________________
आवश्यकहारिभद्रीया
४० अत्यन्तगहनेषु 'न समुह्यते' न सम्मोहमुपगच्छति, 'भावेषु' पदार्थेषु न देवमायामु अनेकरूपास्वित्यसम्मोहलिङ्गमिति गाधाक्षराथः॥९॥
देहविवित्तं पेच्छइ अप्पाणं तह य सबसंजोगे । देहोवहिवोसगं निस्संगो सबहा कुणइ ॥ १२ ॥ व्याख्या-देहविविक्तं पश्यत्यात्मानं तथा च सर्वसंयोगानिति विवेकलिङ्गं, देहोपधिव्युत्सर्ग निःसङ्गः सर्वथा करोति
मिति गाथाधेः॥ ९२ ॥ गतं लिङ्गद्वारं, साम्प्रतं फलद्वारमुच्यते, इह च लाघवाथे प्रथमोपन्यस्तं धर्मफलम भिधाय शुक्लध्यानफलमाह, धर्मफलानामेव शुद्धतराणामाद्यशुक्लद्वयफलत्वाद्, अत आह
होति सुहासत्र संवरविणिजरामरसुहाई विउलाई । माणवरस्स फलाई सुहाणुबंधीणि धम्मस्स ॥ १३ ॥ व्याख्या-भवन्ति 'शुभाश्रवसंवरविनिर्जरामरसुखानि'शुभाश्रवः-पुण्याश्रवः संवरः-अशुभकर्मागमनिरोधः विनिर्जराकर्मक्षयः अमरसुखानि-देव सुखानि, एतानि च दीर्घस्थितिविशुद्ध युपपाताभ्यां 'विपुलानि' विस्तीर्णानि, 'ध्यानवरस्य' ध्यानप्रधानस्य फलानि 'शुभानुबन्धीनि' सुकुलप्रत्यायातिपुनर्बोधिलाभभोगप्रव्रज्याकेवल शैलेश्यपवर्गानुवन्धीनि 'धर्मस्य' ध्यानस्येति गाथार्थः ।। ९३ ॥ उक्तानि धर्मफलानि, अधुना शुक्लमधिकृत्याह
ते य विसेसेण सुभासवादोऽणुत्तरामरसुहं च । दोण्हं सुकाण फलं परिनिवाणं परिलाणं ॥ ९४ ॥ व्याख्या-ते च विशेपेण 'शुभाश्रवादयः' अनन्तरोदिताः, अनुत्तरामरसुखं च द्वयोः शुक्लयोः फलमाद्ययोः 'परिनिर्वाण' मोक्षगमनं परिलाणं'ति चरमयोयोरितिगाथार्थः॥९४ ॥अथवा सामान्येनैव संसारप्रतिपक्षभूते एते इति दर्शयति
भासवदारा संसारहे यवो जंण धम्मसुक्केसु । संसारकारणाई तओ धुवं धम्मसुक्काई ॥१५॥ व्याख्या-आश्रवद्वाराणि संसारहेतवो वर्तन्ते, तानि च यस्मान्न शुक्लधर्मयोर्भवन्ति संसारकारणानि तस्माद् 'ध्रुवं' नियमेन धर्मशक्ले इति गाथार्थः ॥ ९५ ॥ संसारप्रतिपक्षतया च मोक्षहेतुानमित्यावेदयन्नाह--
संवरविणिजराओ मोक्खस्स पहो तवो पहो तासि । झाणं च पहागंगं तवस्स तो मोक्खहेऊयं ।। ९६ ॥ व्याख्या-संवरनिर्जरे 'मोक्षस्य पन्थाः' अपवर्गस्य मार्गः, तपः पन्थाः' मार्गः 'तयोः' संवरनिर्जरयोः ध्यानं च प्रधानाङ्गं तपसः आन्तरकारणत्वात् , ततो मोक्षहेतुस्तद्ध्यानमिति गाथार्थः ॥ ९६ ॥ अमुमेवार्थं सुखप्रतिपत्तये दृष्टान्तैः प्रतिपादयन्नाह
अंबरलोहमहीणं कमसो जह मलकलंककाणं । सोझावणयणसोसे साति जलाणलाइच्चा ॥ ९७॥ व्याख्या-'अम्बरलोहमहीनां वस्त्रलोहार्द्रक्षितीनां 'क्रमशः' क्रमेण यथा मलकलङ्कपकानां यथासङ्ख्यं शोध्या(ध्य)पनयनशोषान् यथासङ्ख्यमेव 'साधयन्ति' निर्वर्तयन्ति जलानलादित्या इति गाथार्थः ॥९७ ॥
तह सोझाइसमत्था जीवंबरलोहमेइणिगयाणं । झाणजलाणलसूरा कम्ममलकलंकपकाणं ॥ ९८ ॥ व्याख्या-तथा शोध्यादिसमर्था जीवाम्बरलोहमेदिनीगतानां ध्यानमेव जलानलसूर्याः कमैंव मलकलङ्कपङ्कास्तेषा मिति गाथार्थः ॥ ९८॥ किं च
तापो सोसो भेषो जोगाणं माणो जहा निययं । तह तावसोसभेया कम्मस्सवि झाइणो नियमा ॥ १९॥ व्याख्या-तापः शोपो भेदो योगानां ध्यानतः' ध्यानात् यथा 'नियतम्' अवश्यं, तत्र ताप:-दुःखं तत एव शोष:दौर्बल्यं तत एव भेदः-विदारणं योगानां वागादीनां, 'तथा' तेनैव प्रकारेण तापशोषभेदाः कर्मणोऽपि भवन्ति, कस्य ?'ध्यायिनः' न यदृच्छया नियमेनेति गाथार्थः ॥ ९९ ॥ किंच
जह रोगासयसमणं विसोसणविरेयणोसहविहीहिं । तह कम्मामयसमणं माणाणसणाइजोगेहि ॥१०॥ व्याख्या-यथा 'रोगाशयशमन' रोगनिदानचिकित्सा 'विशोषणविरेचनौषधविधिभिः' अभोजनविरेकौषधप्रकारैः, तथा 'कर्मामयशमनं' कर्मरोगचिकित्सा ध्यानानशनादिभिर्योगैः, आदिशब्दाद् ध्यानवृद्धिकारकशेषतपोभेदग्रहणमिति गाथार्थः ॥ १०॥ किं च
जह चिरसंचियमिधणमनको पक्षणसहिओ दुर्य दाह । तह कम्मेधणममियं खणेण झाणाणलो उहा॥१.१॥ व्याख्या-यथा 'चिरसश्चितं' प्रभूतकालसधितम् 'इन्धनं' काष्ठादि 'अनल: अग्निः 'पवनसहितः' वायुसमन्वितः 'द्रुतं' शीघ्रं च 'दहति' भस्मीकरोति, तथा दुःखतापहेतुत्वात् कर्मवेन्धनं कर्मेन्धनम् 'अमितम्' अनेकभवोपात्तमनन्तं 'क्षणेन' समयेन ध्यानमनल इव ध्यानानल: असौ 'दहति' भमीकरोतीति गाथार्थः॥१०१॥
जह वा घणसंघाया नणेण पवणाहया विलिजति । झाणपपणावहूया तह कम्मघणा विलिजंति ॥ १.२॥ व्याख्या-यथा वा 'घनसकाताः' मेघौघाः क्षणेन 'पवनाहताः' वायुप्रेरिता विलयं-विनाशं यान्ति-गच्छन्ति, 'ध्यानप्रवनावधूता' ध्यानवायुविक्षिप्ताः तथा कर्मैव जीवस्वभावावरणाद् घनाः २, उक्तं च-"स्थितः शीतांशुवजीवः, प्रकृत्या
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org