________________
63
भावश्यवहारिभद्रीया ना पाम् , अशक्यत्वादित्यलं विस्तरेण, यथा चायं योगनिरोधो जिनानां ध्यानं यावन्तं च कालमेतद्भवत्येतदपरिष्टाद्धक्ष्याम इति गाथार्थः ॥ ३ ॥ साम्प्रतं छद्मस्थानामन्तर्मुहूर्तात् परतो यद्भवति तदुपदर्शयन्नाह
अंतोमुहत्तपरओ चिंता झाणंतरं व होजाहि । सुचिरपि होज बहुवत्थुसंकमे माणसंताणो ॥ व्याख्या-'अन्तर्मुहूर्तात् परत' इति भिन्नमुहूर्तादूर्व 'चिन्ता' प्रागुक्तस्वरूपा तथा ध्यानान्तरं वा भवेत, तत्रेह न ध्यानादन्यद् ध्यानं ध्यानान्तरं परिगृह्यते, किं तर्हि ?-भावनानुप्रेक्षात्मक चेत इति, इदं च ध्यानान्तरं तदुत्तरकालभाविनि ध्याने सति भवति, तत्राप्ययमेव न्याय इतिकृत्वा ध्यानसन्तानप्राप्तिर्यतः अतस्तमेव कालमानं वस्तुसङ्कमद्वारेण नि. रूपयन्नाह-'सुचिरमपि' प्रभूतमपि, कालमिति गम्यते, भवेत् बहुवस्तुसङ्क्रमे सति 'ध्यानसन्तानः' ध्यानप्रवाह इति, तत्र बहूनि च तानि वस्तूनि २ आत्मगतपरगतानि गृह्यन्ते, तत्रात्मगतानि मनःप्रभृतीनि परगतानि द्रव्यादीनीति, तेषु सङ्क्रमः सञ्चरणमिति गाथार्थः ॥ ४ ॥ इत्थं तावत् सप्रसङ्गं ध्यानस्य सामान्येन लक्षणमुक्तम् , अधुना विशेषलक्षणाभिधित्सया ध्यानोद्देशं विशिष्टफलभावं च संक्षेपतः प्रदर्शयन्नाह
अहं रुई धम्म सुक्कं झाणाइ तत्थ अंताई । निष्वाणसाहणाई भवकारणमहरुबाई ॥ ५ ॥ व्याख्या-आर्त रौद्रं धर्म्य शुक्ल, तत्र ऋतं-दुःखं तन्निमित्तो दृढाध्यवसायः, ऋते भवमात क्लिष्टमित्यर्थः, हिंसाद्यतिौर्यानुगतं रौद्र, श्रुतचरणधर्मानुगतं धर्म्य, शोधयत्यष्टप्रकारं कर्ममलं शुचं वा क्लमयतीति शुक्लम् , अमूनि ध्यानानि वर्तन्ते, अधुना फलहेतुत्वमुपदर्शयति-तत्र' ध्यानचतुष्टये 'अन्त्ये' चरमे सूत्रक्रमप्रामाण्याद्धर्मशक्ले इत्यर्थः, किं ?-'निर्वाणसाधने' इह निर्वृतिः निर्वाणं-सामान्येन सुखमभिधीयते तस्य साधने-करणे इत्यर्थः, ततश्च-'अट्टैणं तिरिक्तगई रुद्दज्झाणेण गम्मती नरयं । धम्मेण देवलोयं सिद्धिगई सुक्कझाणेणं ॥१॥ति यदुक्तं तदपि न विरुध्यते, देवगतिसिद्धिगत्योः सामान्येन सुखसिद्धेरिति, अथापि निर्वाणं मोक्षस्तथापि पारम्पर्येण धर्मध्यानस्यापि तत्साधनत्वादविरोध इति, तथा 'भवकारणमातरौद्रे' इति तत्र भवन्त्यस्मिन् कर्मवशवर्तिनः प्राणिन इति भवः-संसार एव, तथाऽप्यत्र व्याख्यानतो विशेषप्रतिपत्तिः(त्तः)तिर्यग्नरकभवग्रह इति गाथार्थः ॥५॥ साम्प्रतं 'यथोद्देशस्तथा निर्देश' इति न्यायादार्तध्यानस्य स्वरूपाभिधानावसरः, तच्च स्वविषयलक्षणभेदतश्चतुर्की, उक्तं च भगवता वाचकमुख्येन-"आर्तममनोज्ञानां सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ वेदनायाश्च ॥ विपरीतं मनोज्ञादीनां ॥ निदानं च ॥ (तत्त्वा० अ०९ सू० ३१-३२३३-३४) इत्यादि, तत्राऽऽद्यभेदप्रतिपादनायाह
अमणुषणाणं सदाइविसयवस्थूण दोसमहलस्स । धणियं विभोगचिंतणमसंपओगाणुसरणं च ॥ ६ ॥ व्याख्या-'अमनोज्ञानामिति मनसोऽनुकूलानि मनोज्ञानि इष्टानीत्यर्थः न मनोज्ञानि अमनोज्ञानि तेषां, केषामित्यत आह-'शब्दादिविषयवस्तूना'मिति शब्दादयश्च ते विषयाश्च, आदिग्रहणाद्वर्णादिपरिग्रहः, विषीदन्ति एतेषु सक्ताः प्राणिन इति विषया इन्द्रियगोचरा वा, वस्तूनि तु तदाधारभूतानि रासभादीनि, ततश्च-शब्दादिविषयाश्च वस्तूनि चेति विग्रहस्तेपां, किं ?-सम्प्राप्तानां सतां 'धणिय' अत्यर्थ 'वियोगचिन्तन' विप्रयोगचिन्तेति योगः, कथं नु नाम ममैभिर्वि
आतेन तिर्यग्गतिः रौद्ध्यानेन गम्यते नरकः । धर्मेण देवलोकः सिद्धिगतिः शुक्लध्यानेन ॥१॥ योगः स्यादिति भावः ?, अनेन वर्तमानकालग्रहः, तथा सति च वियोगेऽसम्प्रयोगानुस्मरणं, कथमेभिः सदैव सम्प्रयोगाभाव इति ?, अनेन चानागतकालग्रहः, चशब्दात् पूर्वमपि वियुक्तासम्प्रयुक्तयोर्बहुमतत्वेनातीतकालग्रह इति, किंविशिष्टस्य सत इदं वियोगचिन्तनाद्यत आह-द्वेषमलिनस्य' जन्तोरिति गम्यते, तत्राप्रीतिलक्षणो द्वेषस्तेन मलिनस्य-तदाक्रान्तमूर्तेरिति गाथार्थः ॥ ६ ॥ उक्तः प्रथमो भेदः, साम्प्रतं द्वितीयमभिधित्सुराह
तह सूलसीसरोगाइवेयणाए व(वि) जोगपणिहाणं । तदसंपभोगचिंता तप्पडियाराजलमणस्स ॥७॥ व्याख्या-'तथेति धणियम्-अत्यर्थमेव, शूलशिरोरोगवेदनाया इत्यत्र शूलशिरोरोगी प्रसिद्धौ, आदिशब्दाच्छेपरोगातङ्कपरिग्रहः, ततश्च शूलशिरोरोगादिभ्यो वेदना २, वेद्यत इति वेदना तस्याः, किं ?-'वियोगप्रणिधानं' वियोगे दृढाध्यवसाय इत्यर्थः, अनेन वर्तमानकालग्रहः, अनागतमधिकृत्याह-'तदसम्प्रयोगचिन्ते'ति तस्याः-वेदनायाः कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता, कथं पुनर्ममानया आयत्यां सम्प्रयोगो न स्यादिति ?, चिन्ता चात्र ध्यानमेव गृह्यते, अनेन च वर्तमानानागतकालग्रहणेनातीतकालग्रहोऽपि कृत एव वेदितव्यः, तत्र च भावनाऽनन्तरगाथायां कृतव, किंविशिष्टस्य सत इदं वियोगप्राणिधानाधत आह-तत्प्रतिकारे-वेदनाप्रतिकारे चिकित्सायामाकुलं-व्यग्रं मन:-अन्तःकरणं यस्य स तथाविधस्तस्य, वियोगप्रणिधानाद्यातध्यानमिति गाथार्थः ॥ ७॥ उक्तो द्वितीयो भेदः, साम्प्रतं तृतीयमुपदर्शयन्नाह
इहाणं विसयाईण वेयणाए य रागरत्तस्स । अवियोगजझवसाणं तह संजोगाभिलासो य॥८॥ व्याख्या-'इष्टानां' मनोज्ञानां विषयादीनामिति विषयाः-पूर्वोक्ताः आदिशब्दाद् वस्तुपरिग्रहः, तथा 'वेदनायाश्च'
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org