SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 58 आवश्यक हारिभद्रीया पक्किमामि चाकालं सज्झायस्स अकरणयाए उभओकालं भंडोवगरणस्स अप्पडिलेहणयाए दुप्पडिले - हयाए अप्पमजणार दुप्पमज्जणाए अहकमे वइक्कमे अइयारे अणायारे जो मे देवसिओ अइआरो कओ तस्स मिच्छामि दुक्कडं ॥ ( सू० ) अस्य व्याख्या - प्रतिक्रमामि पूर्ववत् कस्य ? - चतुष्कालं - दिवसरजनी प्रथमचरमप्रहरेष्वित्यर्थः, स्वाध्यायस्य - सूत्र - पौरुषीलक्षणस्य, अकरणतया - अनासेवनया हेतुभूतयेत्यर्थः, यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, तथोभयकाल- प्रथम पश्चिमपौरुषीलक्षणं भाण्डोपकरणस्य - पात्रवस्त्रादेः 'अप्रत्युपेक्षणया दुष्प्रत्युपेक्षणया' तत्राप्रत्युपेक्षणा-मूलत एव चक्षुषाऽनिरीक्षणा दुष्प्रत्युपेक्षणा- दुर्निरीक्षणा तया, 'अप्रमार्जनया दुष्प्रमार्जनया' तत्राप्रमार्जना मूलत एव रजोहरणादिनाऽस्पर्शना दुष्प्रमार्जना त्वविधिना प्रमार्जनेति, तथा अतिक्रमे व्यतिक्रमे अतिचारे अनाचारे यो मया दैवसिकोsतिचारः कृतस्तस्य मिथ्यादुष्कृतमित्येतत्प्राग्वत्, नवरमतिक्रमादीनां स्वरूपमुच्यते- 'आधाकम्मनिमंतण पडिसुणमाणे अइकमो होइ । पयभेयाइ वइक्कम गहिए तइएयरो गिलिए ॥ १ ॥।' अस्य व्याख्या-आधाकर्मनिमन्त्रणे गृहीष्ये एवं प्रतिशृण्वति सति साधावतिक्रमः - साधुक्रियोलङ्घनरूपो भवति, यत एवम्भूतं वचः श्रोतुमपि न कल्पते, किं पुनः प्रतिपत्तुं ?, ततःप्रभृति भाजनोग्रहणादौ तावदतिक्रमो यावदुपयोगकरणं, ततः कृते उपयोगे गच्छतः पदभेदादिर्व्यतिक्रमस्तावद्यावदुत्क्षिप्तं भोजनं दात्रेति, ततो गृहीते सति तस्मिंस्तृतीयः, अतिचार इत्यर्थः, तावद् यावद्वसतिं गत्वेर्यापथ १ आधाकमेनिमन्त्रणे प्रतिशृण्वति अतिक्रमो भवति । पदभेदादि व्यतिक्रमो गृहीते तृतीय इतरो गिह्निते ॥ १ प्रतिक्रमणाद्युत्तरकालं लम्बनोत्क्षेपः, तत उत्तरकालमनाचारः, तथा चाह -' इतरो गिलिए'ति प्रक्षिप्ते सति कवले अनाचार इति गाथार्थः ॥ इदं चाधाकर्मोदाहरणेन सुखप्रतिपत्त्यर्थमतिक्रमादीनां स्वरूपमुक्तम्, अन्यत्राप्यनेनैवानुसारेण विज्ञेयमिति । अयं चातिचारः संक्षेपत एकविधः संक्षेपविस्तरतस्तु द्विविधः त्रिविधो यावदसङ्ख्येयविधः, संक्षेपविस्तरता पुनर्द्विविधः त्रिविधं प्रति संक्षेप एकविधं प्रति विस्तर इति, एवमन्यत्रापि योज्यं, विस्तरतस्त्वनन्तविधः, तत्रैकविधादिभेदप्रतिक्रमणप्रतिपादनायाह किमाम एगविहे असंजमे । परिक्रमामि दोहिं बन्धणेहिं-रागबंधणेणं दोसबन्धणेणं । प० तिहिं दण्डेहिंमणदंडेणं वयंडेणं कायदंडेणं । प० तिहिं गुप्तीहिं-मणगुत्तीए वयगुप्तीए कायगुक्तीए ॥ ( सूत्रम् ) 1 प्रतिक्रमामि पूर्ववत्, एकविधे - एकप्रकारे असंयमे - अविरतिलक्षणे सति प्रतिषिद्धकरणादिना यो मया दैवसिकोऽतिरः कृत इति गम्यते, तस्य मिथ्या दुष्कृतमिति सम्बन्धः, वक्ष्यते च - 'सज्झाए ण सज्झाइयं तस्स मिच्छामि दुक्कडं' एवमन्यत्रापि योजना कर्तव्या, प्रतिक्रामामि द्वाभ्यां वन्धनाभ्यां हेतुभूताभ्यां योऽतिचारः, बद्ध्यतेऽष्टविधेन कर्मणा येन हेतुभूतेन तद्बन्धनमिति, तद्बन्धनद्वयं दर्शयति- रागवन्धनं च द्वेषबन्धनं च रागद्वेषयोस्तु स्वरूपं यथा नमस्कारे, बन्धनत्वं चानयोः प्रतीतं यथोक्तम्- 'स्नेहाभ्यक्तशरीरस्य रेणुना श्लिष्यते यथा गात्रम् । रागद्वेषाक्लिन्नस्य कर्मबन्धो भवत्येचम् ॥ १ ॥' 'प्रतिक्रमामि त्रिभिर्दण्डैः' दण्ड्यते - चारित्रैश्वर्यापहारतोऽसारीक्रियते एभिरात्मेति दण्डाः द्रव्यभावभेदभिन्नाः, भावदण्डैरिहाधिकारः, तैर्हेतुभूतैर्योऽतिचारः, भेदेन दर्शयति-मनोदण्डेन वाग्दण्डेन कायदण्डेन, मनःप्रभृतिभिश्च दुष्प्रयुक्तैर्दण्ड्यते आत्मेति, अत्र चोदाहरणानि - तत्थे मणदंडे उदाहरणं - कोंकणगखमणओ, सो उडजाणू अहोसिरो चिंतितो अच्छइ, साहूणो अहो खंतो सुहज्झाणोवगओत्ति वंदंति, चिरेण संलावं देउमारद्धो, साहूहिं पुच्छिओ, भइ-खरो वाओ वायति, जइ ते मम पुत्ता संपयं वल्लराणि पलीविज्जा तो तेसिं वरिसारत्ते सरसाए भूमीए सुबह सालिसंपया होज्जा, एवं चिंतियं मे, आयरिएण वारिओ ठिओ, तो एवमाइ जं असुहं मणेण चिंतेइ सो मणदंडो १ ॥ वइदंडे उदाहरणं - साहू सण्णाभूमीओ आगओ, अविहीए आलोएइ-जहा सूयरवंदं दिडंति, पुरिसेहिं गंतुं मारियं २ ॥ इयाणि कायदंडे उदाहरणं - चंडरुद्दो आयरिओ, उज्जेर्णि बाहिरगामाओ अणुजाणपेक्खओ आगओ, सोय अईव रोसणो, तत्थ समोसरणे गणियाघरविहेडिओ जाइकुलाइ संपण्णो इब्भदारओ सेहो उवडिओ, तत्थ अण्णेहिं असद्दहंतेहिं चंडरुहस्स पास पेसिओ, कलिणा कली घस्सउत्ति, सो तस्स उवडिओ, तेण सो तहेव लोयं काउं पचाविओ, पच्चूसे गामं वचंताणं १ तत्र मनोदण्डे उदाहरणं कोङ्कणकक्षपकः, स ऊर्ध्वजानुरधः शिराश्चिन्तयन् तिष्ठति, साधवः अहो वृद्धः शुभध्यानोपगत इति वन्दन्ते, चिरेण संलापं दातुमारब्धः, साधुभिः पृष्टः, भणति खरो वातो वाति, यदि ते मम पुत्राः साम्प्रतं तृणादीनि प्रदीपयेयुः तदा तेषां वर्षारात्रे सरसायां भूमौ सुबह्नी शालीसंपत् भवेत्, एवं चिन्तितं मया, आचार्येण वारितः स्थितः, तदेवमादि यदशुभं मनसा चिन्तयति स मनोदण्डः ॥ वाग्दण्डे उदाहरणं साधुः संज्ञाभूमे. रागतः, अविधिनाऽऽलोचयति-यथा शूकरवृन्दं दृष्टमिति, पुरुषैश्वा मारितं २॥ इदानीं कायदण्डे उदाहरणम्- चण्डरुद्र आचार्यः उज्जयिनीं बहिर्ग्रामादनुयानप्रेक्षक आगतः, स चातीव रोपणः, तत्र समवसरणे गणिकागृह विनिर्गतो जातिकुलादिसंपन्न इभ्यदारकः शैक्ष उपस्थितः, तत्रान्यैरश्रद्दधद्भिचण्डरुद्रस्य पार्श्व प्रेषितः, कलिना पृष्यतां कलिरिति, स तस्योपस्थितः, तेन स तथैव लोचं कृत्वा प्रयाजितः प्रत्यूपे ग्रामं व्रजतोः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy