________________
74 बावश्यकहारिभद्रीया रणेष्वपुनरुक्तम् ॥१॥” तथा हि 'नामादिभेदविहितं' भेदतो नामादिभेदावस्थापितमित्यर्थः, उक्तं च-नाम ठवणा दविए खित्ते काले भवेय भावे य । पज्जवलोगो य तहा अट्ठविहो लोगंमि (ग)निक्खेवो ॥१॥ भावार्थश्चतुर्विंशतिस्तवविवरणादवसेयः, साम्प्रतं क्षेत्रलोकमधिकृत्याह-'त्रिविधं' त्रिप्रकारम् 'अधोलोकभेदादि' इति प्राकृतशैल्याऽधोलोकादिभेदम् , आदिशब्दात्तिर्यगूर्वलोकपरिग्रह इति गाथार्थः ॥५३॥ किं च-तस्मिन्नेव क्षेत्रलोके इदं चेदं च विचिन्तयेदिति प्रतिपादयन्नाह
खिइवलयदीवसागरनरयविमाणभवणाइसंठागं । घोमाइपइहाणं निययं लोगटिइविहाणं ॥५४॥ व्याख्या-'क्षितिवलयद्वीपसागरनिरयविमानभवनादिसंस्थान' तत्र क्षितयः खलु धर्माद्या ईपत्प्राग्भारावसाना अष्टौ भूमयः परिगृह्यन्ते, वलयानि-घनोदधिधनवांततनुवातात्मकानि धर्मादिसप्तपृथिवीपरिक्षेपीण्येकविंशतिः, द्वीपा:-जम्बूद्वीपादयः स्वयम्भूरमणद्वीपान्ता असङ्ख्येयाः, सागरा-लवणसागरादयः स्वयम्भूरमणसागरप सीमन्तकाद्या अप्रतिष्ठानावसानाः सङ्ख्येयाः, यत उक्तम्-'तीसो य पन्नवीसा पनरस दसेव सयसहस्साई। तिन्नेगं पंचूर्ण पंच य नरगा जहाकमसो ॥१॥' विमानानि-ज्योतिष्कादिसम्बन्धीन्यनुत्तरविमानान्तान्यसङ्ख्येयानि, ज्योतिष्कविमानानामसंख्येयत्वात्, भवनानि-भवनवास्यालयलक्षणानि असुरादिदशनिकायसंबन्धीनि संख्येयानि, उक्तं च
१ नामस्थापनयोः द्रव्ये क्षेत्रे च काले भवेच भावे च । पर्यवलोकः तथाऽष्टविधो लोके निक्षेपः॥१॥२ त्रिंशत् पञ्चविंशतिश्च पञ्चदश दशैव शतसहसाणि । त्रीणि एकं पञ्चोनं पञ्च च नरका यथाक्रमम् ॥१॥ "सत्तेवं य कोडीओ वंति वावत्तरि सयसहस्सा । एसो भवणसमासो भवणवईणं वियाणेजा ॥१॥" आदिशब्दादसत्येयव्यन्तरनगरपरिग्रहः, उक्तं च-"हेहोवरिजोयणसयरहिए रयणाए जोयणसहस्से । पढमे वंतरियाणं भोमा नयरा असंखेजा ॥१॥" ततश्च शितयश्च वलयानि चेत्यादिद्वन्द्वः, एतेषां संस्थानम्-आकारविशेषलक्षणं विचिन्तयेदिति, तथा 'व्योमा
तेष्ठितिः प्रतिष्ठान, भावे ल्युट, व्योम-आकाशम, आदिशब्दाद्वाय्वादिपरिग्रहः, व्योमादौ प्रतिछानमस्येति व्योमादिप्रतिष्ठान, लोकस्थितिविधानमिति योगः, विधिः-विधानं प्रकार इत्यर्थः, लोकस्य स्थितिः २, स्थितिः व्यवस्था मर्यादा इत्यनर्थान्तरं, तद्विधानं, किम्भूतं?-'नियतं नित्यं शाश्वतं, क्रिया पूर्ववदिति गाथार्थः॥५४॥ किं च
नवओगलक्षणमणाइनिहणमत्थंतरं सरीराभो । जीवमरूवि कारिं भोयं च सयस कम्मरस ॥ ५५॥ व्याख्या-उपयुज्यतेऽनेनेत्युपयोगः-साकारानाकारादिः, उक्तं च-'स द्विविधोऽष्ट चतुर्भेदः' (तत्त्वार्थे अ० २ सू०९) स एव लक्षणं यस्य स उपयोगलक्षणस्तं, जीवमिति वक्ष्यति, तथा 'अनाद्यनिधनम्' अनाद्यपर्यवसितं, भवापवर्गप्रवाहा. पेक्षया नित्यमित्यर्थः, तथा 'अर्थान्तरं' पृथग्भूतं, कुतः ?-शरीरात्, जातावेकवचनं, शरीरेभ्यः-औदारिकादिभ्य इति, किमित्यत आह-जीवति जीविष्यति जीवितवान् वा जीव इति तं, किम्भूतमित्यत आह-'अरूपिणम्' अमूर्तमित्यर्थः, तथा 'कर्तारं' निर्वर्तकं, कर्मण इति गम्यते, तथा. 'भोक्तारम्' उपभोक्तारं, कस्य -स्वकर्मणः-आत्मीयस्य कर्मणः, ज्ञानावरणीयादेरिति गाथार्थः ॥ ५५॥
सप्तैद च कोट्यो भवन्ति द्वासप्ततिः शतसहस्राणि । पुष भवनसमासो भवनपतीनां (इति) विजानीयात् ॥१॥ अधस्तादुपरि योजनशतरहिते रताया योजनसहसे । प्रथमे व्यन्तराणां भौमानि नगराण्यसंख्येयानि ॥१॥
सस्स य सकम्मजणियं जम्माइजलं कसायपायाळ । वसणसयसावयमणं मोहावतं महाभीमं ॥५॥ , व्याख्या-तस्य च' जीवस्य 'स्वकर्मजनितम्' आत्मीयकर्मनिवर्तितं, के ?-संसारसागरमिति वक्ष्यति तं, किम्भूतमित्यत आह-'जन्मादिजलं' जन्म-प्रतीतम्, आदिशब्दाजरामरणपरिग्रहः, एतान्येवातिवहुत्वाज्जलमिव जलं यस्मिन् स तथाविधस्तं, तथा 'कपायपातालं' कपाया:-पूर्वोक्तास्त एवागाधभवजननसाम्येन पातालमिव पातालं यस्मिन् स तथाविधस्तं, तथा 'व्यसनशतश्वापदवन्तं' व्यसनानि-दुःखानि तादीनि वा तच्छतान्येव पीडाहेतुत्वात् श्वापदानि तान्यस्य विद्यन्त इति तद्वन्तं 'मणं'ति देशीशब्दो मत्वर्थीयः, उक्तं च "मतुयस्थमि मुणिज्जह आलं इलं मणं च मणुयं चे"ति, तथा 'मोहायत' मोहा-मोहनीयं कर्म तदेव तत्र विशिष्टभ्रमिजनकत्वादावर्तो यस्मिन् स तथाविधस्तं, तथा 'महाभीमम्' अतिभयानकमिति गाथार्थः ॥ ५६ ॥ किं च
अण्णाणमारुएरियसंजोगविजोगवीइसंताणं । संसारसागरमणोरपारमसुहं विचिंतेजा ॥ ५७॥ व्याख्या-'अज्ञानं ज्ञानावरणकर्मोदयजनित आत्मपरिणामः स एव तत्प्रेरकत्वान्मारुतः-वायुस्तेनेरित:-प्रेरितः, कः?-संयोगवियोगवीचिसन्तानो यस्मिन् स तथाविधस्तं,तत्र संयोगः-केनचित् सह सम्बन्धः वियोगः-तेनैव विप्रयोगः एतावेव सन्ततप्रवृत्तत्वात वीचयः-ऊर्मयस्तत्प्रवाहः-सन्तान इति भावना, संसरणं संसारः (स)सागर इव संसारसागरस्तं, किम्भूतम् ? 'अनोरपारम' अनाद्यपर्यवसितम् 'अशुभम्' अशोभनं विचिन्तयेत्, तस्य गुणरहितस्य जीवस्येति गाधार्थः॥ ५७॥
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org