SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 66 आवश्यकहारिभद्रीया वेधस्तु नासिकादिवेधन कीलिकादिभिः बन्धन-संयमनं रज्जुनिगडादिभिः दहनं-प्रतीतमुल्मुकादिभिः अङ्कन-लाञ्छनं श्वगालचरणादिभिः मारणं-प्राणवियोजनमसिशक्तिकुन्तादिभिः, आदिशब्दादागाढपरितापनपाटनादिपरिग्रहः, एतेषु प्रणिधानम्-अकुर्वतोऽपि करणं प्रति दृढाध्यवसानमित्यर्थः, प्रकरणाद् रौद्रध्यानमिति गम्यते, किंविशिष्टं प्रणिधानम् ?'अतिक्रोधग्रहग्रस्तम्' अतीवोत्कटो यः क्रोधा-रोषः स एवापायहेतुत्वाद्रह इव ग्रहस्तेन प्रस्तम्-अभिभूतं, क्रोधग्रहणाच मानादयो गृह्यन्ते, किंविशिष्टस्य सत इदमित्यत आह-निघृणमनसः' निघृणं-निर्गतदयं मन:-चित्तमन्तःकरणं यस्य स निर्पणमनास्तत्य, तदेव विशेष्यते-'अधमविपाक'मिति अधमा-जघन्यो नरकादिप्राप्तिलक्षणो विपाका-परिणामो यस्य तत्तथाविधमिति गाथार्थः ॥ १९ ॥ उत्तर प्रथमो भेदः, साम्प्रतं द्वितीयममिधिरसुराह पिसुणासम्भासम्भूषभूषमापाइपणपणिहाणं । मायाषिणोभसंभणपरस्स पच्छापावत्स ॥२०॥ व्यास्या-'पिशुनासभ्यासतभूतपातादिवचनप्रणिधान'मित्यत्रानिष्टत्य सूचकं पिशुनं पिशुनमनिष्टसूचक 'पिशुन सूचक विदु'रिति वचनात्, सभायां साधु सभ्यं न सम्पमसभ्य-जकारमकारादि न सतमसतमनृतमित्यर्थः, तब व्यवहारनयदर्शनेनोपाधिभेदतनिधा, तपथा-अभूतोनावनं भूतनिहवोऽर्थान्तराभिधानं चेति, तत्राभूतोदावन यथासर्वगतोऽयमात्मेत्यादि, भूतनिहवस्तु नास्त्येवात्मेत्यादि, गामवमित्यादि अवतोऽर्थान्तराभिधानमिति, भूतानां-सस्थानामुपधातो यस्मिन् तभूतोपघातं, छिन्छि भिन्द्धि व्यापादय इत्यादि, आदिशब्दः प्रतिभेदं स्वगतानेकभेदर्शनार्थी, यथापिशुनमनेकधाऽनिष्टसूचकमित्यादि, तत्र पिशुनादिवचनेष्वप्रवर्तमानस्यापि प्रवृत्ति प्रति प्रणिधानं-दृढाध्यवसानलक्षणं, रौद्रध्यानमिति प्रकरणागम्यते, किंविशिष्टस्य सत इत्यत आह-माया-निकृतिः साऽस्यास्तीति मायावी तस्य मायाविनोपणिजादे, तथा 'अतिसन्धानपरस्य' परपश्चनाप्रवृत्तस्य,अनेनाशेषेष्वपि प्रवृत्तिमप्या(स्या)ह, तथा 'प्रच्छन्नपापस्य' कूटप्रयोगकारिणस्तस्यैव, अथवा धिग्जातिककुतीथिकादेरसद्भूतगुणं गुणवन्तमात्मानं ख्यापयतः, तथाहि-गुणरहितमप्यारमान यो गुणवन्त ख्यापयति न तस्मादपरः प्रच्छन्नपापोऽस्तीति गाथार्थः॥२०॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयति तह तिघकोहलोहारलस भूगोवधायणमणज । परवबहरणविसं परलोयावानिरवेक्वं ॥ २१ ॥ व्याख्या-तथाशब्दो वाध्यवसायप्रकारसाहश्योपदर्शनार्थी, तीनौ-उत्कटौ तौ क्रोधलोभी च २ ताभ्यामाकुलाअभिभूतस्तस्य, जन्तोरिति गम्यते, किं ?-'भूतोपहननमनार्य'मिति हन्यतेऽनेनेति हननम् उप-सामीप्येन हननम् उपहननं भूतानामुपहननं भूतोपहननम् , आराद्यातं सर्वहेयधर्मेभ्य इत्याय नाऽऽर्थमनार्य, किं तदेवंविधमित्यत आह-परद्रव्यहरणचित, रौद्रयानमिति गम्पते, परेषां द्रव्य २ सचित्तादि तद्विषय हरणचित्त २ परद्रव्यहरणचित्त, तदेव विशेष्यतेकिम्भूतं तदित्यत आह-परलोकापायनिरपेक्ष'मिति, तत्र परलोकापाया:-नरकगमनादयस्त भिरपेक्षमिति गाथार्थः ॥२१॥ कस्तृतीयो भेदा, साम्प्रतं चतुर्थ भेदमुपदर्शयन्नाह सदाइविसयसाहणणसारक्मणपरायणमणिडं । समाभिसंकणपरोपायकलुसारकं चित्तं ॥२२॥ व्याख्या-शब्दादयश्च ते विषयाश्च शब्दादिविषयास्तेषांसाधनं कारण शब्दादिविषयसाधनं च (तच्च) तद्धनं च शब्दा. दिविषयसाधनधनं तत्संरक्षणे-तत्परिपालने परायणम्-उद्युक्तमिति विग्रहः,तथाऽनिष्टं-सतामनभिलषणीयमित्यर्थः, इदमेव विशेष्यते-सर्वेषामभिशङ्कनेनाकुलमिति संबध्यते-न विद्मः कः किं करिष्यतीत्यादिलक्षणेन, तस्मात्सर्वेषां यथाशक्त्योपघात एव श्रेयानित्येवं परोपघातेन च, तथा कलुषयन्त्यात्मानमिति कलुषा:-कषायास्तैराकुलं-व्या यत् तत् तथोच्यते, चित्तम्-अन्तःकरणं, प्रकरणाद्रौद्रध्यानमिति गम्यते, इह च शब्दादिविषयसाधनं धनविशेषणं किल श्रावकस्य चैत्यधनसंरक्षणे न रौद्रध्यानमिति ज्ञापनार्थमिति गाथार्थः ॥ २२ ॥ साम्प्रतं विशेषणाभिधानगर्भमुपसंहरनाह य करणकारणाणुमहबिसयमणुचितणं चम्भेयं । अविरयदेसासंजयजणमणसंसेवियमहणं ॥२३॥ व्याख्या-'इय' एवं करणं स्वयमेव कारणमन्यैः कृतानुमोदनमनुमतिः करणं च कारणं चानुमतिश्च करणकारणानुमतयः एता एव विषया-गोचरो यस्य तत्करणकारणानुमतिविषयं, किमिदमित्यत आह-'अनुचिन्तनं' पर्यालोचनमित्यर्थः, 'चतुर्भेद' इति हिंसानुबन्ध्यादि चतुष्प्रकारं, रौद्रध्यानमिति गम्यते, अधुनेदमेव स्वामिद्वारेण निरूपयति-अविरताः-सम्यग्दृष्टयः, इतरे च देशासंयता:-श्रावका, अनेन सर्वसंयतव्यवच्छेदमाह, अविरतदेशासंयता एव जनाः २ तेषां मनांसि-चित्तानि तैः संसेवितं, सञ्चिन्तितमित्यर्थः, मनोग्रहणमित्यत्र ध्यानचिन्तायां प्रधानाङ्गख्यापनार्थम्, 'अधन्य'मित्यश्रेयस्करं पापं निन्द्यमिति गाथार्थः ॥२३॥ अधुनेदं यथाभूतस्य भवति यवर्द्धनं चेदमिति तदेतदभिधातुकाम आह एवं चरविहं रागदोसमोहायकस्स जीवस्स रोइज्माणं संसारवद्धणं नरयगइमूलं ॥ २५॥ व्याख्या-'एतद्' अनन्तरोतं चतुर्विधं चतुष्प्रकारं रागद्वेषमोहाङ्कितस्य आकुलस्य वेति पाठान्तरं, कस्य १-'जीवस्य' Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy