SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ b. भावश्यकहारिभद्रीया स्त्रीकथादिलक्षणा, तत्र स्त्रीणां कथा स्त्रीकथा तया, सा चतुर्विधा-जातिकथा कुलकथा रूपकथा नेपथ्यकथा, तत्र जातिकथा ब्राह्मणीप्रभृतीनामन्यतमा प्रशंसति द्वेष्टि वा, कुलकथा उग्रादिकुलप्रसूतानामन्यतमां, रूपकथा अन्ध्रिप्रभृतीनामन्यतमाया रूपं प्रशंसति-'अन्ध्रीणां च ध्रुवं लीलाचलितधूलते मुखे । आसज्य राज्यभार स्वं, सुखं स्वपिति मन्मथः ॥१॥' इत्यादिना, द्वेष्टि वाऽन्यथा, नेपथ्यकथा अन्ध्रीप्रभृतीनामेवान्यतमायाः कच्छटादिनेपथ्यं प्रशंसति द्वेष्टि वा, तथा भक्तम्-- ओदनादि तस्य कथा भक्तकथा तया, सा चतुर्विधाऽऽवापादिभेदतः, यथोक्तम्- भत्तकहावि चउद्धा आवावकहा तहेच णिवावे । आरंभकहा य तहा णिहाणकहा चउत्थी उ ॥१॥ आवावित्तियदवा सागघयादी य एत्थ उवउत्ता। दसपंचरूवइत्तियवंजणवाइ णिवावे ॥२॥ आरंभ छागतित्तिरमहिसारण्णादिया वधित एत्थ । रूवगसयपंचसया णिहाणं जा सयसहस्सं ॥ ३ ॥' देशः-जनपदस्तस्य कथा देशकथा तया, इयमपि छन्दादिभेदादिना चतुर्दैव, यथोक्तम्-देसस्स कहा भण्णइ देसकहा देस जणवओ होति । सावि चद्धा छंदो विही विगप्पो य णेवत्थं ॥१॥ छंदो गम्मागर्म जह माउलदहियमंगलाडाणं । अण्णेसिं सा भगिणी गोल्लाईणं अगम्मा उ॥२॥मातिसवत्तिउदिच्चाण गम्म अण्णेसि एग पंचण्हें । १ भक्तकथापि चतुर्धा भावापकथा तथैव निर्वापे । आरम्भकथा च तथा निष्टानकथा चतुर्थी च ॥१॥ आवाप ईयड्रन्या शाकघृतादिश्चानोपयुक्ताः । दश पञ्चरूप्यका इयद्-चव्यञ्जनदादिर्निवापे ॥ २॥ आरम्भे छागतित्तिरमहिपारण्यादिका हता अत्र । शतपञ्चशतरूपका निष्ठानं यावत् शतसहस्रम् ॥३॥ देशस्य कथा भण्यते देशकथा देशो जनपदो भवति । साऽपि चतुर्धा छन्दो विधिर्विकल्पश्च नेपथ्यम् ॥१॥छन्दो गम्यागम्यं यथा मातुलदुहिताऽङ्गालाटानाम् । अन्येषां सा भगिनी गोल्लादीनामगम्या तु ॥२॥ मातृसपत्नी तु उदीच्यानां गम्या अन्येषामेका पञ्चानाम् । एमाइ देसछंदो देसविहीविरयणा होइ ॥३॥ भोयणविरयणमणिभूसियाइ जं वावि भुजए पढमं । वीवाहविरयणाऽविय चउरंतगमाइया होइ ॥ ४ ॥ एमाई देसविही देसविगप्पं च सासनिप्फत्ती।जह वप्पकूवसारणिनइरेल्लगसालिरोप्पाई ॥५॥ घरदेवकुलविगप्पा तह विनिवेसा य गामनयराई। एमाइ विगप्पकहा नेवत्थकहा इमा होइ॥६॥ इत्थीपुरिसाणंपिच साभाविय तहय होइ वेउबी । भेडिगजालिगमाई देसकहा एस भणिएवं ॥७॥' राज्ञः कथा राजकथा तया, इयमपि नरेन्द्रनिर्गमादिभेदेन चतर्विधैव, यथोक्तम्-रायकह चउह निग्गम अइगमण बले य कोसकोहारे। निजाइ अज्ज राया एरिस इड्डीविभूईए ॥१॥ चामीयरसूरतणू हत्थीखंधमि सोहए एवं । एमेव य अइयाई इंदो अलयाउरी चेव ॥२॥ वइय आसहत्थी रहपायलबलवाहणकहेसा । एवइ कोडी कोसा कोठागारा व एवइया ॥३॥" प्रतिक्रमामि चतुर्भियानैः करणभूतैरश्रद्धेयादिना प्रकारेण योऽतिचारः कृतः, तद्यथा-आर्तध्यानेन ४, तत्र ध्यातिानमिति भावसाधनः, १ एवमादि देशच्छन्दो देशविधिविरचना भवति ॥ ३ ॥ भोजनविरचनमणिभूषणानि यद्वापि भुज्यते प्रथमम् । विवाहविरचनापि च चतुरन्तगमादिका (शारिपट्टादिका) भवति ॥ ४॥ एवमादि देशविधिदेशविकल्पश्च शस्यनिष्पत्तिः । यथा वप्रकपसारिणीनदीपूरादिना शालीरोपादि ॥ ५॥ गृहदेवकुलविकल्पा तथा विनिवेशाश्च प्रामनगरादीनाम् । एवमादिर्विकल्पकथा नेपथ्यकथैपा भवति ॥६॥ स्त्रीणां पुरुषाणामपि च स्वाभाविकस्तथा भवति विकुर्वी । भेडिकजालिकादि (मीलनादि ) देशकौंपा भणितैवं ।। ७ ।। राजकथा चतुर्धा निर्गमोऽतिगमो बलं च कोशकोष्टागारे । निर्यात्यद्य राजा इश्या ऋद्विदिभूत्या ॥१॥ चामीकरसूरतनुहं स्तिस्कन्धे शोभते एवम् । एवमेव चातियाति इन्द्रोऽलकापुर्यामिव ॥ २॥ एतावन्तोऽश्वा हस्तिनो रथाः पादातं बलवाहनानि कथेपा । इपन्त्यः कोव्यः कोशाः कोष्ठागाराणि वेयन्ति ।। ३ ॥ तत्पुनः कालतोऽन्तर्मुहूर्तमात्रं, भेदतस्तु चतुष्प्रकारमादिभेदेन, ध्येयप्रकारास्त्वमनोज्ञविषयसंप्रयोगादयः, तत्र शोकाक्रन्दनविलपनादिलक्षणमात तेन, उत्सन्नवधादिलक्षणं रौद्रं तेन, जिनप्रणीतभावश्रद्धानादिलक्षणं धर्म्य तेन, अवधासम्मोहादिलक्षणं शुक्लं तेन, फलं पुनस्तेषां हि तिर्यग्नरकदेवगत्यादिमोक्षाख्यमिति क्रमेण, अयं ध्यानसमासार्थः । व्यासार्थस्तु ध्यानशतकादवसेयः, तच्चेदम्-ध्यानशतकस्य च महार्थत्वाद्वस्तुतः शास्त्रान्तरत्वात् प्रारम्भ एव विघ्नविनायकोपशान्तये मङ्गलार्थमिष्टदेवतानमस्कारमाह वीरं सुकमाणग्गिदम्मिधणं पणमिजणं । जोईसर सरणं माणज्झयणं पवक्खामि ॥१॥ व्याख्या-वीर-शुक्लध्यानाग्निदग्धकर्मेन्धनं प्रणम्य ध्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्र 'ईर गतिप्रेरणयोः' इत्यस्य विपूर्वस्याजन्तस्य विशेषेण ईरयति कर्म गमयति याति वेह शिवमिति वीरस्तं वीरं, किंविशिष्टं तमित्यत आह-शुचं क्लमयतीति शुक्ल, शोकं ग्लपयतीत्यर्थः, ध्यायते-चिन्त्यतेऽनेन तत्त्वमिति ध्यानम् , एकाग्रचित्तनिरोध इत्यर्थः, शुक्लं च तद् ध्यानं च तदेव कर्मेन्धनदहनादग्निः शुक्लध्यानाग्निः तथा मिथ्यादर्शनाविरतिप्रमादकषाययोगैः क्रियत इति कर्म-ज्ञाना. वरणीयादि तदेवातितीव्रदुःखानलनिवन्धनत्वादिन्धनं कर्मेन्धनं ततश्च शुक्लध्यानाग्निना दग्धं-स्वस्वभावापनयनेन भस्मीकृतं कर्मेन्धनं येन स तथाविधस्तं, 'प्रणम्य' प्रकर्षण मनोवाकाययोगैर्नत्वेत्यर्थः, समानकर्तृकयोः पूर्वकाले क्त्वा. प्रत्ययविधानाद् ध्यानाध्ययनं प्रवक्ष्यामीति योगः, तत्राधीयत इत्यध्ययनं, 'कर्मणि ल्युट्' पठ्यत इत्यर्थः, ध्यानप्रतिपादकमध्ययनं २ तद् याथात्म्यमङ्गीकृत्य प्रकर्षेण वक्ष्ये-अभिधास्ये इति, किंविशिष्टं वीरं प्रणम्येत्यत आह-योगेश्वरं योगी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy