SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 68 आवश्यकहारिभद्रीया व्याख्या-'शङ्कादिदोपरहितः' शङ्कनं-शङ्का, आदिशब्दात् कासादिपरिग्रहः, उक्तं च–'शङ्काकाङ्क्षाविचिकित्साऽन्य. दृष्टिप्रशंसापरपाषण्डसंस्तवाः सम्यग्दृष्टेरतिचाराः ( तत्त्वा० अ०. सू० १८) इति, एतेषां च स्वरूपं प्रत्याख्यानाध्ययने न्यक्षेण वक्ष्यामः, तत्र शङ्कादय एव सम्यक्त्वाख्यप्रथमगुणातिचारत्वात् दोषाः शङ्कादिदोपास्तैः रहितः-त्यक्तः, उक्तदोपरहितत्वादेव, किं ?-प्रश(श्र)मस्थैर्यादिगुणगणोपेतः' तत्र प्रकर्षेण श्रमः प्रश्रमः-खेदः, स च स्वपरसमयतत्त्वाधिगमरूपः, स्थैर्य तु जिनशासने निष्प्रकम्पता, आदिशब्दात्प्रभावनादिपरिग्रहः, उक्तं च-'सपरसमयकोसल्लं थिरया जिणसासणे पभावणया । आययणसेव भत्ती दंसणदीवा गुणा पंच ॥१॥' प्रश्रमस्थैर्यादय एव गुणास्तेषां गणः-समूहस्तेनोपेतो-युक्तो । प्रशमादिना स्थैयादिनाच गुणगणेनोपेतः २, तत्र प्रशमादिगुणगणः-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणः, स्थैर्यादिस्तु दर्शित एव, य इत्थम्भूतः असौ भवति 'असम्मूढमनाः' तत्त्वान्तरेऽभ्रान्तचित्त इत्यर्थः, 'दर्शनशुद्ध्या' उक्तलक्षणया हेतुभूतया, क्क ?-ध्यान इति गाथार्थः ॥ ३२ ॥ उक्ता दर्शनभावना, साम्प्रतं चारित्र भावनास्वरूपगुणदर्शनायेदमाह मवकम्माणायाणं पोराणविणिज्जर सुभायाणं । चारित्तभावणाएमाणमयत्तेण य समेइ ॥ ३३ ॥ व्याख्या-नवकर्मणामनादान'मिति नवानि-उपचीयमानानि प्रत्यग्राणि भण्यन्ते, क्रियन्त इति कर्माणि-ज्ञानाव. रणीयादीनि तेषामनादानम्-अग्रहणं चारित्रभावनया 'समेति' गच्छतीति योगः, तथा 'पुराणविनिर्जरां' चिरन्तनक्षपणा. १ स्वपरसमयकौशलं स्थिरता जिनशासने प्रभावना । आयतनसेवा भक्तिः दर्शनदीपका गुणाः पञ्च ॥१॥ मित्यर्थः, तथा शुभादान'मिति शुभं-पुण्यं सातसम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्रात्मकं तस्याऽऽदानं--ग्रहणं, किं ?-‘चारित्रभावनया' हेतुभूतया, ध्यानं च चशब्दान्नवकर्मानादानादि च 'अयत्नेन' अक्लेशेन ‘समेति' गच्छति प्राप्नोतीत्यर्थः । तत्र चारित्रभावनयेति कोऽर्थः ?-'चर गतिभक्षणयोः' इत्यस्य 'अर्तिलूधूसूखनिसहिचर इत्रन्' (पा० ३-२१८४) इतीत्रन्प्रत्ययान्तस्य चरित्रमिति भवति, चरन्त्यनन्दितमनेनेति चरित्रं-क्षयोपशमरूपं तस्य भावश्चारित्रम्, एतदुक्तं भवति-इहान्यजन्मोपात्ताष्टविधकर्मसञ्चयापचयाय चरणभावश्चारित्रमिति, सर्वसावद्ययोगविनिवृत्तिरूपा क्रिया इत्यर्थः, तस्य भावना-अभ्यासश्चारित्रभावनेति गाथार्थः ॥ ३३ ॥ उक्ता चारित्रभावना, साम्प्रतं वैराग्यभावनास्वरूपगुणदर्शनार्थमाह सुविदियजगरसभावो निस्संगो निभओ निरासो य । वेरग्गभावियमणो झाणमि सुनिचलो होइ ॥ ३४ ॥ व्याख्या-सुप्तु-अतीव विदितः-ज्ञातो जगतः-चराचरस्य, यथोक्त-'जगन्ति जङ्गमान्याहुर्जगद् ज्ञेयं चराचरम्' स्वो भावः स्वभावः,-'जन्म मरणाय नियतं वन्धुर्दुःखाय धनमनिर्वृतये । तन्नास्ति यन्न विपदे तथापि लोको निरालोकः॥१॥' इत्यादिलक्षणो येन स तथाविधः, कदाचिदेवम्भूतोऽपि कर्मपरिणतिवशात्ससङ्गो भवत्यत आह-'निःसङ्गः' विषयजस्नेहसङ्गरहितः, एवम्भूतोऽपि च कदाचित्सभयो भवत्यत आह-'निर्भयः' इहलोकादिसप्तभयविप्रमुक्तः, कदाचिदेवम्भूतोऽपि विशिष्टपरिणत्यभावात्परलोकमधिकृत्य साशंसो भवत्यत आह-'निराशंसश्च' इहपरलोकाशंसाविप्रमुक्तः, चशब्दात्तथाविधक्रोधादिरहितश्च, य एवंविधो वैराग्यभावितमना भवति स खल्वज्ञानाद्युपद्रवरहितत्वाद् ध्याने सुनिश्चलो भवतीति गाथार्थः ॥ ३४ ॥ उक्ता वैराग्यभावना । मूलद्वारगाथाद्वये ध्यानस्य भावना इति व्याख्यातम् , अधुना देशद्वारव्याचिख्यासयाऽऽह निचं चिय जुवइपसूनपुंसगकुसीलवजियं जहणो । ठाणं वियणं भणियं विसेसओ झाणकालं मि ॥ ३५॥ व्याख्या-'नित्यमेव' सर्वकालमेव, न केवलं ध्यानकाल इति, किं ?-'युवतिपशुनपुंसककुशीलपरिवर्जितं यतेः स्थान विजनं भणित'मिति, तत्र युवतिशब्देन मनुष्यस्त्री देवी च परिगृह्यते, पशुशब्देन तु तिर्यक्स्त्रीति नपुंसक-प्रतीत कुत्सितं-निन्दितं शीलं-वृत्तं येषां ते कुशीलाः, ते च तथाविधा द्यूतकारादयः, उक्तं च-'जूइयरसोलमेंठा वट्टा उभायगादिणो जे य । एए होंति कुसीला वज्जेयवा पयत्तेणं ॥ १॥ युवतिश्च पशुश्चेत्यादि द्वन्द्वः, युवत्यादिभिः परि-समन्तात् वर्जितं-रहितमिति विग्रहः, यतेः-तपस्विनः साधो, 'एकग्रहणे तज्जातीयग्रहण'मिति साध्व्याश्च योग्यं यतिनपुंसकस्य च, किं ?-स्थानम्-अवकाशलक्षणं, तदेव विशेष्यते-युवत्यादिव्यतिरिक्तशेषजनापेक्षया विगतजनं विजनं भणितम्-उक्तं तीर्थकरगणधरैश्चेदमेवम्भूतं नित्यमेव, अन्यत्र प्रवचनोक्तदोषसम्भवात, विशेषतो ध्यानकाल इत्यपरिणतयोगादिनाऽन्यत्र ध्यानस्याऽऽराधयितुमशक्यत्वादिति गाथार्थः॥ ३५ ॥ इत्थं तावदपरिणतयोगादीनां स्थानमुक्तम् , अधुना परिणतयोगादीनधिकृत्य विशेषमाह थिरकयजोगाणं पुण मुणीण झाणे सुनिचलमणाणं गामंमि जणाइपणे सुपणे रपणे व ण विसेसो ॥ ३६॥ घृतकाराः कलाला मेपठाश्चहा बहामका इत्यादयो ये च । एते भवन्ति कुशीला बर्जयितव्याः प्रयत्नेन ॥१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy