SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 64 आवश्यक हारिभद्रीया इष्टाया इति वर्तते, किम् ? - अवियोगाध्यवसानमिति योगः, अविप्रयोगदृढाध्यवसाय इति भावः अनेन वर्तमानकालग्रहः, तथा संयोगाभिलाषश्चेति, तत्र 'तथेति' धणियमित्यनेनात्यर्थप्रकारोपदर्शनार्थः, संयोगाभिलाषः - कथं ममैभिर्विषयादिभिरायत्यां सम्बन्ध इतीच्छा, अनेन किलानागतकालग्रह इति वृद्धा व्याचक्षते, चशब्दात् पूर्ववदतीतकालग्रह इति, किंविशिष्टस्य सत इदमवियोगाध्यवसानाद्यत आह-रागरक्तस्य जन्तोरिति गम्यते, तत्राभिष्वङ्गलक्षणो रागस्तेन रक्तस्यतद्भावितमूर्तेरिति गाथार्थः ॥ ८ ॥ उक्तस्तृतीयो भेदः, साम्प्रतं चतुर्थमभिधित्सुराह - देविंदचकवहित्तणाइ गुणरिद्विपस्थणमयं । अहमं नियाणचित्णमण्णाणाणुगयमचं ॥ ९ ॥ व्याख्या - दीव्यन्तीति देवाः - भवनवास्यादयस्तेषामिन्द्राः - प्रभवो देवेन्द्राः - चमरादयः तथा चक्रं - प्रहरणं तेन विजयाधिपत्ये वर्तितुं शीलमेषामिति चक्रवर्तिनो - भरतादयः, आदिशब्दाद्बलदेवादिपरिग्रहः अमीषां गुणऋद्धयः देवेन्द्रचक्रवर्त्यादिगुणर्द्धयः, तत्र गुणाः- सुरूपादयः ऋद्धिस्तु विभूतिः, तत्प्रार्थनात्मकं तथाव्यामयमित्यर्थः, किं तद् ? - ' अधर्म' जघन्यं 'निदान चितनं' निदानाध्यवसायः, अहमनेन तपस्त्यागादिना देवेन्द्रः स्यामित्यादिरूपः, आह- किमितीदमधमम् १, उच्यते, यस्मादज्ञानानुगतमत्यन्तं तथा च नाज्ञानिनो विहाय सांसारिकेषु सुखेष्वन्येषामभिलाष उपजायते, उक्तं च- 'अज्ञानान्धाश्चदुलवनितापाङ्गविक्षेपितास्ते, कामे सक्तिं दधति विभवाभोगङ्गार्जने वा । विद्वच्चित्तं भवति च महत् मोक्षकाद्वैकतानं, नापस्कन्धे विटपिनि कषत्यंसभित्तिं गजेन्द्रः || १ ||' इति गाथार्थः ॥ ९ ॥ उक्तश्चतुर्थो भेदः, साम्प्रतमिदं यथाभूतस्य भवति यद्वर्द्धनं वेदमिति तदेतदभिधातुकाम आह— एयं चहिं रामदोसमोहंकियस्स जीवस्स । भट्टज्झाणं संसारवद्वणं तिरियगइमूलं ॥ १० ॥ व्याख्या- 'एतद्' अनन्तरोदितं 'चतुर्विधं' चतुष्प्रकारं 'रागद्वेषमोहाङ्कितस्य' रागादिलाञ्छितस्येत्यर्थः, कस्य :'जीवस्य' आत्मनः किम् ? - आर्तध्यानमिति, तथा च इयं चतुष्टयस्यापि क्रिया, किंविशिष्टमित्यत आह- संसारवर्द्धन - मोघतः, तिर्यग्गतिमूलं विशेषत इति गाथार्थः ॥ १० ॥ आह- साधोरपि शूलवेदनाभिभूतस्यासमाधानात् तत्प्रतिकारकरणे च तद्विप्रयोगप्रणिधानापत्तेः तथा तपःसंयमासेवने च नियमतः सांसारिकदुःखवियोगप्रणिधानादार्तध्यानप्राप्तिरिति, अत्रोच्यते, रागादिवशवर्तिनो भवत्येव, न पुनरन्यस्येति, आह च ग्रन्थकारः मत्स्स उ मुणिणो सकम्मपरिणामजणिय मेयंति । वत्थुस्सभावचिंतणपरस्स समं सहतस्य ॥ ११ ॥ व्याख्या - मध्ये तिष्ठतीति मध्यस्थः, रागद्वेषयोरिति गम्यते, तस्य मध्यस्थस्य, तुशब्द एवकारार्थः, स चावधारणे, मध्यस्थस्यैव नेतरस्य, मन्यते जगतस्त्रिकालावस्थामिति मुनिस्तस्य मुनेः, साधोरित्यर्थः, स्वकर्मपरिणामजनितमेतत्-शूलादि, यच्च प्राक्कर्मविपरिणामिदैवादशुभमापतति न तत्र परितापाय भवन्ति सन्तः, उक्तं च परममुनिभिः - 'पुषिं खलु भो ! कडाणं कम्माणं दुञ्चिण्णाणं दुष्पडिक्कंताणं वेइत्ता मोक्खो, नत्थि अवेदइत्ता, तवसा वा झोसइत्ते 'त्यादि, एवं वस्तुस्वभावचिन्तन परस्य 'सम्यक्' शोभनाध्यवसायेन सहमानस्य सतः कुतोऽसमाधानम् ?, अपि तु धर्म्यमनिदानमिति वक्ष्यतीति गाथार्थः ॥ ११ ॥ परिहृत आशङ्कागतः प्रथमपक्षः, द्वितीयतृतीयावधिकृत्याह १ पूर्व खलु भोः कृतानां कर्मणां दुश्रीणांनां दुष्प्रतिक्रान्तानां वेदयित्वा मोक्षो नास्त्य वेदयित्वा तपसा वा क्षपयित्वा कुणओ व पसत्थालवणस्स पडियारमध्पसावजं । तवसंजमपढियारं च सेवभो धम्ममणियाणं ॥ १२ ॥ व्याख्या - कुर्वतो वा, कस्य ? - प्रशस्तं - ज्ञानाद्युपकारकम् आलम्ब्यत इत्यालम्बनं प्रवृत्तिनिमित्तं शुभमध्यवसान मित्यर्थः, उक्तं च- 'काहं अछित्तिं अदुवा अहीहं, तवोवहाणेसु य उज्जमिस्सं । गणं च णीती अणुसार वेरसं, सालंब सेवी समुवेइ मोक्खं ॥ १ ॥ इत्यादि, यस्यासौ प्रशस्तालम्बनस्तस्य किं कुर्वत इत्यत आह- 'प्रतीकारं ' चिकित्सालक्षणं, किंविशिष्टम् ? - 'अल्पसावद्यम् ' अवधं - पापं सहावद्येन सावद्यम्, अल्पशब्दोऽभाववचनः स्तोकवचनो वा, अल्पं सावद्यं यस्मिन्नसावल्पसावधस्तं, धर्म्यमनिदानमेवेति योगः, कुतः १ - निर्दोषत्वात्, निर्दोषत्वं च वचनप्रामाण्याद्, उक्तं च- 'गीयत्थो जयणाए कडजोगी कारणंमि निद्दोसो' तीत्याद्यागमस्योत्सर्गापवादरूपत्वाद्, अन्यथा परलोकस्य साधयितुमशक्यत्वात्, साधु चैतदिति, तथा 'तपःसंयमप्रतिकारं च सेवमानस्ये'ति तपःसंयमावेव प्रतिकारस्तपःसंयमप्रतिकारः, सांसारिकदुःखानामिति गम्यते, तं च सेवमानस्य, चशब्दात्पूर्वोक्तप्रतिकारं च किं १ - 'धर्म्य' धर्मध्यानमेव भवति, कथं सेवमानस्य ? - 'अनिदान' मिति क्रियाविशेषणं, देवेन्द्रादिनिदानरहितमित्यर्थः, आह- कृत्स्नकर्मक्षयान्मोक्षो भवत्वितीदमपि निदानमेव, उच्यते, सत्यमेतदपि निश्चयतः प्रतिषिद्धमेव, कथं १- मोक्षे भवे च सर्वत्र, निस्पृहो मुनिसत्तमः । प्रकृत्याऽभ्यासयोगेन, यत उक्तो जिनागमे ॥ १ ॥ इति, तथापि तु भावनायामपरिणतं सत्त्वमङ्गीकृत्य व्यवहारत इदमदुष्टमेव, अनेनैव प्रकारेण तस्य १ करिष्याम्यच्छित्तिमथवाध्येत्ये तपउपधानयोश्रोचंस्यामि । गणं च नीत्या सारयिष्यामि सालम्ब सेवी समुपैति मोक्षम् ॥ १ ॥ गीतार्थो यतनया कृतयोगी कारणे निर्दोषः. Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy