SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आवश्यक हारिभद्रीया 79 तस्सेव य सेलेसीगयस्स सेलोव णिष्पकंपस्स । वोच्छिन्नकिरियामप्प डिवाइ उज्ञाणं परमसुकं ॥ ८२ ॥ व्याख्या- 'तस्यैव च ' केवलिनः 'शैलेशीगतस्य' शैलेशी - प्राग्वर्णिता तां प्राप्तस्य, किंविशिष्टस्य १-निरुद्धयोगत्वात् 'शैलेश इव निष्प्रकम्पस्य' मेरोरिव स्थिरस्येत्यर्थः, किं ? - व्यवच्छिन्नक्रियं योगाभावात् तद् 'अप्रतिपाति' अनुपरतस्वभामिति, एतदेव चास्य नाम ध्यानं परमशुक्लं प्रकटार्थमिति गाथार्थः ॥ ८२ ॥ इत्थं चतुर्विधं ध्यानमभिधायाधुनैतत्प्रतिबद्धमेव वक्तव्यताशेषमभिधित्सुराह— पढमं जोगे जोगेसु वा मयं बितियमेव जोगंमि । तइयं च कायजोगे सुकमजोगंमि य चउरथं ॥ ८३ ॥ व्याख्या—‘प्रथमं' पृथक्त्ववितर्कसविचारं 'योगे' मनआदौ योगेषु वा सर्वेषु 'मतम्' इष्टं तच्चागमिक श्रुतपाठिनः, 'द्वितीयम्' एकत्ववितर्कमविचारं तदेकयोग एव, अन्यतरस्मिन् सङ्क्रमाभावात् तृतीयं च सूक्ष्मक्रियाऽनिवर्ति काययोगे, न योगान्तरे, शुक्लम् ' अयोगिनि च ' शैलेशी केवलिनि 'चतुर्थी' व्युपरत क्रियाऽप्रतिपातीति गाथार्थः ॥८३॥ आह-शुक्लध्यानोपरि'मभेदद्वये मनो नास्त्येव, अमनस्कत्वात् केवलिनः, ध्यानं च मनोविशेषः 'ध्यै चिन्ताया' मिति पाठात्, तदेतत्कथम् १, उच्यते जह छमत्थस्स मणो झाणं भण्णइ सुनिथलो संतो । तह केवलिणो कालो सुनिञ्चलो भए झाणं ॥ ८४ ॥ व्याख्या -यथा छद्मस्थस्य मनः, किं ? - ध्यानं भण्यते सुनिश्चलं सत्, 'तथा' तेनैव प्रकारेण योगत्वाव्यभिचारात्केवलिनः कायः सुनिश्चलो भण्यते ध्यानमिति गाथार्थः ॥ ८४ ॥ आह-चतुर्थे निरुद्धत्वादसावपि न भवति, तथाविधभावेsपि च सर्वभावप्रसङ्गः, तत्र का वार्तेति १, उच्यते- yasure for कम्मविणिजरण उतो यावि । सद्दयबहुसाओ तह जिणचंदागमाओ य ॥ ८५ ॥ चित्ताभावि सया सुमोवरयकिरियाइ भांति । जीवोव भगवन्भावो भवत्थस्स झाणाई ॥ ८६ ॥ व्याख्या - काययोगनिरोधिनो योगिनोऽयोगिनोऽपि चित्ताभावेऽपि सुक्ष्मोपरतक्रियो भण्यते, सूक्ष्मग्रहणात् सूक्ष्मक्रियानिवर्तिनो ग्रहणम्, उपरतग्रहणाद्व्युपरत क्रियाऽप्रतिपातिन इति, पूर्वप्रयोगादिति हेतु:, कुलालचक्रभ्रमणवदिति दृष्टान्तोऽभ्यूह्यः, यथा चक्रं भ्रमण निमित्तदण्डादिक्रियाऽभावेऽपि भ्रमति तथाऽस्यापि मनःप्रभृतियोगोपरमेऽपि जीवोपयोगसद्भावतः भावमनसो भावात् भवस्थस्य ध्याने इति, अपिशब्दश्चोदनानिर्णय प्रथम हेतु सम्भावनार्थः, चशब्दस्तु प्रस्तुत हेत्वनुकर्षणार्थः, एवं शेषवोऽप्यनया गाथया योजनीयाः, विशेषस्तूच्यते- 'कर्मविनिर्जरणहेतुतश्चापि कर्मविनिर्जरणहेतुत्वात् क्षपकश्रेणिवत्, भवति च क्षपकश्रेण्यामिवास्य भवोपग्राहिकर्मनिर्जरेति भावः, चराब्दः प्रस्तुत - त्वनुकर्षणार्थः, अपिशब्दस्तु द्वितीयहेतुसम्भावनार्थ इति, 'तथा शब्दार्थ बहुत्वात्' यथैकस्यैव हरिशब्दस्य शक्रशाखामृगादयोऽनेकार्थाः एवं ध्यानशब्दस्यापि न विरोधः, 'ध्यै चिन्तायां' 'ध्यै कायनिरोधे' 'ध्ये अयोगित्वे' इत्यादि, तथा जिनचन्द्रागमाच्चैतदेवमिति, उक्त च-'आगमश्चोपपत्तिश्च, सम्पूर्ण दृष्टिलक्षणम् । अतीन्द्रियाणामर्थानां सद्भावप्रतिपत्तये ॥ १ ॥ इत्यादि गाथाद्वयार्थः ।। ८५-८६ ।। उक्तं ध्यातव्यद्वारं, ध्यातारस्तु धर्मध्यानाधिकार एवोक्ताः, अधुनाऽनुप्रेक्षाद्वारमुच्यते— सुक्कज्झाणसुभावियचित्तो चिंतेइ झाणविरमेऽवि । णिययमणुप्पेहाभो चत्तारि चरित संपन्नो ॥ ८७ ॥ व्याख्या - शुक्लध्यानसुभावितचित्तश्चिन्तयति ध्यानविरमेऽपि नियतमनुप्रेक्षाश्चतस्रश्चारित्र सम्पन्नः, तत्परिणामरहितस्य तदभावादिति गाधार्थः ॥ ८७ ॥ ताचैताः— आसवदारावा तह संसारासुहाणुभावं च । भवसंताणमणन्तं वत्थूर्ण विपरिणामं च ॥ ८८ ॥ व्याख्या - आश्रवद्वाराणि मिथ्यात्वादीनि तदपायान् - दुःखलक्षणान्, तथा संसारानुभावं च, 'धी संसारो' इत्यादि, भवसन्तानमनन्तं भाविनं नारकाद्यपेक्षया, वस्तूनां विपरिणामं च सचेतनाचेतनानां 'सबद्वाणाणि असासयाणी'त्यादि, एताश्चतस्रोऽप्यपायाशुभानन्तविपरिणामानुप्रेक्षा आद्यद्वयभेदसङ्गता एव द्रष्टव्या इति गाधार्थः ॥ ८८ ॥ उक्तमनुप्रेक्षाद्वारम् इदानीं लेश्याद्वाराभिधित्सयाऽऽह सुकाएलेसाए दो ततियं परमसुक लेस्साए । धिरयाजिय सेलेर्सि लेसाईयं परमसुकं ॥ ८९ ॥ व्याख्या - सामान्येन शुक्लायां लेश्यायां 'द्वे' आद्ये उक्तलक्षणे 'तृतीयम्' उक्तलक्षणमेव, परमशुक्ललेश्यायां 'स्थिरताजितशैलेशं ' मेरोरपि निष्प्रकम्पतरमित्यर्थः, लेश्यातीतं 'परमशुक्लं' चतुर्धमिति गाथार्थः ॥ ८९ ॥ उक्तं लेश्याद्वारम्, अधुना लिङ्गद्वारं विवरीषुस्तेषां नामप्रमाणस्वरूपगुणभावनार्थमाह अवहासंमोहविवेगविवसग्गा तस्स होति लिंगाई । लिंगिनइ जेहिं मुणी सुकझाणोवगयचित्तो ॥ ९० ॥ व्याख्या – अवधासम्मोहविवेकव्युत्सर्गाः 'तस्य' शुक्लध्यानस्य भवन्ति लिङ्गानि, 'लिजयते' गम्यते यैर्मुनिः शुक्लध्यानोपगतचित्त इति गाथाक्षरार्थः ॥ ९० ॥ अधुना भावार्थमाह चालिजद्द बीभेद्द य धीरो न परीसहोवसग्गे । सुडुमेसु न संमुज्झद्द भावेसु न देवमायासु ॥ ९१ ॥ व्याख्या - चाल्यते ध्यानात् न परीपहोपसगैर्बिभेति वा 'धीरः' बुद्धिमान् स्थिरो वा न तेभ्य इत्यवधलिङ्गं, 'सूक्ष्मेषु' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy