SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ 65 __ आवश्यकहारिभद्रीया चित्तशुद्धेः क्रियाप्रवृत्तियोगाचेत्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थविस्तरभयादिति गाथार्थः ॥ १२ ॥ अन्ये पुनरिद गाथादयं चतर्भेदमण्यार्तध्यानमधिकृत्य साधोः प्रतिषेधरूपतया व्याचक्षते, न च तदत्यन्तसुन्दरं, प्रथमतृतीयपक्षद्वये सम्यगाशङ्काया एवानुपपत्तेरिति । आह-उक्तं भवताऽऽर्तध्यानं संसारवर्द्धनमिति, तत्कथम् ?, उच्यते-बीजत्वात् , बीजत्वमेव दर्शयन्नाह रागो दोसो मोहो य जेण संसारहेयवो भणिया । महमि य ते तिषिणवि तो तं संसारतरुवीयं ॥१३॥ ज्याख्या-रागो द्वेषो मोहश्च येन कारणेन 'संसारहेतवः' संसारकारणानि 'भणिता' उक्ताः परममुनिभिरिति गम्यते, च ते 'त्रयोऽपि'रागादयःसंभवन्ति. यत एवं ततस्तत 'संसारतरुबीज' भववृक्षकारणमित्यर्थः। आहयद्येवमोघत एव संसारतरुबीजं ततश्च तिर्यग्गतिमूलमिति किमर्थमभिधीयते ?, उच्यते, तिर्यग्गतिगमननिबन्धनत्वेनैव संसारतरुबीजमिति, अन्ये तु व्याचक्षते-तिर्यग्गतावेव प्रभूतसत्त्वसम्भवात् स्थितिबहुत्वाच्च संसारोपचार इति गाथार्थः ॥१३॥ इदानीमार्तध्यायिनो लेश्याः प्रतिपाद्यन्ते काचोयनीलकालालेस्साओ णाइसंविलिट्ठाओ। अज्झागोवगयस्स कम्मपरिणामजणिभात्रो॥१४॥ व्याख्या-कापोतनीलकृष्णलेश्याः, किम्भूताः?-'नातिसंक्लिष्टा' रौद्रध्यानलेश्यापेक्षया नातीवाशुभानुभावा भवन्तीति क्रिया, कस्येत्यत आह-आर्तध्यानोपगतस्य, जन्तोरिति गम्यते, किंनिबन्धना एता इत्यत आह-कर्मपरिणामजनिताः, तत्र-'कृष्णादिद्रव्यसाचिव्यात् , परिणामो य आत्मनः । स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥१॥ एताः कर्मोदयायत्ता इति गाथार्थः ॥ २४ ॥ आह-कथं पुनरोघत एवाऽऽर्तध्याता ज्ञायत इति ?, उच्यते, लिङ्गेभ्यः, तान्येवोपदर्शयन्नाह तस्सऽकंदणसोयणपरिदेवणताडणाई लिंगाई । इहाणिविओगाविओगवियणानिमित्ताई ॥१५॥ व्याख्या-'तस्य' आर्तध्यायिनः आक्रन्दनादीनि लिङ्गानि, तत्राऽऽक्रन्दनं-महता शब्देन विरवणं, शोचनं त्वश्रुपरिपूर्णनयनस्य दैन्य, परिदेवनं-पुनः २ क्लिष्टभाषणं, ताडनम्-उरःशिरःकुट्टनकेशलुश्चनादि, एतानि 'लिङ्गानि' चिह्नानि, अमूनि च इष्टानिष्टवियोगावियोगवेदनानिमित्तानि, तवेष्टवियोगनिमित्तानि तथाऽनिष्टावियोगनिमित्तानि तथा वेदनानिमित्तानि चेति गाथार्थः ॥ १५ ॥ किं चान्यत् निंदह य नियकयाई पसंसइ सविम्हओ विभूईओ। परथेइ तासु रजह सयजणपरायणो होइ ॥ १६ ॥ व्याख्या-निन्दति च' कुत्सति च 'निजकृतानि' आत्मकृतानि अल्पफलविफलानि कर्मशिल्पकलावाणिज्यादीन्येतद्गम्यते, तथा 'प्रशंसति' स्तौति वहुमन्यते 'सविस्मयः' साश्चर्यः 'विभूती' परसम्पद इत्यर्थः, तथा 'प्रार्थयते' अभिलपति परविभूतीरिति, 'तासु रज्यते' तास्विति प्राप्तासु विभूतिपुरागं गच्छति, तथा 'तदर्जनपरायणो भवति' तासां-विभूतीनामर्जने-उपादाने परायण-उद्युक्तः तदर्जनपरायण इति, ततश्चैवम्भूतोभवति, असावप्यार्तध्यायीति गाथार्थः ॥१६॥ किं च सद्दाइविसथगिद्धो सद्धम्मपरम्मुहो एमायपरो । जिणमयमणवेषखतो वहइ अमि झाणमि ॥ १७ ॥ व्याख्या-शब्दादयश्च ते विषयाश्च तेषु गृद्धो-मच्छितः कासावानित्यर्थः, तथा सद्धर्मपराङ्मुखः प्रमादपरः, तत्र दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः संश्चासौ धर्मश्च सद्धर्म:-क्षान्त्यादिकश्चरणधर्मो गृह्यते ततः पराङ्मुखः, 'प्रमादपरः' मद्यादिप्रमादासक्तः, 'जिनमतमनपेक्षमाणो वर्तते आर्तध्याने' इति तत्र जिनाः-तीर्थकरास्तेषां मतम्-आगमरूपं प्रवचनमित्यर्थः तदनपेक्षमाणः-तन्निरपेक्ष इत्यर्थः, किम् ?-वर्त्तते आर्तध्याने इति गाथार्थः ॥१७॥ साम्प्रतमिदमार्तध्यानं सम्भवमधिकृत्य यदनुगतं यदनर्ह वर्तते तदेतदभिधित्सुराह तदविरयदेसविरया पमायपरसंजयाणुगं झाणं । सबप्पमायमूलं वजेयत्र जहजणेणं ॥ १८ ॥ व्याख्या-'तद्' आर्तध्यानमिति योगः, 'अविरतदेशविरतप्रमादपरसंयतानुग'मिति तत्राविरता-मिथ्यादृष्टयः सम्यदृष्टयश्च देशविरता:-एकव्याधणुव्रतधरभेदाः श्रावकाः प्रमादपरा:-प्रमादनिष्ठाश्च ते संयताश्च २ ताननुगच्छतीति विग्रहः, नवाप्रमत्तसंयतानिति भावः, इदं च स्वरूपतः सर्वप्रमादमूलं वर्तते, यतश्चैवमतो 'वर्जयितव्यं' परित्यजनीय, केन ?-'यतिजनेन' साधुलोकेन, उपलक्षणत्वात् श्रावकजनेन, परित्यागार्हत्वादेवास्येति गाथार्थः ॥ १८ ॥ उक्तमार्तध्यानं, साम्प्रतं सैद्रध्यानावसरः, तदपि चतुर्विधमेव, तद्यथा-हिंसानुवन्धि मृषानुबन्धि स्तेयानुबन्धि विषयसंरक्षणानुबन्धि च, उक्तं चोमाखातिवाचकेन-"हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्र"मित्यादि ( तत्त्वार्थे अ० ९-सू० ३६)॥ तत्राऽऽद्यभेदप्रतिपादनायाह सत्सवहयेहबंधणडहणंकणमारणाइपणिहाणं । अइकोहग्गहधत्थं निग्विणमणसोऽहमविवागं ॥ १९॥ व्याख्या-सत्त्वा-एकेन्द्रियादयः तेषां पधवेधवन्धनदहनाङ्कनमारणादिप्रणिधानं तत्र वधः-ताडनं करकशलतादिभिः For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy