SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ आवश्यकहारिभद्रीया व्याख्या-तत्र स्थिरा-संहननधृतिभ्यां बलवन्त उच्यन्ते, कृता-निर्वर्तिता अभ्यस्ता इतियावत् , के ?-युज्यन्त इति बोगाः-ज्ञानादिभावनाव्यापाराः सत्त्वसूत्रतपःप्रभृतयो वा यैस्ते कृतयोगाः, स्थिराश्च ते कृतयोगाश्चेति विग्रहस्तेषाम् , अब च स्थिरकृतयोगयोश्चतुर्भङ्गी भवति, तद्यथा-'थिरेणामेगे णो कयजोगे'इत्यादि, स्थिरावा-पौनःपुन्यकरणेन परिचिताः कृता योगा यैस्ते तथाविधास्तेषां, पुनःशब्दो विशेषणार्थः, किं विशिनष्टि?-तृतीयभङ्गवतां न शेषाणां, स्वभ्यस्तयोगानां वा मुनीनामिति, मन्यन्ते जीवादीन पदार्थानिति मुनयो-विपश्चित्साधवस्तेषां च, तथा ध्याने-अधिकृत एव धर्मध्याने सुा-अतिशयेन निश्चलं-निष्प्रकम्पं मनो येषां ते तथाविधास्तेषाम् , एवंविधानां स्थानं प्रति ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेष इति, तत्र ग्रसति बुद्ध्यादीन गुणान् गम्यो वा करादीनामिति ग्रामः-सन्निवेशविशेषः, इह 'एकलहणे तज्जातीयग्रहणा'नगरखेटकर्वटादिपरिग्रह इति, जनाकीर्णे-जनाकुले ग्राम एवोद्यानादौ वा, तथा शून्ये तस्मिन्नेवारण्ये वा कान्तारे वेति, वा विकल्पे, न विशेषो-न भेदः, सर्वत्र तुल्यभावत्वात्परिणतत्वात्तेषामिति गाथार्थः ॥ ३६ ॥ यतश्चैव जो (तो) जत्थ समाहाणं होज मणोवयणकायजोगाणं । भूओवरोहरहिओ सो वेसोझायमाणस्स ॥ ३७॥ एव तदक्तं ततः तस्मात्कारणाद् 'यत्र' ग्रामादौ स्थाने 'समाधान' स्वास्थ्यं भवति' जायते, केपामित्यत आह-'मनोवाकाययोगानां' प्राग्निरूपितस्वरूपाणामिति, आह-मनोयोगसमाधानमस्तु, वाकाययोगसमाधानं तत्र कोपयुज्यते ?, न हि तन्मयं ध्यानं भवति. अत्रोच्यते, तत्समाधानं तावन्मनोयोगोपकारक, ध्यानमपि च तदात्मकं भवत्येव, यथोक्तम्-एवंविहा गिरा मे वत्तवा एरिसी न वत्तवा । इय वेयालियवक्कस्स भासओ वाइगं झाणं ॥१॥' तथा'सुसमाहियकरपायस्स अकजे कारणंमि जयणाए । किरियाकरणं जं तं काइयझाणं भवे जइणो ॥२॥ न चात्र समाधानमात्रकारित्वमेव गृह्यते, किन्तु भूतोपरोधरहितः, तत्र भूतानि-पृथिव्यादीनि उपरोधः-तत्सङ्घटनादिलक्षणः तेन रहितः-परित्यक्तो यः 'एकग्रहणे तज्जातीयग्रहणाद'अनृतादत्तादानमैथुनपरिग्रहाद्युपरोधरहितश्च स देशो'ध्यायतः चिन्तयता, उचित इति शेषः, अयं गाथार्थः ॥ ३७॥ गतं देशद्वारम्, अधुना कालद्वारमभिधित्सुराह कालोऽवि सोचिय जहिं जोगसमाहाणमुत्तमं लहह । न उ दिवसनिसावेलाइनियमणं माइणो भणियं ॥१८॥ व्याख्या-कलन कालः कलासमूहो वा कालः, स चार्द्धतृतीयेषु द्वीपसमुद्रेषु चन्द्रसूर्यगतिक्रियोपलक्षितो दिवसादिरवसेयः, अपिशब्दो देशानियमेन तुल्यत्वसम्भावनार्थः, तथा चाह-कालोऽपि स एव, ध्यानोचित इति गम्यते, 'यत्र' काले 'योगसमाधान' मनोयोगादिस्वास्थ्यम् 'उत्तम प्रधानं 'लभते' प्राप्नोति, 'न तु' न पुनर्नैव च, तुशब्दस्य पुनःशब्दार्थत्वादेवकारार्थत्वाद्वा, किं ?-दिवसनिशावेलादिनियमनं ध्यायिनो भणितमिति, दिवसनिशे प्रतीते, वेला सामान्यत एव, तदेकदेशो मुहूर्तादिः, आदिशब्दात् पूर्वाहापराह्लादिरा या एतन्नियमनं दिवैवेत्यादिलक्षणं, ध्यायिनः-सत्त्वस्य भणितम्उक्तं तीर्थकरगणधरैवेति गाथार्थः ॥ ३८॥ गतं कालद्वार, साम्प्रतमासनविशेषद्वारं व्याचि एवंविधाः गीर्मया वक्तव्येडशी न वक्तव्या । इति विचारितवाक्यस्य भाषमाणस्य वाचिकं ध्यानम् ॥१॥सुसमाहितकरपादस्याकार्य कारणे यतनया। क्रियाकरणं यत्तरकायिक भवेन यतेः ध्यानं ॥२॥ जश्चिय देहावस्था जिया ण झाणोवरोहिणी होइ । झाइजा तदवस्थो ठिमओ निसण्णो निवण्णो वा ॥ ३९ ॥ व्याख्या-इहैव या काचिद् 'देहावस्था' शरीरावस्था निषण्णादिरूपा, किं-'जिता' इत्यभ्यस्ता उचिता वा, तथाऽनुष्ठीयमाना 'न ध्यानोपरोधिनी भवति' नाधिकृतधर्मध्यानपीडाकरी भवतीत्यर्थः, 'ध्यायेत् तदवस्थ इति सैवावस्था यस्य स तदवस्थः, तामेव विशेषतः प्राह-'स्थितः' कायोत्सर्गेणेषन्नतादिना 'निषण्णः' उपविष्टो वीरासनादिना निर्विण्णः सन्निविष्टो दण्डायतादिना 'वा' विभाषायामिति गाथार्थः॥३९॥आह-किं पुनरयं देशकालासनानामनियम इति !, अत्रोच्यते, सजासु वमाणा मुणओ जं देसकालचेद्वासु । वरकेवलाइलाभं पत्ता बहुसो समियपावा ॥ ४० ॥ व्याख्या-'सर्वासु' इत्यशेषासु, देशकालचेष्टासु इति योगः, चेष्टा देहावस्था, कि ?-'वर्तमानाः' अवस्थिताः, के ?'मुनयः' प्राग्निरूपितशब्दार्थाः 'यद्' यस्मात्कारणात् , किं ?-वरः-प्रधानश्चासौ केवलादिलाभश्च २ तं प्राप्ता इति, आदिशब्दान्मनःपर्यायज्ञानादिपरिग्रहः, किं सकृदेव प्राप्ताः ?, न, केवलवर्ज 'बहुशः' अनेकशः, किंविशिष्टाः ?--'शान्तपापा' तत्र पातयति नरकादिष्विति पापं शान्तम्-उपशमं नीतं पापं यैस्ते तथाविधा इति गाथार्थः ॥ ४०॥ . तो देसकालचेठानियमो झाणस्स नस्थि समयंमि । जोगाण समाहाणं जह होइ तहा (प)यइयवं ॥ १ ॥ व्याख्या-यस्मादिति पूर्वगाथायामुक्तं तेन सहास्याभिसम्बन्धः, तस्माद्देशकालचेष्टानियमो ध्यानस्य 'नास्ति' न विद्यते, क ?-समये' आगमे, किन्तु 'योगानां' मनःप्रभृतीनां 'समाधान' पूर्वोक्तं यथा भवति तथा (प्र) 'यतितव्यं' (प्र)यत्नः कार्य इत्यत्र नियम एवेति गाथार्थः ॥ ४१ ॥ गतमासनद्वारम्, अधुनाऽऽ लम्बनद्वारावयवार्थप्रतिपादनायाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy