SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ 77 आवश्यकहारिभद्रीया परमाणौ, निधायेति शेषः, कः १ - 'छद्मस्थः ' प्राग्निरूपितशब्दार्थः, 'ध्यायति' चिन्तयति 'सुनिष्प्रकम्पः' अतीव निश्चल इत्यर्थः, ‘ध्यानं' शुक्लं, ततोऽपि प्रयत्नविशेषान्मनोऽपनीय 'अमनाः' अविद्यमानान्तःकरणः 'जिनो भवति' अर्हन् भवति, चरमयोर्द्वयोर्ध्यातेति वाक्यशेषः, तत्राप्याद्यस्यान्तर्मुहूर्तेन शैलेशीमप्राप्तः, तस्यां च द्वितीयस्येति गाथार्थः ॥ ७० ॥ आह-कथं पुनश्छद्मस्थस्त्रिभुवनविषयं मनः संक्षिप्याणी धारयति ?, केवली वा ततोऽप्यपनयतीति ?, अत्रोच्यते जह सइसरीरगयं मंतेण विसं निरंभए ढंके । तत्तो पुणोऽवणिजइ पहाणवरमंतजोगेणं ॥ ७१ ॥ व्याख्या—'यथे' त्युदाहरणोपन्यासार्थः, 'सर्वशरीरगतं' सर्वदेहव्यापकं 'मन्त्रेण' विशिष्टवर्णानुपूर्वीलक्षणेन 'विष' मारणात्मकं द्रव्यं 'निरुध्यते' निश्चयेन धियते, व १-'डङ्के' भक्षणदेशे, 'ततः' डङ्कात्पुनरपनीयते, केनेत्यत आह-'प्रधान. तर मन्त्रयोगेन' श्रेष्ठतरमन्त्रयोगेनेत्यर्थः, मन्त्रयोगाभ्यामिति च पाठान्तरं वा, अत्र पुनर्योगशब्देनागदः परिगृह्यते इति गाथार्थः ॥ ७१ ॥ एष दृष्टान्तः, अयमर्थोपनयः तह तिहुयणतणुविषयं मणोविसं जोगमंतबलजुतो । परमाणुंमि निरंभह अवणेइ तओवि जिणवेजो ॥ ७१ ॥ व्याख्या - तथा 'त्रिभुवनतनुविषयं' त्रिभुवनशरीरालम्बनमित्यर्थः, मन एव भवमरणनिबन्धनत्वाद्विषं मन्त्रयोग बलयुक्तः - जिनवचनध्यानसामर्थ्यसम्पन्नः परमाणौ निरुणद्धि, तथाऽचिन्त्यप्रयत्नाच्चापनयति 'ततोऽपि' तस्मादपि परमाणोः, कः १ - 'जिनवैद्यः' जिनभिषग्वर इति गाथार्थः ॥ ७२ ॥ अस्मिन्नेवार्थे दृष्टान्तान्तरमभिधातुकाम आइ उस्सारिर्वेक्षणभरो जह परिहाइ कमसो हुयासुद्द | थोर्विषणावसेसो निलाइ तमोऽवणी भो य ॥ ७३ ॥ व्याख्या- 'उत्सारितेन्धनभरः' अपनी तदाह्यसङ्घातः यथा 'परिहीयते' हानिं प्रतिपद्यते 'क्रमशः ' क्रमेण 'हुताशः वह्निः, 'वा' विकल्पार्थः, स्तोकेन्धनावशेषः हुताशमात्रं भवति, तथा 'निर्वाति' विध्यायति 'ततः' स्तोकेन्धनादपनीतश्चेति गाथार्थः ॥ ७३ ॥ अस्यैव दृष्टान्तोपनयमाह - तह विसघणहीणो मोहुयासो कमेण तणुयंमि । विसइंधणे निरुभइ निवाइ तमोऽवणीभ य ॥ ७४ ॥ व्याख्या -- तथा 'विषयेन्धनहीनः' गोचरेन्धनरहित इत्यर्थः, मन एव दुःखदाहकारणत्वाद् हुताशो मनोहुताशः, " क्रमेण परिपाव्या "तनुके' कृशे, व १-' विषयेन्धने' अणावित्यर्थः, किं ? - 'निरुध्यते' निश्चयेन प्रियते, तथा निर्वाि ततः' तस्मादणोरपनीतश्चेति गाथार्थः ॥ ७४ ॥ पुनरप्यस्मिन्नेवार्थे दृष्टान्तोपनयावाह तोयमिव नालियाए तप्तायसभायणोदरस्थं वा । परिहाइ क्रमेण जहा तह जोगिमणोजलं जाण ॥ ७५ ॥ व्याख्या- 'तोयमिव' उदकमिव 'नालिकायाः' घटिकायाः, तथा तप्तं च तदायसभाजनं - लोहभाजनं च तप्तायसभाजनं तदुदरस्थं, वा विकल्पार्थः, परिहीयते क्रमेण यथा, एष दृष्टान्तः, अयमर्थोपनयः - 'तथा' तेनैव प्रकारेण योगिमन एवाविकलत्वाज्जलं २ 'जानीहि' अवबुद्ध्यस्व, तथाऽप्रमादानलतप्तजीवभाजनस्थं मनोजलं परिहीयत इति भावना, अलमतिविस्तरेणेति गाथार्थः ॥ ७५ ॥ 'अपनयति ततोऽपि जिनवैद्य' इतिवचनाद् एवं तावत् केवली मनोयोगं निरुद्धीत्युक्तम्, अधुना शेषयोगनिरोध विधिमभिधातुकाम आह एवं चिय वयजोगं निरुभइ कमेण कायजोगंपि । तो सेलेसोइ धिरो सेलेसी केवली होइ ॥ ७६ ॥ व्याख्या- 'एवमेव ' एभिरेव विषादिदृष्टान्तैः, किं १ - वाग्योगं निरुणद्धि, तथा क्रमेण काययोगमपि निरुणद्धीति 'वर्तते, ततः 'शैलेश इव' मेरुरिव स्थिरः सन् शैलेशी केवली भवतीति गाथार्थः ॥ ७६ ॥ इह च भावार्थो नमस्कारनिर्युक्त प्रतिपादित एव, तथाऽपि स्थानाशून्यार्थ स एव लेशतः प्रतिपाद्यते, तत्र योगानामिदं स्वरूपम् - औदारिकादिशरीरयुक्तस्याssत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याजीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसाचिव्याज्जीवव्यापारो मनोयोग इति, स चामीषां निरोधं कुर्वन् कालतोऽन्तर्मुहूर्त भाविनि परमपदे भवोपग्राहिकर्मसु च वेदनीयादिषु समुदुधाततो निसर्गेण वा समस्थितिषु सत्स्वेतस्मिन् काले करोति, परिमाणतोऽपि - 'पज्जत्तमित्तसन्निस्स जन्तियाई जहण्णजोगिस्स । होति मणोदबाई तबावारो य जम्मत्तो ॥ १ ॥ तदसङ्खगुणविहीणे समए २ निरंभमाणो सो। मणसो सबनिरोहं कुणइ असंखेज्जसमएहिं ॥ २ ॥ पज्जत्तमित्तविंदियजहण्णवइजोगपज्जया जे उ । तदसंखगुणविहीणे समए २ निरंभंतो ॥ ३ ॥ सबवइजोग रोहं संखाईएहिं कुणइ समएहिं । तत्तो य सुहुमपणगस्स पढमसमओववन्नस्स ॥ ४ ॥ जो किर जहण्णजोओ तदसंखेगुणहीणमेकेके । समए निरंभमाणो देहतिभागं च मुचंतो ॥ ५ ॥ रुंभइ स कायजोगं संखाईएहिं वेव समएहिं । तो १ पर्याप्त मात्र संज्ञिनो यावन्ति जधन्ययोगिनः । भवन्ति मनोद्रव्याणि तद्वयापारश्च यम्मात्रः ॥ १ ॥ तदसंख्यगुणविहीनान् समये २ निरुन्धन् सः । मनसः सर्वनिरोधं करोत्यसंख्येयसमयैः ॥ २॥ पर्याप्तमाश्रद्वीन्द्रियस्य जघन्यवचोयोगिनः पर्यांया ये तु । तदसंख्यगुणविहीनान् समये २ निरुन्धन् ॥ ३ ॥ सर्ववचोयोगरोधं संख्यातीतैः करोति समयैः । ततश्च सूक्ष्मपनकस्य प्रथमसमयोत्पन्नस्य ॥४॥ यः किल जघम्यो योगस्तदसंख्येयगुणहीनमेकैकस्मिन् । समये २ निरुन्धन् देहत्रिभागं च मुञ्चन् ॥ ५ ॥ रुणद्धि स काययोगं संख्यातीतैरेव समंयैः । ततः Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy