SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ भावश्यकहारिभद्रीया आत्मनः, किं ?-रौद्रध्यानमिति, इयमत्र चतुष्टयस्यापि क्रिया, किंविशिष्टमिदमित्यत आह-'संसारवर्द्धनम्' ओघतः 'नरकगतिमूलं' विशेषत इति गाथार्थः ॥ २४ ॥ साम्प्रतं रौद्रध्यायिनो लेश्याः प्रतिपाद्यन्ते कावोयनीलकाला लेसाओ तिश्वसंकिलिहाओ। रोहझाणोवगयस्स कम्मपरिणामजणियाओ ॥२५॥ व्याख्या-पूर्ववद् व्याख्येया, एतावाँस्तु विशेष:-तीव्रसंक्लिष्टाः-अतिसंक्लिष्टा एता इति, आह-कथं पुनः रौद्रध्यायी ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयति लिंगाई तस्स उस्सण्णबहुलनाणाविहामरणदोसा । तेसि चिय हिंसाइसु बाहिरकरणोवउत्तस्स ॥२६॥ व्याख्या-'लिङ्गानि' चिह्नानि 'तस्य' रौद्रध्यायिनः, 'उत्सन्नवहुलनानाविधामरणदोषा' इत्यत्र दोषशब्दः प्रत्येकमभिसंबध्यते, उत्सन्नदोषः बहुलदोपः नानाविधदोषः आमरणदोषश्चेति, तत्र हिंसानुबन्ध्यादीनामन्यतरस्मिन् प्रवर्तमान उत्सन्नम्-अनुपरतं बाहुल्येन प्रवर्तते इत्युत्सन्नदोपः, सर्वेष्वपि चैवमेव प्रवर्तत इति बहुलदोषः, नानाविधेषु त्वक्त्वक्षणनयनोत्खननादिषु हिंसाधुपायेध्वस कृदप्येवं प्रवर्तत इति नानाविधदोषः, महदापद्गतोऽपि स्वतः महदापद्गतेऽपि च परे आमरणादसञ्जातानुतापः कालसौकरिकवद् अपि त्वसमाप्तानुतापानुशयपर इत्यामरणदोष इति तेष्वेव हिंसादिषु, आदिशब्दान्मृपावादादिपरिग्रहः, ततश्च तेष्वेव हिंसानुवन्ध्यादिषु चतुर्भेदेषु, किं ?-बाह्यकरणोपयुक्तस्य सत उत्सन्नादिदोषलिङ्गानीति, बाह्यकरणशब्देनेह वाक्कायौ गृह्येते, ततश्च ताभ्यामपि तीव्रमुपयुक्तस्येति गाथार्थः ॥ किं च-- परवसणं अहिनंदइ निरवेक्खो निहओ निरणुतावो । हरिसिज्जइ कयपावो रोज्झाणोवगयचित्तो ॥२७॥ व्याख्या-इहाऽऽत्मव्यतिरिक्तो योऽन्यः स परस्तस्य व्यसनम्-आपत् परव्यसनं तद् 'अभिनन्दति' अतिक्लिष्टचित्तत्वाद्वहु मन्यत इत्यर्थः, शोभनमिदं यदेतदित्थं संवृत्तमिति, तथा 'निरपेक्ष' इहान्यभविकापायभयरहितः, तथा निर्गतदयो निर्दयः, परानुकम्पाशून्य इत्यर्थः, तथा निर्गतानुतापो निरनुतापा, पश्चात्तापरहित इति भावः, तथा किंच-'हष्यते' कृतपापः' निर्तितपापः सिंहमारकवत्, क इत्यत आह-रौद्रध्यानोपगचित्त इति, अमूनि च लिङ्गानि वर्तन्त इति गाथार्थः ॥ २७ ॥ उक्तं रौद्रध्यानं, साम्प्रतं धर्मध्यानावसरः, तत्र तदभिधित्सयैवादाविदं द्वारगाथाद्वयमाह झाणस्स भावणाओ देसं कालं तहाऽऽसणविसेसं । लंबणं कर्म झाइयवयं जे य झायारो ॥२८॥ तत्तोऽणुप्पेहाओ लेस्सा लिंग फलं च नाऊणं । धम्म साइज मुणी तग्गयजोगो तो मुकं ॥ २९॥ व्याख्या-ध्यानस्य' प्राग्निरूपितशब्दार्थस्य, किं ?-'भावना' ज्ञानाद्याः, ज्ञात्वेति योगः, किं च-'देश' तदुचितं, कालं तथा आसनविशेष तदुचितमिति, 'आलम्बन' वाचनादि, 'क्रम' मनोनिरोधादि, तथा 'ध्यातव्यं' ध्येयमाज्ञादि, तथा ये च 'ध्यातारः' अप्रमादादियुक्ताः, ततः "अनुप्रेक्षा' ध्यानोपरमकालभाविन्योऽनित्यत्वाद्यालोचनारूपाः, तथा 'लेश्या:' शुद्धा एव, तथा 'लिङ्गं' श्रद्धानादि, तथा 'फलं' सुरलोकादि, चशब्दः स्वगतानेकभेदप्रदर्शनपरः, एतद् ज्ञात्वा, किं ?'धर्म्यम्' इति धर्मध्यानं ध्यायेन्मुनिरिति, 'तत्कृतयोगः' धर्मध्यानकृताभ्यासः, 'ततः' पश्चात् शुक्लध्यानमिति गाथाद्वयसमासार्थः॥ २८-२९ ॥ व्यासार्थ तु प्रतिद्वारं ग्रन्थकारः स्वयमेव वक्ष्यति, तत्राऽऽद्यद्वारावयवार्थप्रतिपादनायाह पुष्वकयभासो भावणाहि माणस्त जोग्णयमुवेद । तामो य नाणदसणचरित्तवेरग्गजणियाभो ॥३०॥ व्याख्या-पूर्व-ध्यानात् प्रथमं कृतः-निर्वर्तितोऽभ्यासः-आसेवनालक्षणो येन स तथाविधः, काभिः पूर्वकृताभ्यास: ?-'भावनाभिः' करणभूताभिः भावनासु वा-भावनाविषये पश्चादू 'ध्यानस्य अधिकृतस्य 'योग्यताम् अनुरूपताम् 'उपैति' यातीत्यर्थः, 'ताश्च' भावना ज्ञानदर्शनचारित्रवैराग्यनियता वर्तन्ते, नियताः-परिच्छिन्नाः पाठान्तरं वा जनिता इति गाथार्थः ॥ ३० ॥ साम्प्रतं ज्ञानभावनास्वरूपगुणदर्शनायेदभाह गाणे णिचम्भासो कुणइ मणोधारणं विसुद्धिं च । नाणगुणमुणियसारो तो साइ सुनिश्चलमईभो॥३१॥ व्याख्या-'ज्ञाने' श्रुतज्ञाने, नित्य-सदा अभ्यास:-आसेवनालक्षणः 'करोति' निर्वर्तयति, किं ?-मनस:-अन्तःकरणस्य, चेतस इत्यर्थः, धारणम्-अशुभव्यापारनिरोधेनावस्थानमिति भावना, तथा 'विशुद्धिं च तत्र विशोधनं विशुद्धिः, सूत्रार्थयोरिति गम्यते, तां, चशब्दाद्भवनिर्वेदं च, एवं 'ज्ञानगुणमुणितसार' इति ज्ञानेन गुणानां-जीवाजीवाश्रितानां 'गुणपर्यायवत् द्रव्य'मिति (तत्त्वा० अ० ५ सू० ३७) वचनात् पर्यायाणां च तदविनाभाविनां मुणितः-ज्ञातः सार:परमार्थो येन स तथोच्यते, ज्ञानगुणेन वा-ज्ञानमाहात्म्येनेति भावः ज्ञातः सारो येन, विश्वस्येति गम्यते, स तथाविधा, ततश्च पश्चाद् ध्यायति' चिन्तयति, किंविशिष्टः सन् ?-सुष्टु-अतिशयेन निश्चला-निष्पकम्पा सम्यग्ज्ञानतोऽन्यथाप्रवृत्तिकम्परहितेति भावः मतिः-बुद्धिर्यस्य स तथाविध इति गाथार्थः ।। ३१ ॥ उक्ता ज्ञानभावना, साम्प्रतं दर्शनभावना. स्वरूपगुणदर्शनार्थमिदमाहसकाइदोसरहिमओ पसमथेजाइगुणगणोवेओ। होइ असंमूढमणो दसणसुद्धी' झाणं मि ॥३२॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy