SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 75 आवश्यकहारिभद्रीया तस्स य संतरणसह सम्मइसणसुबंधणमणग्छ । णाणमयकण्णधार चारित्तमयं महापोयं ॥ ५८॥ व्याख्या-'तस्य च' संसारसागरस्य 'संतरणसह' सन्तरणसमर्थ, पोतमिति वक्ष्यति, किंविशिष्टं ?-सम्यग्दर्शनमेव शोभनं बन्धनं यस्य स तथाविधस्तम्, 'अनघम्' अपापं, ज्ञान-प्रतीतं तन्मयः-तदात्मकः कर्णधारः-निर्यामकत्रिशेपो यस्य यस्मिन् वा स तथाविधस्तं, चारित्रं-प्रतीतं तदात्मक 'महापोतम्' इति महाबोहित्थं, क्रिया पूर्ववदिति गाथार्थः॥५८॥ . संवरकयनिस्छिदं तवपवणाइन्छजहणतरवेगं । वेरग्गमग्गपदियं विसोत्तियावीइनिक्खोभं ॥ ५९॥ . व्याख्या-इहाऽऽश्रवनिरोधः संवरस्तेन कृतं निश्छिद्रं-स्थगितरन्ध्रमित्यर्थः, अनशनादिलक्षणं तपः तदेवेष्टपुरं प्रति प्रेरकत्वात् पवन इव तपःपवनस्तेनाऽऽविद्धस्य-प्रेरितस्य जवनतर:-शीघ्रतरो वेगः-यो यस्य स तथाविधस्तं, तथा विरागस्य भावो वैराग्यं, तदेवेष्टपुरप्रापकत्वान्मार्ग इव वैराग्यमार्गस्तस्मिन् पतितः-गतस्तं, तथा विस्रोतसिका-अपध्यानानि एता एवेष्टपुरप्राप्तिविघ्नहेतुत्वाद्वीचय इव विस्रोतसिकावीचयः ताभिर्निक्षोभ्यः-निष्पकम्पस्तमिति गाथार्थः ॥ ५९॥ एवम्भूतं पोतं किं: भारो मुणियणिया महग्यसीहंगरयणपरिपुर्ण । मह तं निशाणपुर सिग्धमविषेण पार्वति ॥ १० ॥ व्याख्या-'आरो?' इत्यारुह्य, के ?-मुनिवणिजा' मन्यन्ते जगतस्त्रिकालावस्थामिति मुनयः त एवातिनिपुणमायव्ययपूर्वकं प्रवृत्तेर्वणिज इव मुनिवणिजः, पोत एव विशेष्यते-महार्षाणि शीलाङ्गानि-पृथिवीकायसंरम्भपरित्यागादीनि वक्ष्यमाणलक्षणानि तान्येवैकान्तिकात्यन्तिकसुखहेतुत्वाद्रतानि २ तैः परिपूर्णः-भृतस्तं, येन प्रकारेण यथा 'तत' प्रक्रान्त 'निर्वाणपुरं' सिद्धिपत्तनं परिनिर्वाणपुरं वेति पाठान्तरं 'शीघ्रम्' आशु स्वल्पेन कालेनेत्यर्थः, 'अविघ्नेन' अन्तरायमन्तरेण 'प्राप्नुवन्ति' आसादयन्ति, तथा विचिन्तयेदिति वर्तत इत्ययं गाथार्थः ॥ ६॥ तस्थ य तिरयणविणियोगमइयमेगंतियं निराबाहं । साभावियं निरुवम जह सोक्खं अक्खयमुवेंति॥॥ व्याख्या-'तत्र च' परिनिर्वाणपुरे 'त्रिरत्नविनियोगात्मक मिति त्रीणि रत्नानि-ज्ञानादीनि विनियोगश्चैषां क्रियाकरणं, ततः प्रसूतेस्तदात्मकमुच्यते, तथा 'एकान्तिकम्' इत्येकान्तभावि 'निराबाधम्' इत्याबाधारहितं, 'स्वाभाविक' न कृत्रिम 'निरुपमम्' उपमातीतमिति, उक्तं च-नवि अस्थि माणुसाणं तं सोक्ख'मित्यादि 'यथा' येन प्रकारेण 'सौख्यं प्रतीतम् 'अक्षयम्' अपर्यवसानम् 'उपयान्ति' सामीप्येन प्रामुवन्ति, क्रिया प्राग्वदिति गाथार्थः ॥ ६१ ॥ किंबहुणा ! सनं चिय जीवाइपयस्यवित्थरोवेयं । सबनयसमूहमयं माएजा समयसम्भावं ॥५॥ व्याख्या-किं बहुना भाषितेन ?, 'सर्वमेव' निरवशेषमेव 'जीवादिपदार्थविस्तरोपेतं' जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाख्यपदार्थप्रपञ्चसमन्वितं समयसद्भाव मिति योगः, किंविशिष्टं ?-'सर्वनयसमूहात्मक' द्रव्यास्तिकादिनयसङ्घातमयमित्यर्थः, 'ध्यायेत्' विचिन्तयेदिति भावना, 'समयसद्भावं' सिद्धान्तार्थमिति हृदयम् , अयं गाथार्थः ॥ ६२॥ गतं ध्यातव्यद्वारं, साम्प्रतं येऽस्य ध्यातारस्तान् प्रतिपादयन्नाह सापमायरहिया मुणको खीणोवसंतमोहा मायारो नाणधणा धम्ममाणस्स निदिहा ॥५॥ वास्ति मनुष्याणां तत्सौख्यं. व्याख्या-प्रमादा-मद्यादयः, यथोक्तम्-'मज विसयकसाया निद्दा विकहा य पंचमी भणिया' सर्वप्रमादै रहिताः सर्वप्रमादरहिताः, अप्रमावन्त इत्यर्थः, 'मुनयः' साधवः 'क्षीणोपशान्तमोहाश्च' इति क्षीणमोहा:-क्षपकनिम्रन्थाः उपशान्त मोहा-उपशामकनिम्रन्थाः, चशब्दादन्ये वाऽप्रमादिनः, ध्यातारः' चिन्तकाः, धर्मध्यानस्येति सम्बन्धः, ध्यातार एव विशेष्यन्ते-'ज्ञानधनाः' ज्ञानवित्ताः, विपश्चित इत्यर्थः, निर्दिष्टाः' प्रतिपादितास्तीर्थकरगणधरैरिति गाथार्थः ॥६॥ उक्ता धर्मध्यानस्य ध्यातारः, साम्प्रतं शुक्लध्यानस्याप्याद्यभेदद्वयस्याविशेषेण एत एव यतो ध्यातार इत्यतो मा भूरपुनरभिधेया भविष्यन्तीति लाघवार्थ चरमभेदद्वयस्य प्रसङ्गत एव तानेवाभिधित्सुराह एएच्चिय पुत्राणं पुत्रधरा सुप्पसस्थसंघयणा । दोह सजोगाजोगा सुकाण पराण केवलिणो ॥१४॥ व्याख्या-'एत एव' येऽनन्तरमेव धर्मध्यानध्यातार उक्ताः 'पूर्वयोः' इत्याद्ययोर्द्वयोः शुक्लध्यानभेदयोः पृथक्त्ववितकसविचारमेकत्ववितर्कमविचारमित्यनयोः ध्यातार इति गम्यते, अयं पुनर्विशेषः- पूर्वधराः' चतुर्दशपूर्वविदस्तदुपयुक्ताः, इदं च पूर्वधरविशेषणमप्रमादयतामेव वेदितव्यं, न निम्रन्थानां, मापतुषमरुदेव्यादीनामपूर्वधराणामपि तदुपपत्तेः, 'सुप्रशस्तसंहनना' इत्याद्यसंहननयुक्ताः, इदं पुनरोपत एव विशेषणमिति, तथा 'द्वयोः' शुक्लयोः परयोः-उत्तरकालभाविनोः प्रधानयोर्वा सूक्ष्मक्रियानिवृत्तिव्युपरतक्रियाऽप्रतिपातिलक्षणयोर्यथासङ्ग्यं सयोगायोगकेवलिनो ध्यातार इति योगः, मचं विषयाः कपाया निदा विकथा च पचमी भणिता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy