SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ 76 आवश्यकहारिभद्रीया एवं च गम्मए-सुकज्झाणाइदुर्ग वोलीण्णस्स ततियमप्पत्तस्स एयाए झाणंतरियाए वट्टमाणस्स केवलणाणमुप्पज्जइ, केवली य सुकलेसोऽज्झाणी य जाव सुहुमकिरियमनियहि'त्ति गाथार्थः ॥ ६४ ॥ उक्तमानुषङ्गिकम् , इदानीमवसरप्राप्तमनुप्रेक्षाद्वारं व्याचिख्यासुरिदमाह माणोवरमेऽवि मुणी णिश्चमणिचाइभावणापरमो । होह सुभाषियचिंत्तो धम्ममाणेण जो पुधि॥१५॥ व्याख्या-इह ध्यानं धर्मध्यानमभिगृह्यते, तदुपरमेऽपि-तद्विगमेऽपि 'मुनिः' साधुः 'नित्यं' सर्वकालमनित्यादिचिन्तनापरमो भवति, आदिशब्दादशरणैकत्वसंसारपरिग्रहः, एताश्च द्वादशानुप्रेक्षा भावयितव्याः, "इष्टजनसम्प्रयोगर्द्धिविषयसुखसम्पदः" (प्रशमरतौ १५१-१६३) इत्यादिना ग्रन्थेन, फलं चासां सचित्तादिष्वनभिष्वङ्गभवनिर्वेदाविति भावनीयम् , अथ किंविशिष्टोऽनित्यादिचिन्तनापरमोभवतीत्यत आह-'सुभावितचित्ता' सुभाषितान्तःकरणः, केन ?-धर्मध्यानेन' प्राग्निरूपितशब्दार्थेन 'यः' कश्चित् 'पूर्वम्' आदाविति गाथार्थः ॥ १५ ॥ गतमनुप्रेक्षाद्वारम् , अधुना लेश्याद्वारप्रतिपादनायाह होति कमविसुबाभो लेसाओ पीयपम्हसुकायो । धम्मज्माणोवगयस्स तिवमंदाइभेयाभो॥१६॥ व्याख्या-इह 'भवन्ति' संजायन्ते 'क्रमविशुद्धाः' परिपाटिविशुद्धाः, काः १-लेश्याः, ताश्च पीतपद्मशुक्लाः, एतदुक्तं १ एवं च गम्यते-शुक्लभ्यानादिद्वयं म्यतिक्रान्तस्य तृतीयमप्राप्तस्य एतस्यां ध्यानान्तरिकायर्या वर्तमानस्य केवलज्ञानमुत्पद्यते, केवली च शुक्ललेश्योऽध्यानी च यावत् सूक्ष्मक्रियमनिवृत्तीति. भवति-पीतलेश्यायाः पद्मालेश्या विशुद्धा तस्या अपि शुक्ललेश्येति क्रमः, कस्यैता भवन्त्यत आह-'धर्मध्यानोपगतस्य धर्मध्यानयुक्तस्येत्यर्थः, किंविशिष्टाश्चैता भवन्त्यत आह-तीव्रमन्दादिभेदा' इति तत्र तीव्रभेदाः पीतादिस्वरूपेष्वन्त्याः, मन्दभेदास्त्वाधाः, आदिशब्दान्मध्यमपक्षपरिग्रहा, अथवौघत एव परिणामविशेषा तीव्रमन्दभेदा इति गाथार्थः ॥६६॥ उक्तं लेश्याद्वारम्, इदानीं लिङ्गद्वारं विवृण्वन्नाह आगमनवएसाणाणिसग्गओ जं जिणप्पणीयाणं । मावाणं सहहणं धम्मजमाणस्स तं लिंग ॥६७ ॥ व्याख्या-इहागमोपदेशाज्ञानिसर्गतो यद् 'जिनप्रणीतानां तीर्थकरप्ररूपितानां द्रव्यादिपदार्थानां 'श्रद्धानम्' अवितथा एत इत्यादिलक्षणं धर्मध्यानस्य तलिङ्गं, तत्त्वश्रद्धानेन लिङ्गयते धर्मध्यायीति, इह चागमः-सूत्रमेव तदनुसारेण कथनम्-उपदेशः आज्ञा त्वर्थः निसर्गः-स्वभाव इति गाथार्थः ॥ ६७ ॥ किं च जिणसाहूगुणकित्तणपसंसणाविणयदाणसंपण्णो । सुअसीलसंजमरओ धम्मझाणी मुणेयश्वो ॥ ६८ ॥ व्याख्या-'जिनसाधुगुणोत्कीर्तनप्रशंसाविनयदानसम्पन्नः' इह जिनसाधवः-प्रतीताः, तद्गुणाश्च निरतिचारसम्यग्दर्शनादयस्तेपामुत्कीर्तनं-सामान्येन संशब्दनमुच्यते, प्रशंसा त्वहोलाध्यतया भक्तिपूर्विका स्तुतिः, विनयः-अभ्युत्थानादि, दानम्-अशनादिप्रदानम्, एतत्सम्पन्नः-एतत्समन्वितः, तथा श्रुतशीलसंयमरतः, तत्र श्रुतं-सामायिकादिबिन्दुसारान्तं शीलं-व्रतादिसमाधानलक्षणं संयमस्तु प्राणातिपातादिनिवृत्तिलक्षणः, यथोक्तं-'पञ्चाश्रवा' दित्यादि, एतेषु भावतो रतः, किं ?-धर्मध्यानीति ज्ञातव्य इति गाथार्थः ॥ ६८॥ गतं लिङ्गद्वारम् , अधुना फलद्वारावसरः, तच्च लाघवार्थ शुक्लध्यानफलाधिकारे वक्ष्यतीत्युक्तं धर्मध्यानम् , इदानीं शुक्लध्यानावसर इत्यस्य चान्वर्थः प्राग्निरूपित एव, इहापि च भावनादीनि फलान्तानि तान्येव द्वादश द्वाराणि भवन्ति, तत्र भावनादेशकालासनविशेषेषु धर्म ध्यानादस्याविशेष एवेत्यत एतान्यना. दृत्याऽऽलम्बनान्यभिधित्सुराह ___अह खंतिमवजवमुत्तीओ जिणमयष्पहाणाओ । लंबणाई जेहिं सुकमाणं समारुहइ ॥ १९॥ व्याख्या-'अर्थ' त्यासनविशेषानन्तर्ये, 'क्षान्तिमाईवार्जवमुक्तयः' क्रोधमानमायालोभपरित्यागरूपाः, परित्यागश्च क्रोधनिवर्तनमुदयनिरोधः उदीर्णस्य वा विफलीकरणमिति, एवं मानादिष्वपि भावनीयम् , एता एव शान्तिमाईवार्जवमुक्तयो विशेष्यन्ते-'जिनमतप्रधाना' इति जिनमते-तीर्थकरदर्शने कर्मक्षयहेतुतामधिकृत्य प्रधानाः २, प्राधान्यं चासामकपायं चारित्रं चारित्राच नियमतोमुक्तिरितिकृत्वा, ततश्चैता आलम्बनानि-प्राग्निरूपितशब्दार्थानि, यैरालम्बनैःकरणभूतैः शुक्लध्यानं समारोहति, तथा च क्षान्त्याद्यालम्बना एव शुक्लध्यानं समासादयन्ति, नान्य इति गाथार्थः॥६९ ॥ व्याख्यातं शुक्लध्यानमधिकृत्याऽऽलम्बनद्वारं, साम्प्रतं क्रमद्वारावसरः, क्रमश्चाऽऽद्ययोर्धर्मध्यान एवोक्ता, इह पुनरयं विशेष: तिहुयणविसर्य कमसो संनिवित मणो भ[मि छतमस्यो । सायइ सुनिष्पकंपो माणं श्रमणो निणो होइ ॥ ७०४ त्रिभवनम-अधस्तिर्यगर्वलोकभेदं तद्विषयः-गोचरः आलम्बनं यस्य मनम इति इति योगः, तत्रिभुवन विषयं 'क्रमशः' क्रमेण परिपाट्या-प्रतिवस्तुपरित्यागलक्षणया 'संक्षिप्य' सङ्कोच्य, किं-'मनः' अन्तःकरणं, क -'अणी पोधे न वर्त्तनं प्र.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy