________________
70
आवश्यकहारिभद्रीया
भालंबणाई वायणपुच्छणपरियट्टणाणुचिताओ। सामाइयाइयाई सद्धम्मावस्सयाई च ॥ ४२ ॥ व्याख्या-इह धर्मध्यानारोहणार्थमालम्ब्यन्त इत्यालम्बनानि 'वाचनाप्रश्नपरावर्तनानुचिन्ता' इति तत्र वाचन वाचन विनेयाय निर्जरायै सूत्रादिदानमित्यर्थः, शङ्किते सूत्रादौ संशयापनोदाय गुरुप्रच्छनं प्रश्न इति, परावर्तनं तु पूर्वाधीतस्यैव सूत्रादेरविस्मरणनिर्जरानिमित्तमभ्यासकरणमिति, अनुचिन्तनम् अचिन्ता मनसैवाविस्मरणादिनिमित्तं सूत्रानुस्मरणमित्यर्थः, वाचना च प्रश्नश्चेत्यादि द्वन्द्वः, एतानि च श्रुतधर्मानुगतानि वर्तन्ते, तथा सामायिकादीनि सद्धर्मावश्यकानि चेति, अमुनि तु चरणधमानुगतानि वतेन्ते, सामायिकमादौ येषां तानि सामायिकादीनि, तत्र सामायिक प्रतीतम, आदिशग्दान्मुखवस्त्रिकाप्रत्युपेक्षणादिलक्षणसकलचक्रवालसामाचारीपरिग्रहो यावत् पुनरपि सामायिकमिति, एतान्येव विधिवदासेव्यमानानि सन्ति-शोभनानि सन्ति च तानि चारित्रधर्मावश्यकानि चेति विग्रहः, आवश्यकानि-नियमतः करणीयानि, चः समुच्चये इति गाथार्थः ॥ ४२ ॥ साम्प्रतममीषामेवाऽऽलम्बनत्वे निषन्धनमाह
विसमंमि समारोहह दवदवालंबणो जहा पुरिसो। सुत्ताइकयालंबो तह माणवर समारुहह ॥ १३ ॥ व्याख्या-'विषमे निम्ने दुःसञ्चरे 'समारोहति' सम्यगपरिक्लेशेनोवं याति, कः ?-दृढं-बलबद्रव्यं रज्ज्याद्यालम्बनं यस्य स तथाविधः, यथा 'पुरुषः' पुमान् कश्चित् , 'सूत्रादिकृतालम्बनः' वाचनादिकृतालम्बन इत्यर्थः, 'तथा' तेनैव प्रकारेण 'ध्यानवरं' धर्मध्यानमित्यर्थः, समारोहतीति गाथार्थः ॥ ४३ ॥ गतमालम्बनद्वारम्, अधुना क्रमद्वारावसरः, तत्र लाघवार्थ धर्मस्य शुक्लस्य च (तं) प्रतिपादयन्नाह
माणप्पडिवत्तिकमो होइ मणोजोगनिग्गहाईओ। भवकाले केवालेणो सेसाण जहासमाहीए ॥ ४॥
ध्यान-प्राग्निरूपितशब्दार्थ तस्य प्रतिपत्तिक्रम इति समासः, प्रतिपत्तिक्रमः-प्रतिपत्तिपरिपाट्यभिधीयते. सच भवति मनोयोगनिग्रहादिः, तत्र प्रथमं मनोयोगनिग्रहः ततो वाग्योगनिग्रहः ततः काययोगनिग्रह इति, किमयं सामान्येन सर्वथैवेत्थम्भूतः क्रमो ?, न, किन्तु भवकाले केवलिनः, अत्र भवकालशब्देन मोक्षगमनप्रत्यासन्नः अन्तर्मुहूर्तप्रमाण एव शैलेश्यवस्थान्तर्गतः परिगृह्यते, केवलमस्यास्तीति केवली तस्य, शुक्लध्यान एवायं क्रमः, शेषस्यान्यस्य धर्मध्यानप्रतिपत्तुर्योगकालावाश्रित्य किं ?-'यथासमाधिने ति यथैव स्वास्थ्यं भवति तथैव प्रतिपत्तिरिति गाथार्थः ॥४४॥ गतं क्रमद्वारम् , इदानीं ध्यातव्यमुच्यते, तच्चतुर्भेदमाज्ञादिः, उक्तं च-"आज्ञाऽपायविपाकसंस्थानविचयाय धर्म्य' (तत्त्वाथै अ०९ सू० ३७ ) मित्यादि, तत्राऽऽद्यभेदप्रतिपादनायाह
सुनिउणमणाइणिहणं भूयहियं भूयभावणमहग्छ । अमियमजियं महत्थं महाणुभावं महाविसयं ॥ ४५ ॥ व्याख्या-सुष्टु-अतीव निपुणा-कुशला सुनिपुणा ताम्, आज्ञामिति योगः, नैपुण्यं पुनः सूक्ष्मद्रव्याद्युपदर्शकत्वातथा मत्यादिप्रतिपादकत्वाच्च, उक्तंच-सुयनाणंमि नेउण्णं, केवले तयणंतरं । अप्पणो सेसगाणं च, जम्हा तं परिभावगं ॥१॥' इत्यादि, इत्थं सुनिपुणां ध्यायेत् , तथा 'अनाद्यनिधनाम्' अनुत्पन्नशाश्वतामित्यर्थः, अनाद्यनिधनत्वं च द्रव्याधपेक्षयेति, उक्तं च-"द्रव्यार्थादेशादित्येषा द्वादशाङ्गी न कदाचिन्नासी"दित्यादि, तथा 'भूतहिता'मिति इह भूत
. श्रुतज्ञाने नैपुण्यं केवले तदनन्तरम् । भारमनः शेषकाणां च, यस्मात्तत् परिभाषकम् (प्रकाशकम् ) ॥1॥ शब्देन प्राणिन उच्यन्ते तेषां हितां-पथ्यामिति भावः, हितत्वं पुनस्त दनुपरोधिनीत्वात्तथा हितकारिणीत्वाच्च, उक्तं च'सर्वे जीवा न हन्तव्या' इत्यादि, एतत्प्रभावाच्च भूयांसः सिद्धा इति, 'भूतभावनाम्' इत्यत्र भूतं-सत्यं भाव्यतेऽनयेति भूतस्य वा भावना भूतभावना, अनेकान्तपरिच्छेदात्मिकेत्यर्थः, भूतानां वा-सत्त्वानां भावना भूतभावना, भावना वाससनेत्यनर्थान्तरम् , उक्तं च-करावि सहावेणं रागविसवसाणुगावि होऊणं । भावियजिणवयणमणा तेलुक्कसुहावहा होति ॥१॥' श्रूयन्ते च चिलातीपुत्रादय एवंविधा बहव इति, तथा 'अनाम्' इति सर्वोत्तमत्वादविद्यमानमूल्यामिति भावः, उक्त च-"संधेऽपि य सिद्धंता सदधरयणासया सतेलोका । जिणवयणस्स भगवओ न मुल्लमित्तं अणग्घेणं ॥१॥' तथा स्तुतिकारेणाप्युक्तम्-"कल्पद्रुमः कल्पितमात्रदायी, चिन्तामणिश्चिन्तितमेव दत्ते । जिमेन्द्रधर्मातिशयं विचिन्त्य, द्वयेऽपि लोको लघुतामवैति ॥१॥" इत्यादि, अथवा 'ऋणना मित्यत्र ऋण-कर्म तनामिति, उक्तं च-"ज अंनाणी कम्म खवेइ घहुयाहि वासकोडीहिं । तं नाणी तिहिं गुत्तो खवेइ ऊसासमित्तेणं ॥१॥" इत्यादि, तथा 'अमिताम्' इत्यपरिमिताम् , उक्तं च-"सवनदीणं जा होज वालुया सबउदहीण जं उदयं। एत्तोवि अणंतगुणो अत्थो एगस्स सुत्तस्स॥१॥" अमृतां वा मृष्टां वा पथ्यां वा, तथा चोक्तम्-"जिणवयणमोदगस्स उ रत्तिं च दिवा य खजमाणस्स । तित्तिं बुहो न गच्छइ
क्रूरा अपि स्वभावेन रागविपवशानुगा अपि भूत्वा । भावितजिनवचनमनसबैलोक्यसुखावहा भवन्ति ॥१॥२ सर्वेऽपि च सिद्धान्ताः सद्व्यरत्नाश्रयाः सत्रैलोक्याः । जिनवचनस्य भगवतो न मूल्यमात्रमन'ण (धरवेन)॥१॥३ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । तत् ज्ञानी विभिर्गुप्तः क्षपयत्युच्वासमात्रेण ॥1॥ सर्वनदीनां या भवेयुः वालुकाः सर्वोदधीनां यदुदकम् । अतोप्यऽनन्तगुणोऽर्थ एकस्य सूत्रस्य ॥१॥ ५ जिनवचनमोदकस्य तु रात्री दिवा च खाद्यमानस्य । तृप्तिं बुधो न गच्छति.
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org