SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 60 आवश्यक हारिभद्रया चोक्ता, निदानशल्ये ब्रह्मदत्तकधानकं यथा तच्चरिते, मिथ्यादर्शनशल्ये गोष्ठामा हिलजमा लिभिक्षूपचकश्रावका अभिनि वेशमतिभेदान्यसंस्तवेभ्यो मिथ्यात्वमुपागताः, तत्र गोष्ठामा हिलजमालिकथानकद्वयं सामायिके उक्त भिक्षूपचरकश्रावककथानकं तूपरिष्टाद्वक्ष्यामः ॥ प्रतिक्रमामि त्रिभिगौरवैः करणभूतैर्योऽतिचारः कृतः, तद्यथा - ऋद्धिगौरवेण रसगौरवेण सातगौरवेण तत्र गुरोर्भावो गौरवं तच्च द्रव्यभावभेदभिन्नं, द्रव्यगौरवं वज्रादेः भावगौरवमभिमान लोभाभ्यामात्मनोऽशुभभावगौरवं संसारचक्रवालपरिभ्रमणहेतुः कर्मनिदानमिति भावार्थः, तत्र ऋद्ध्या- नरेन्द्रादिपूज्याचार्यादित्वाभिलाषलक्षणया गौरव - ऋद्धिप्रात्याभिमानाप्राप्तिसम्प्रार्थन द्वारेणाऽऽत्मनोऽशुभ भावगौरवमित्यर्थः, एवं रसेन गौरवम्- इष्टरसप्राप्यभिमानाप्राप्तिप्रार्थनद्वारेणाऽऽत्मनोऽशुभभावगौरवं तेन, सातं सुखं तेन गौरवं सातप्रात्यभिमानाप्राप्तप्रार्थनद्वारेणात्मनोऽशुभभावगौरवं तेन, इह च त्रिष्वप्युदाहरणं मङ्गुः - मथुराऍ अज्जमंगू आयरिया सुबहुसड्डा ( डुया य ) तहियं च । इट्ठरसवत्थसयणासणाइ अहियं पयच्छति ॥ १ ॥ सो तिहिवि गारवेहिं पडिबद्धो अईव तत्थ कालगओ । महुराए निद्धमणे जक्खो य तहिं समुप्पण्णो ॥ २ ॥ जक्खायतणअदूरेण तत्थ साहूण वच्चमाणा । सणाभूमिं ताहे अणुपविस जक्खपडिमाए ॥ ३ ॥ णिलालेडं जीहं णिष्फेडिऊण तं गवक्खेणं । दंसेइ एव बहुसो पुट्ठो य कयाइ साहूहिं ॥ ४ ॥ किमिदं ? तो सो वयई जीहादुट्ठो अहं तु सो मंगू । इत्थुववण्णो तम्हा तुम्भेवि एवं करे कोई ॥५॥ १ मथुरायामार्यमङ्गव आचार्याः, सुबहवः श्राद्धास्तत्र च । इटरसवस्वशयनासनादि अधिकं प्रयच्छन्ति ॥ १ ॥ स त्रिभिरपि गौरवैः प्रतिबद्धोऽतीव तत्र कालगतः । मथुरायां निर्धमने यक्षश्च तत्र समुत्पन्नः ॥ २ ॥ यज्ञायतनस्यादूरेण तत्र साधूनां व्रजताम् । संज्ञाभूमिं तदाऽनुप्रविश्य यक्षप्रतिमायाम् ॥ ३ ॥ निलस्य जिह्वां निष्काश्य तां गवाक्षेण । दर्शयति एवं बहुशः पृष्टश्च कदाचित् साधुभिः ॥ ४ ॥ किमिदं ? सदा स वदति जिह्वादुष्टोऽहं तु स मङ्गुः । अनोपपश्चमामाकमध्येवं कुर्यात्कोऽपि ॥ ५ ॥ वि एवं होहित जीहादोसेण जीह दाएमि । दद्दृण तयं साहू सुहुतरमगारवा जाया ॥ ६ ॥ प्रतिक्रमामि तिसृभि विराधनाभिर्योऽतिचार इत्यादि पूर्ववत्, तद्यथा - ज्ञानविराधनयेत्यादि, तत्र विराधनं - कस्यचिद्वस्तुनः खण्डनं तदेव विराधना ज्ञानस्य विराधना ज्ञानविराधना - ज्ञानप्रत्यनीकतादिलक्षणा तया, उक्तं च- 'णाणपडिणीय णिण्हव अवासायण तदंतराय च । कुणमाणस्सऽइयारो णाणविसंवादजोगं च ॥ १ ॥ तत्र प्रत्यनीकता पञ्चविधज्ञाननिन्दया, तद्यथा - आभिनिबोधिकज्ञानमशोभनं यतस्तदवगतं कदाचित्तथा भवति कदाचिदन्यथेति, श्रुतज्ञानमपि शीलविकलस्याकिञ्चित्करत्वादशोभनमेव, अवधिज्ञानमप्यरूपिद्रव्यागोचरत्वादसाधु, मनःपर्यायज्ञानमपि मनुष्यलोकावधिपरिच्छिन्नगोचरत्वादशोभनं, केवलज्ञानमपि समयभेदेन दर्शन ज्ञानप्रवृत्तेरेकसमयेऽकेवलत्वादशोभनमिति, निहवो-व्यपलापः, अन्यसकाशेऽधीतमन्यं व्यपदिशति, अश्वासायणा- 'कोया क्या य तेच्चिय ते चेव पमाय अप्पमाया य । मोक्खाहिगारिगाणं जोइसजोणीहि किं कर्ज १ ॥१॥ इत्यादि, अन्तरायम सङ्खडास्वाध्यायिकादिभिः करोति, ज्ञानविसंवादयोगः अकालस्वाध्यायादिना, दर्शनंसम्यग्दर्शनं तस्य विराधना दर्शनविराधना तया, असावप्येवमेव पञ्चभेदा, तत्र दर्शनप्रत्यनीकता क्षायिकदर्शनिनोऽपि श्रेणिकादयो नरकमुपगता इति निन्दया निह्नवः- दर्शनप्रभावनीयशास्त्रापेक्षया प्राग्वद् द्रष्टव्यः, अत्याशातना - किमेभिः कलहशास्त्रैरिति १, अन्तरायं प्राग्वत्, दर्शनविसंवादयोगः शङ्कादिना, चारित्रं प्राग्निरूपितशब्दार्थ तस्य विराधना चारि १ मा सोऽप्येवं भविष्यति जिह्वादोषेण जिह्वां दर्शयामि । दृष्ट्वा तकत् साधवः सुष्ठुतरमगौरवा जाताः ॥६॥ २ काया व्रतानि च तान्येव स एव प्रमादा अप्रमादाश्च । मोक्षाधिकारिणां ज्योतियनिभिः किं कार्यम् ? ॥ १ ॥ त्रविराधना तथा - प्रतादिखण्डनलक्षणया ॥ प्रतिक्रमामि चतुर्भिः कषायैर्योऽतिचारः कृतः, तद्यथा - क्रोधकषायेण मानकषायेण मायाकषायेण लोभकषायेण, कषायस्वरूपं सोदाहरणं यथा नमस्कार इति ॥ प्रतिक्रमामि चतसृभिः संज्ञाभिर्योऽतिचारः कृतः, तद्यथा - आहारसंज्ञयेत्यादि ४, तत्र संज्ञानं संज्ञा, सा पुनः सामान्येन क्षायोपशमिकी औदयिकी च, तत्राssur ज्ञानावरणक्षयोपशमजा मतिभेदरूपा, न तयेहाधिकारः, द्वितीया सामान्येन चतुर्विधाऽऽहारसंज्ञादिलक्षणा, तत्राहारसंज्ञा - आहाराभिलाषः क्षुद्वेदनीयोदयप्रभवः खल्वात्मपरिणाम इत्यर्थः, सा पुनश्चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा- 'ओम कोयाए १ ब्रुहावेय णिज्जस्स कम्मस्सोदपणं २ मईए ३ तदट्ठोवजोगेणं' तत्र मतिराहारश्रवणादिभ्यो भवति, तदर्थोपयोगस्त्वाहारमेवानवरतं चिन्तयतः, तयाऽऽहारसंज्ञया, भयसंज्ञा - भयाभिनिवेशः -- भयमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा- 'हीणसत्तयाए १ भयमोहणिजोदएणं २ मइए ३ तयट्ठोवओगेणं' तया, मैथुनसंज्ञामैथुनाभिलाषः वेदमोहोदयजो जीवपरिणाम एव, इयमपि चतुर्भिः स्थानैः समुत्पद्यते, तद्यथा - 'चियैमंससोणियत्ताए १ वेदमोहणिजो २ मईए ३ तयट्ठोवओगेणं ४' तथा, तथा परिग्रहसंज्ञा - परिग्रहाभिलाषस्तीव्रलोभोदयप्रभव आत्मपरिणामः, इयमपि चतुर्भिः स्थानैरुत्पद्यते, तद्यथा- 'अविवित्तयाए १ लोहोदएणं २ मईए ३ तदट्ठोवओगेणं ४' तया ॥ प्रतिक्रमामि चतसृभिर्विकथाभिः करणभूताभिर्योऽतिचारः कृतः, तद्यथा - 'स्त्रीकथयेति विरुद्धा विनष्टा वा कथा विकथा, सा च १ अवमकोष्ठतया क्षुधा वेदनीयस्य कर्मण उदयेन मत्या तदर्थोपयोगेन. २ हीनसश्वतया भयमोहनीयोदयेन मत्या तदर्थोंपयोगेन. ३ चितमांसशोणिततया चेदमोहनीयोदयेन मत्या तदर्थोपयोगेन. ४ अविविकतया लोभोदयेन मया तदर्थोपयोगेन. Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy