकहारिभद्रीया ' भावशुद्धया । चन्द्रिकावच्च विज्ञानं, तदावरणमभवत् ॥१॥” इत्यादि, 'विलीयन्ते' विनाशमुपयान्तीति गाथार्थ ॥ १०२ ॥ किं चेदमन्यद् , इहलोकप्रतीतमेव ध्यानफलमिति दर्शयति न कसायसमुत्थेहि थ वाहिजइ माणसेहिं दुक्खेहिं । ईसाविसायसोगाइएहिं शाणोवगयचित्तो ॥१०॥ व्याख्या-'न कषायसमुत्थैश्च' न क्रोधाशुद्भवैश्च 'बाध्यते' पीज्यते मानसैर्दुःखैः, मानसग्रहणात्ताप इत्याद्यपि यदुक्तं तन्न बाध्यते 'ईर्ष्याविषादशोकादिभिः' तत्र प्रतिपक्षाभ्युदयोपलम्भजनितो मत्सरविशेष ईर्ष्या विषाद:-वैक्लव्यं शोकः-- दैन्यम् , आदिशब्दाद् हर्षादिपरिग्रहः, ध्यानोपगतचित्त इति प्रकटार्थमयं गाथार्थः ॥ १०३ ॥ सीपायवाइएहि प सारीरेहिं पुष्पगारेहिं । माणसुनिचकचित्तो न वहिजा निजरापही ॥१॥ व्याख्या-इह कारणे कार्योपचारात् शीतातपादिभिश्च, आदिशब्दात् क्षुदादिपरिग्रहः, शारीरैः 'सुबहुप्रकारैः' अनेक भेदैः 'ध्यानसुनिश्चलचित्त' ध्यानभावितमतिर्न बाध्यते, ध्यानसुखादिति गम्यते, अथवा न शक्यते चालयितुं तत एव, 'निर्जरापेक्षी' कर्मक्षयापेक्षक इति गाथार्थः॥ १०४॥ उक्तं फलद्वारम् , अधुनोपसंहरन्नाह इप सगुणाधाणं दिवाविहसुइसाहणं माणं । सुपसस्थं सद्धेयं नेयं मयं च निचंपि ॥ १०५॥ व्याख्या-'इय' एवमुक्तेन प्रकारेण 'सर्वगुणाधानम्' अशेषगुणस्थानं दृष्टादृष्टसुखसाधनं ध्यानमुक्तन्यायात् सुष्टु प्रशस्त २, तीर्थकरगणधरादिभिरासेवितत्वात्, यतश्चैवमतः श्रद्धेयं नान्यथैतदिति भावनया 'ज्ञेयं' ज्ञातव्यं स्वरूपतः 'ध्येयम्' अनुचिन्तनीयं क्रियया, एवं च सति सम्यग्दर्शनज्ञानचारित्राण्यासेवितानि भवन्ति, 'नित्यमपि' सर्वकालमपि, आह-एवं तर्हि सर्वक्रियालोपः प्राप्नोति, न, तदासेवनस्यापि तत्त्वतो ध्यानत्वात् , नास्ति काचिदसौ क्रिया यया साधूनां ध्यानं न भवतीति गाथार्थः॥ १०५ ॥ ग्रन्थाग्रं १५६९६ ॥ समाप्तं ध्यानशतकं ॥ पडिकमामि पंचहिं किरियाहिं काइयाए अहिगरणियाए पाउसियाए पारितावणियाए पाणाइवायकिरियाए (सूत्रम् ) प्रतिक्रमामि पञ्चभिः क्रियाभिः-व्यापारलक्षणाभिर्योऽतिचारः कृतः, तद्यथा-'काइयाए' इत्यादि, चीयत इति कायः, कायेन निवृत्ता कायिकी तया,सा पुनस्त्रिधा-अविरतकायिकी दुष्प्रणिहितकायिकी उपरतकायिकी,(च) तत्र मि ष्टेरविरतसम्यग्दृष्टेश्चाऽऽद्या अविरतस्य कायिकी-उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनिबन्धनाऽविरतकायिकी, एवमन्यत्रापि षष्ठीसमासो योज्यः, द्वितीया दुष्पणिहितकायिकी प्रमत्तसंयतस्य,सा पुनर्दिधा-इन्द्रियदुष्प्रणिहितकायिकी नोइन्द्रियदुष्प्रणिहितकायिकी च, तत्राऽऽधेन्द्रियैः-श्रोत्रादिभिर्दुष्प्रणिहितस्य-इष्टानिष्टविषयप्राप्ती मनाक्सङ्गनिर्वेदद्वारेणापवर्गमार्ग प्रति दुर्व्यवस्थितस्य कायिकी, एवं नोइन्द्रियेण-मनसा दुष्प्रणिहितस्याशुभसङ्कल्पद्वारेण दुर्व्यवस्थितस्य कायिकी, तृतीयाप्रमत्तसंयतस्य-उपरतस्य-सावधयोगेभ्यो निवृत्तस्य कायिकी, गता कायिकी १, अधिक्रियत आत्मा नरकादिषु येन तदधिकरणम्-अनुष्ठानं बाह्यं वा वस्तु चक्रमहादि तेन निर्वृत्ता-अधिकरणिकी तया, सा पुनर्द्विधा-अधिकरणप्रवर्तिनी निर्वर्तिनी च, तत्र प्रवर्तिनी चक्रमहःपशुबन्धादिप्रवर्तिनी, निर्वर्तिनी खगादिनिर्तिनी, अलमन्यैरुदाहरणैः, अनयोरेवान्तःपातित्वात्तेषां, गाधिकरणिकी २, प्रद्वेषः-मत्स रस्तेन निर्वृत्ता प्रादेषिकी, असावपि द्विधा-जीवप्राद्वेषिक्यजीवप्रद्वेषिकी च, आद्या जीवे प्रवेपं गच्छतः, द्वितीया पुनरजीवे, तथाहि-पाषाणादौ प्रस्खलितस्तत्प्रद्वेषमावहति गता तृतीया ३, परितापनं-ताडनादिदुःखविशेषलक्षणं तेन निवृत्ता पारितापनिकी तया, असावपि द्विधैव-स्वदेहपारितापनिकी परदेहपारितापनिकी च, आद्या स्वदेहे परितापनं कुर्वतो द्वितीया परदेहे परितापनमिति, तथा च अन्यरुष्टोऽपि स्वदेहपरितापनं करोत्येव कश्चिज्जडः, अथवा स्वहस्तपारितापनिकी परहस्तपारितापनिकी च, आद्या स्वहस्तेन परितापनं कुर्वतः द्वितीया परहस्तेन कारयतः, गता चतुर्थी ४,प्राणातिपात:-प्रतीतः, तद्विषया क्रिया प्राणातिपातक्रिया तया, असावपि द्विधा-स्वप्राणातिपातक्रिया परप्राणातिपातक्रिया च, तत्राऽऽद्याऽऽत्मीयप्राणातिपातं कुर्वतः द्वितीया परप्राणातिपातमिति, तथा च कश्चिन्निर्वेदतः स्वर्गाद्यर्थ वा गिरिपतनादिना स्वप्राणातिपातं करोति, तथा क्रोधमानमायालोभमोहवशाच्च परमाणातिपातमिति, क्रोधेनाऽऽक्रुष्टः रुष्टो वा व्यापादयति, मानेन जात्यादिभिहींलितः, माययाऽपकारिणं विश्वासेन, लोभेन शौकरिकः, मोहेन संसारमोचकः स्मार्तो वा याग इति, गता पश्चमी ५। क्रियाऽधिकाराच शिष्यहितायानुपात्ता अपि सूत्रे अन्या अपि विंशतिः क्रियाः प्रदर्श्यन्ते, तंजहा-आरंभिया१परिग्गहिया २ मायावत्तिया ३ मिच्छादसणवत्तिया ४ अपचक्खाणकिरिया ५ दिठिया ६ पुठिया७पाइच्चिया८सामंतोवणिवाइया९नेसत्थिया १० साहस्थिया ११ आणमणिया १२ वियारणिया १३ अणाभोगवत्तिया १४ अणवखवत्तिया १५ पओगकिरिया १६ समुयाणकिरिया १७ पेज्जवत्तिया १८ दोसवत्तिया १९ ईरियावहिया २० चेति, तत्थारंभिया दुविहा-जीवारंभिया य अजीवारंभिया य जीवारंभिया-जं जीवे तद्यथा-आरम्भिकी पारिग्रहिकी मायाप्रत्ययिकी मिथ्यादर्शनप्रत्ययिकी अप्रत्याख्यानक्रिया रष्टिजा स्पृष्टिजा प्रातीत्यिकी सामन्तोपनिपातिकी नैःशखिकी स्वहस्तिकी आज्ञापनी विदारणी अनाभोगप्रत्ययिकी अनवकाक्षाप्रत्ययिकी प्रयोगक्रिया समुदानक्रिया प्रेमप्रत्ययिकी द्वेषप्रत्ययिकी ऐपिथिकी चेति । तत्रारम्भिकी द्विविधा-जीवारम्भिको अजीवारम्भिकी च, जीवारम्भिकी यज्जीवान् Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy