SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 17 भावश्यकहारिभद्रीया ठिइति तासिं चेव अढण्हं पयडीणं जहण्णमज्झिमुक्कोसा कालावत्था जहा कम्मपयडीए, किं च-पएसभिन्नं शुभाशुभ यावत्-'कृत्वा पूर्व विधानं पदयोस्तावेव पूर्ववद् वग्यौँ। वर्गघनौ कुर्यातां तृतीयराशेस्ततः प्राग्वत् ॥१॥" कृत्वा विधान' मिति २५६, अस्य राशेः पूर्वपदस्य घनादि कृत्वा तस्यैव वर्गादि ततः द्वितीयपदस्येदमेव विपरीतं क्रियते, तत एतावेव वयेते, ततस्तृतीयपदस्य वर्गघनौ क्रियते, एवमनेन क्रमेणार्य राशिः १६७७७२१६ चिंतेजा पएसोत्ति जीवपएसाणं कम्मपएसेहिं सुहुमेहिं एगखेत्तावगाढेहिं पुट्ठोगाढअणंतरअणुबायरउद्धाइभेएहिं बद्धाणं वित्थरओ कम्मपयडीए भणियाणं जा, किं च-अणुभावभिन्नं सुहासुहविहत्तं कम्मविवागं विचिंतेज्जा, तत्थ अणुभावोत्ति तासिं चेवऽढण्हं पयडीणं पुढबद्धनिकाइयाणं उदयाउ अणुभवणं, तं च कम्मविवागं जोगाणुभावजणियं विचिंतेज्जा, तत्थ जोगा मणषयणकाया, अणुभावो जीवगुण एव, सच मिथ्यादर्शनाविरतिप्रमादकषायाः, तेहिं अणुभावेण य जणियमुप्पाइयं जीवस्स कम्म जं तस्स विवागं उदयं विचिंतिज्जइ । उक्तस्तृतीयो ध्यातव्यभेदः, साम्प्रतं चतुर्थ उच्यते, तत्र जिणदेसियाइ लक्खणसंठाणासणविहाणमाणाई । उप्पायहिभंगाह पज्जवा जे य दाणं ॥ ५२॥ १ स्थितिरिति तासामेवाष्टानां प्रकृतीनां जघन्यमध्यमोत्कृष्टाः कालावस्था यथा कर्मप्रकृतौ । किंच-प्रदेशभि-चिन्तयेत्, प्रदेश इति जीवप्रदेशाना कर्मप्रदेशैः सूक्ष्मैरेकक्षेत्रावगाः स्पृष्टावगाडानन्त "णुबादरोवादिभेदैबंद्धानां विस्तरतः कर्मप्रकृतौ भणितानां कर्मविपाकं विचिन्तयेत् , किं च अनुभाषभित्र शुभाशुभविभक्तं कर्मविपाकं विचिन्तयेत् , तत्रानुभाव इति तासामेवाटानां प्रकृतीनां स्पृश्बद्ध निकाधितानामुदयावनुभवनम् , तं च कर्मविपाकं योगानुभाषजनितं विचिन्तयेत्, तन्त्र योगा मनोबच्चनकाया, मनुभावो जीवगुण एव, तैरनुमावेन च जनितम्-उत्पादितं जीवस्य कर्म यत् तस्या विपाक-उदयो विचिन्त्यते । व्याख्या-जिना:-माग्निरूपितशब्दार्थास्तीर्थकरास्तैर्देशितानि-कथितानि जिनदेशितानि, कान्यत आह-लक्षणसंस्थानासनविधानमानानि,' किं ?-विचिन्तयेदिति पर्यन्ते वक्ष्यति षष्ठयां गाथायामिति, तत्र लक्षणादीनि विचिन्तयेत् , अत्रापि गाथान्ते द्रव्याणामित्युक्तं तत्प्रतिपदमायोजनीयमिति, तत्र लक्षणं धर्मास्तिकायादिद्रव्याणां गत्यादि, तथा संस्थान मुख्यवृत्त्या पुद्गलरचनाकारलक्षणं परिमण्डलाद्यजीवानां, यथोक्तम्-'परिमंडले य वट्टे तंसे चउरंस आयते चेव' जीवश णां च समचतुरस्रादि, यथोक्तम्-'सर्मचउरंसे नग्गोहमंडले साइ वामणे खुजे । हुंडेवि य संठाणे जीवाणं छ मुणेयबा ॥१॥' तथा धर्माधर्मयोरपि लोकक्षेत्रापेक्षया भावनीयमिति, उक्तं च-हेढा मज्झे उवरि छबीझल्लरिमुइंगसंठाणे । लोगो अद्धागारो अद्धाखेत्तागिई नेओ ॥१॥' तथाऽऽसनानि-आधारलक्षणानि धर्मास्तिकायादीनां लोकाकाशादीनि स्वस्वरूपाणि वा, तथा विधानानि धर्मास्तिकायादीनामेव भेदानित्यर्थः, यथा-'धम्मत्थिकाए धम्मत्थिकायस्स देसे धम्मत्थिकायस्स पएसे' इत्यादि, तथा मानानि-प्रमाणानि धर्मास्तिकायादीनामेवात्मीयानि, तथोत्पादस्थितिभङ्गादिपर्याया ये च 'द्रव्याणां' धर्मास्तिकायादीनां तान् विचिन्तयेदिति, तत्रोत्पादादिपर्यायसिद्धिः 'उत्पादव्ययध्रौव्ययुक्तं सदिति (तत्त्वार्थे अ०५सू० २९) वचनाद्, युक्तिः पुनरत्र-'घटमौलीसुवर्णार्थी, नाशोत्पत्तिस्थितिष्वयम् । शोकप्रमोदमाध्यस्थं,जनो याति सहेतुकम् ॥१॥पयोव्रतो न दक्ष्यत्ति, न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे, तस्मात्तत्त्वं त्रयात्मकम् ॥२॥" परिमण्डलं वृत्तं व्यत्रं चतुरस्रमायतमेव. २ समचतुरस्र न्यग्रोधमण्डलं सादि वामनं कुजं । हुण्डमपि च संस्थानानि जीवानां षड् ज्ञातव्यानि ॥१॥ ३ अधस्तान्मध्ये उपरि वेत्रासनझलरीमृदङ्गसंस्थानः।लोको वैशाखाकारो वैशाखक्षेत्राकृतिज्ञेयः ॥ ॥ धर्मास्तिकायो धर्मास्तिकायस्य देशः धर्मास्तिकायस्य प्रदेशः। ततश्च धोस्तिकायो विवक्षितसमयसम्बन्धरूपापेक्षयोत्पद्यते तदनन्तरातीतसमयसम्बन्धरूपापेक्षया तु विनश्यति धर्मास्तिकायद्रव्यात्मना तु नित्य इति, उक्तं च-'सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ चन विशेषः। सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ॥१॥' आदिशब्दादगुरुलध्वादिपायपरिग्रहः, चशब्दः समुच्चयार्थ इतिगाथार्थः॥५२॥किंच ___पंचस्थिकायमइयं लोगमणाइणिहणं जिणक्खायं । णामाइभेयविहियं तिविहमहोलोयभेयाई ॥ ५३ ॥ व्याख्या-'पश्चास्तिकायमयं लोकमनाद्यनिधनं जिनाख्यात'मिति, क्रिया पूर्ववत्, तत्रास्तयः-प्रदेशास्तेषां काया अस्तिकायाः पञ्च च ते अस्तिकायाश्चेति विग्रहः, एते च धर्मास्तिकायादयोगत्याधुपग्रहकरा ज्ञेया इति, उक्तं च-"जीवानां पुद्गलानां च, गत्युपग्रहकारणम् । धर्मास्तिकायो ज्ञानस्य, दीपश्चक्षुष्मतो यथा ॥१॥ जीवानां पुद्गलानां च, स्थित्युपग्रकारणम् । अधर्मः पुरुषस्येव, तिष्ठासोरवनिर्यथा ॥२॥ जीवानां पुद्गलानां च, धर्माधर्मास्तिकाययोः । बदराणां घटो यद्वदाकाशमवकाशदम् ॥ ३॥ ज्ञानात्मा सर्वभावज्ञो, भोका कर्ता च कर्मणाम् । नानासंसारिमुक्ताख्यो, जीवः प्रोक्तो जिनागमे ॥ ४॥ स्पर्शरसगन्धवर्णशब्दमूर्तस्वभावकाः । सङ्घातभेदनिष्पन्नाः, पुद्गला जिनदेशिताः॥ ५॥” तन्मयं-तदास्मक, लोक्यत इति लोकस्तं, कालतः किम्भूतमित्यत आह–'अनाद्यनिधनम्' अनाद्यपर्यवसितमित्यर्थः, अनेनेश्वरादिकृतव्यवच्छेदमाह, असावपि दर्शनभेदाच्चित्र एवेत्यत आह-'जिनाख्यातं' तीर्थकरप्रणीतम्, आह-'जिनदेशितानि'त्यस्माजिनप्रणीताधिकारोऽनुवर्तत एव, ततश्च जिनाख्यातमित्यतिरिच्यते, न, अस्याऽऽदरख्यापनार्थत्वात् , आदरख्यापनादौ च पुनरुक्तदोषानुपपत्तेः, तथा चोकम्-"अनुवादादरवीप्साभृशार्थविनियोगहेत्वसूयासु । ईषत्सम्भ्रमविस्मयगणनास्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy