SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 72 आवश्यक हारिभद्रीया षष्ठकारणसमुच्चयार्थः, 'सति' विद्यमाने, किं ? - 'यद्' वस्तुजातं 'न सुष्ठु बुद्ध्येत' नातीवावगच्छेत् 'सर्वज्ञमतमवितथं तथाणि तच्चिन्तयेन्मतिमा 'निति तत्र सर्वज्ञा:- तीर्थकरास्तेषां मतं सर्वज्ञमतं वचनं किं ? - वितथम् - अनृतं न वितथम् - अवितथं सत्यमित्यर्थः, 'तथापि ' तदबोधकारणे सत्यनवगच्छन्नपि 'तत्' मतं वस्तु वा 'चिन्तयेत्' पर्यालोचयेत् ' मतिमान् ' बुद्धिमानिति गाथार्थः ॥ ४८ ॥ किमित्येतदेवमित्यत आह- अणुवक यपराणुभ्गहपरायणा जं जिणा जगप्पवरा जियरागदोसमोहा य णण्णहावादिणो तेणं ॥ ४९ ॥ व्याख्या - अनुपकृते - परैरवर्तिते सति परानुग्रहपरायणा - धर्मोपदेश । दिना परानुग्रहोद्युक्ता इति समासः, 'यद्' यस्मात् कारणात्, के ? - 'जिना: ' प्राग्निरूपितशब्दार्थाः, त एव विशेष्यन्ते- 'जगत्प्रवरा:' चराचरश्रेष्ठा इत्यर्थ, एवंविधा अपि कदाचिद् रागादिभावाद्वितथवादिनो भवन्त्यत आह-जिता - निरस्ता रागद्वेषमोहा यैस्ते तथाविधाः, तत्राभिष्वङ्गलक्षणो रागः अप्रीतिलक्षणो द्वेषः अज्ञानलक्षणश्च मोहः, चशब्द एतदभावगुणसमुच्चयार्थः, नान्यथावादिनः 'तेने 'ति तेन कारणेन ते नान्यथावादिन इति उक्तं च- "रागाद्वा द्वेषाद्वे" त्यादि गाथार्थः ॥ ४९ ॥ उक्तस्तावद्ध्यातव्यप्रथमो भेदः, अधुना द्वितीय उच्यते , राग दोसकसायासवादि किरियासु वट्टमाणाणं । इहपरलोयावाओ शाइजा वजपरिवजी ॥ ५० ॥ व्याख्या - रागद्वेषकषायाश्रवादिक्रियासु प्रवर्तमानानामिहपरलोकापायान् ध्यायेत्, यथा रागादिक्रिया ऐहिकामुष्मिकविरोधिनी, उक्तं च--"रागः सम्पद्यमानोऽपि दुःखदो दुष्टगोचरः । महाव्याध्यभिभूतस्य, कुपथ्यान्नाभिलाषवत् ॥ १ ॥” तथा - ' द्वेषः सम्पद्यमानोऽपि तापयत्येव देहिनम् । कोटरस्थो ज्वलन्नाशु, दावानल इव द्रुमम् ॥ २ ॥' तथा 'दृष्ट्यादिभेदभिन्नस्य, रागस्यामुष्मिकं फलम् । दीर्घः संसार एवोक्तः, सर्वज्ञैः सर्वदर्शिभिः ॥ ३ ॥ इत्यादि, तथा-दोसानलसंसन्तो इह लोए चैव दुक्खिओ जीवो । परलोगंमि य पावो पावइ निरयानलं तत्तो ॥ १ ॥ इत्यादि, तथा कषायाः - क्रोधादयः, तदपायाः पुनः - 'को हो य माणो य अणिग्गहीया, माया य लोहो य पवडूमाणा । चत्तारि एए कसिणो कसाया, सिंचंति मूलाई पुणभवस्स ॥ १ ॥ तथाऽऽश्रवाः - कर्मबन्धहेतवो मिथ्यात्वादयः, तदपायः पुनः - 'मिच्छेत्तमोहियमई जीवो इहलोग एव दुखाई । निरओवमाई पावो पावइ पसमाइगुणहीणो ॥ १ ॥' तथा 'अज्ञानं खलु कष्टं क्रोधादिभ्योऽपि सर्वपापेभ्यः । अर्थ हितमहितं वा न वेत्ति येनावृतो लोकः ॥ १ ॥' तथा 'जीवा पाविंति इहं पाणवहादविरईए पावाए। नियसुयघायणमाई दोसे जणगरहिए पावा ॥ १ ॥ परलोगंमिवि एवं आसवकिरियाहि अजिए कम्मे । जीवाण चिरमवाया निरयाइगई भमंताणं ॥ २ ॥' इत्यादि, आदिशब्दः स्वगतानेकभेदख्यापकः, प्रकृतिस्थित्यनुभाव प्रदेशबन्धभेदग्राहक इत्यन्ये, १ द्वेपानलसंतप्त इहलोक एव दुःखितो जीवः । परलोके च पापः प्राप्नोति निश्यानलं ततः ॥१॥ २ क्रोधश्व मानश्चानिगृहीतौ माया च होभन प्रवर्धमानौ । चरवार एते कृताः कषायाः सिञ्चन्ति मूलानि पुनर्भवस्य ॥ १ ॥ कोहो पीई पण: सेड माणो विणयणासणो । माया मिसाणि नासेद्द कोहो सविणासणो ॥ १ ॥ ( प्रत्यन्तरेऽधिकं प्राकू ). ३ मिध्यात्वमोहितमतिर्जीव इहलोक एव दुःखानि । निश्योपमाणि पापः प्राप्नोति प्रशमादिगुणहीनः ॥१॥ ४ जीवाः वह प्राणवाद्यविरतेः पापिकायाः । निजसुतवातादिदोषान् जनगर्हितान् पापाः ॥१॥ परलोकेऽप्येवमाश्रवक्रियाभिरर्जिते कर्मणि । जीवानां चिरमपाया निरयादिगतिषु भ्रमताम् ॥ २ ॥ क्रियास्तु काक्यादिभेदाः पञ्च, एताः पुनरुत्तरत्र न्यक्षेण वक्ष्यामः, विपाकः पुनः - 'किंरियासु वट्टमाणा काइगमाईसु दुक्खिया जीवा । इह चेव य परलोए संसारपवड्ढया भणिया ॥ १ ॥ ततश्चैवं रागादिक्रियासु वर्तमानानामपायान् ध्यायेत्, किंविशिष्टः सन्नित्याह- 'वर्ज्यपरिवजी' तत्र वर्जनीयं वर्ज्यम् - अकृत्यं परिगृह्यते तत्परिवर्जी - अप्रमत्त इति गाधार्थः ॥ ५० ॥ उक्तः खलु द्वितीयो ध्यातव्य भेदः, अधुना तृतीय उच्यते, तत्र- पयइपिएसाणुभावभिन्नं सुहासुद्द विहन्तं । जोगाणुभावजणियं कम्म विवागं विचिंतेजा ॥ ५१ ॥ व्याख्या - 'प्रकृतिस्थितिप्रदेशानुभावभिनं शुभाशुभविभक्त' मिति अत्र प्रकृतिशब्देनाष्टौ कर्मप्रकृतयोऽभिधीयन्ते ज्ञानावरणीयादिभेदा इति, प्रकृतिरंशो भेद इति पर्यायाः, स्थितिः- तासामेवावस्थानं जघन्यादिभेदभिन्नं, प्रदेशशब्देन जीवप्रदेशकर्मपुङ्गलसम्बन्धोऽभिधीयते, अनुभावशब्देन तु विपाकः, पते च प्रकृत्यादयः शुभाशुभभेदभिन्ना भवन्ति, ततचैतदुक्तं भवति-प्रकृत्यादिभेदभिनं शुभाशुभविभक्तं 'योगानुभावजनितं ' मनोयोगादिगुणप्रभवं कर्मविपाकं विचिन्तयेदिति गाथार्थः ॥ ५१ ॥ भावार्थः पुनर्वृद्धविवरणादवसेयः, तच्चेदं - इह पयइभिन्नं सुहासुहविहतं कम्मविद्यागं विर्धितेज्जा, तत्थ पयउत्ति कम्मणो भेया अंसा जाणावरणिजाइणो अठ, तेहिं भिन्नं विहत्तं सुहं पुष्णं सायाइयं असुहं पावं तेहिं विहतंविभिन्नविपाकं जहा कम्मपकडीए तहा विसेसेण चिंतिजा, किं च-ठिइविभिन्नं च. सुहासुहविहत्तं कम्मविवागं विचिंतेजा, १ क्रियासु वर्त्तमानाः कायिक्यादिषु दुःखिता जीवाः । इहैव परलोके च संसारप्रवर्धका भणिताः ॥ ४ ॥ २ इह प्रकृतिभिन्नं शुभाशुभविभक्तं कर्मविपाक विचिन्तयेत्, तत्र प्रकृतय इति कर्मणो भेदा अंशा ज्ञानावरणादयोऽष्ट, तैर्भिन्नं विभक्तं शुभं पुण्यं सातादिकं अशुभं पापं तैर्विभक्तं विभिन्नरिपाकं यथा कर्मप्रकुता तथा विशेषेण चिन्तयेत् । किंच-स्थितिविभक्तं च शुभाशुभविभक्के कर्मविपाकं विचिन्तयेत्. For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy