SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ 62 आवश्यकहारिभद्रीया श्वरं वा तत्र युज्यन्त इति योगा:-मनोवाकायव्यापारलक्षणाः तैरीश्वरः-प्रधानस्तं, तथाहि-अनुत्तरा एव भगवतो मनोवाकायव्यापारा इति, यथोक्तम्-'दधमणोजोएणं मणणाणीणं अणुत्तराणं च । संसयवोच्छित्तिं केवलेण नाऊण सइ कुणइ ॥१॥ रिभियपयक्खरसरला मिच्छितरतिरिच्छसगिरपरिणामा । मणणिवाणी वाणी जोयणनिहारिणी जंच॥२॥ एका य अणेगेसि संसयवोच्छेयणे अपडिभूया । न य णिविजइ सोया तिप्पइ सवाउएणंपि ॥ ३ ॥ सबसुरेहिंतोवि हु अहिगो कतो य कायजोगो से । तहवि य पसंतरूवे कुणइ सया पाणिसंघाए ॥४॥' इत्यादि, युज्यते वाऽनेन केवल ज्ञानादिना आत्मेति योग:--धर्मशुक्लध्यानलक्षणः स येषां विद्यत इति योगिनः-साधवस्तरीश्वरः, तदुपदेशेन तेषां प्रवृत्तेस्तत्सम्बन्धादिति, तेषां वा ईश्वरो योगीश्वरः, ईश्वरः प्रभुः स्वामीत्यनान्तरं, योगीश्वरम् , अथवा योगिस्मर्य-योगिचिन्त्यं ध्येयमित्यर्थः, पुनरपि स एव विशेष्यते-शरण्यं,तत्र शरणे साधुः शरण्यस्तं-रागादिपरिभूताश्रितसत्त्ववत्सलं रक्षकमित्यर्थः, ध्यानाध्ययनं प्रवक्ष्यामीत्येतद् व्याख्यातमेव । अत्राऽऽह-यः शुक्लध्यानाग्निना दग्धकर्मेन्धनः स योगेश्वर एव यश्च योगेश्वरः स शरण्य एवेति गतार्थे विशेषणे, न,अभिप्रायापरिज्ञानाद,इह शुक्लध्यानाग्निना दग्धकर्मेन्धनः सामान्यकेवल्यपि भवति, नत्वसौ योगेश्वरः, वाकायातिशयाभावात् , स एव च तत्त्वतः शरण्य इति ज्ञापनार्थमेवादुष्टमेतदपि, तथा चोभयपदव्य द्रव्यमनोयोगेन मनोज्ञानिनामनुत्तराणां च । संशयव्युच्छित्ति केवलेन ज्ञात्वा सदा करोति ॥१॥ रिभितपदाक्षरसरला म्लेच्छेतरतिर्यस्वगी. परिणामा । मनोनिर्वापिणी वाणी योजनव्यापनी यच्च ॥२॥ एका चाने केषां संशयन्युच्छेदनी अपरिभूता । न च निर्विद्यते श्रोता तृप्यति सर्वायुषाऽपि ॥२॥ सर्वसुरेभ्योऽपि अधिकः कान्तश्च काययोगस्तस्य । तथापि च प्रशान्तरूपान् करोति सदा प्राणिसंघातान् ॥ ४ ॥ भिचारेऽज्ञातज्ञापनार्थ च शास्त्रे विशेषणाभिधानमनुज्ञातमेव पूर्व मुनिभिरित्यलं विस्तरेणेति गाथार्थः ॥१॥ साम्प्रतं ध्यानलक्षणप्रतिपादनायाऽऽह जंथिरमज्झवसाणं तं झाणं जं चलं तयं चित्तं । तं होज भावणा सा अणुपेहा वा अव चिंता ॥२॥ व्याख्या-'यदि'त्युद्देशः स्थिर-निश्चलम् अध्यवसानं-मन एकाग्रतालम्बनमित्यर्थः, 'तदिति निर्देशे, 'ध्यान' प्रागनिरूपितशब्दार्थ, ततश्चैतदुक्तं भवति-यत् स्थिरमध्यवसानं तद्धानमभिधीयते, 'यच्चल'मिति यत्पुनरनवस्थित तच्चित्तं, तच्चौघतस्त्रिधा भवतीति दर्शयति-तद्भवेद्भावना चेति ततिं भवेद्भावना, भाव्यत इति भावना ध्याना भ्यासक्रियेत्यर्थः, वा विभापायाम्, 'अनुप्रेक्षा वेति' अनु--पश्चादावे प्रेक्षण प्रेक्षा, सा च स्मृतिानाद् भ्रष्टस्य चित्तचेष्टे. त्यर्थः, या पूर्ववत् ' अथवा चिन्ते' ति अथवाशब्दः प्रकारान्तरप्रदर्शनार्थः चिन्तति या खलूक्तप्रकारद्वयरहिता चिन्तामनश्चेष्टा सा चिन्तेति गाथार्थः॥२॥ इत्थं ध्यानलक्षणमोघतोऽभिधायाधना ध्यानमेव कालस्वामिभ्यां निरूपयन्नाह भंतोमुहुत्तमेत्तं चित्तावस्थाणमेगवस्थुमि । छ उमस्थाणं झाणं जोगनिरोहो जिणाणं तु ॥ ३ ॥ व्याख्या-इह मुहूते-सप्तसप्ततिलवप्रमाणः कालविशेपो भव्यते, उक्तं च-'कालो परमनिरुद्धो अविभजो तंतु जाण समयं तु । समया य असंखेज्जा भवंति ऊसासनीसासा ॥१॥हस्स अणवगल्लस्स, णिरुवकिस्स जंतुणो। एगे कालः परमनिरुद्धोऽविभाज्यस्तमेव जानीहि समयं तु । समयाश्चासंख्येया भवत उच्छासनिःश्वासी ॥ १ ॥ हृष्टस्यानवकल्पस्य निरुपक्लिष्टस्य जमोः । एक ऊसासनीसासे, एस पाणुत्ति वुच्चइ ॥२॥ सत्त पाणूणि से थोवे, सत्त थोवाणि से लवे । लवाणं सत्तहत्तरीए, एस मुहुत्ते वियाहिए ॥ ३ ॥' अन्तर्मध्यकरणे, ततश्चान्तर्मुहूर्तमानं कालमिति गम्यते, मात्रशब्दस्तदधिककालव्यवच्छेदार्थः, ततश्च भिन्नमुहूर्तमेव कालं, किं-'चित्तावस्थान'मिति चित्तस्य-मनसः अवस्थानं चित्तावस्थानम्, अवस्थितिः-अवस्थानं, निष्पकम्पतया वृत्तिरित्यर्थः, क ?-' एकवस्तुनि' एकम्-अद्वितीयं वसन्त्यस्मिन् गुणपर्याया इति वस्तु-चेतनादि एकं च तद्वस्तु एकवस्तु तस्मिन् २ 'छद्मस्थानाध्यान'मिति, तत्र छादयतीति छद्म-पिधानं तच्च ज्ञानादीनां गुणानामावारकत्वा ज्ज्ञानावरणादिलक्षणं घातिकर्म, छद्मनि स्थिताश्छद्मस्था अकेवलिन इत्यर्थः, तेषां छद्मस्थानां, 'ध्यान' प्राग्वत् , ततश्चायं समुदायार्थः-अन्तर्मुहूर्तकालं यच्चित्तावस्थानमेकस्मिन् वस्तुनि तच्छद्मस्थानां ध्यानमिति, 'योगनिरोधो जिनानां विति तत्र योगाः-तत्त्वत औदारिकादिशरीरसंयोगसमुत्था आत्मपरिणामविशेषव्यापारा एव, यथोक्तम्-"औदारिकादिशरीरयुक्तस्याऽऽत्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो वाग्योगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो मनोयोगः" इति, अमीपां निरोधो योगनिरोधः, निरोधनं निरोधः, प्रलयकरणमित्यर्थः, केषां ?-'जिनानां' केवलिनां, तुशब्द एवकारार्थः स चावधारणे, योगनिरोध एव न तु चित्तावस्थानं.चित्तस्यैवाभावाद, अथवा योगनिरोधो जिनानामेव ध्यान उच्छासनिश्वास एप प्राण इत्युच्यते ॥ २ ॥ सप्त प्राणास्ते स्तोके सप्त स्तोकास्ते लये । लवानां सप्तसप्तत्या एप मुहूर्तो व्याख्यातः॥३॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy