________________
57
आवश्यकहारिभद्रीया लोत्तरगुणातिचारविपया भवत्यतो भेदेन तां दर्शयन्नाह-'इत्थीविष्परियासियाए'त्ति स्त्रिया विपर्यासः स्त्रीविपर्यास:-अ. ब्रह्मासेवनं तस्मिन् भवा स्त्रीवैपर्यासिकी तया, स्त्रीदर्शनानुरागतस्तदवलोकनं दृष्टिविपर्यासः तस्मिन् भवा दृष्टिवैपर्यासिकी तया, एवं मनसाऽध्युपपातो मनोविपर्यासः तस्मिन् भवा मनोवैपर्यासिकी तया, एवं पानभोजनवैपर्यासिक्या, रात्रौ पानभोजनपरिभोग एव तद्विपर्यासः, अनया हेतुभूतया य इत्यतिचारमाह, मयेत्यात्मनिर्देशः, दिवसेन निवृत्तो दिवसपरिमाणो वा दैवसिकः, अतिचरणमतिचार:-अतिक्रम इत्यर्थः, कृतो-निर्वर्तितः 'तस्स मिच्छामि दुक्कड' पूर्ववत्, आह-दिवा शयनस्य निषिद्धत्वादसम्भव एवास्यातिचारस्य, न, अपवादविषयत्वादस्य, तथाहि-अपवादतः सुप्यत एव दिवा अध्वानखेदादौ, इदमेव वचनं ज्ञापकम् ॥ एवं त्वम्वर्तनास्थानातिचारप्रतिक्रमणममिधायेदानीं गोचरातिचारप्रतिक्रमणप्रतिपादनायाऽऽह
पडिकमामि गोयरचरियाए भिक्खायरियाए उग्घाडकवाडउग्घाडणाए साणावच्छादारासंघणाए मंडीपाहुडिआए बलिपाहुडिआए ठवणापाहुडिआए संकिए सहसागारिए अणेसणाए पाणभोयणाए बीयभोयणाए हरियभोयणाए पच्छेकम्मियाए पुरेकम्मियाए अदिहहडाए दगसंसहहडाए रयसंसट्टहडाए पारिसाडणियाए पारिठावणिआए ओहासणभिक्खाए जं उग्गमेणं उप्पायणेसणाए अपरिसुद्धं परिगहियं परिभुत्तं वा जं न परिविअं तस्स मिच्छामि दुक्कडं ॥ (मू०) ___ अस्य व्याख्या-प्रतिक्रमामि-निवर्तयामि, कस्य ?-गोचरचर्यायां-भिक्षाचर्यायां, योऽतिचार इति गम्यते, तस्येति योगः, गोश्चरणं गोचरः चरण-चर्या गोचर इव चर्या गोचरचर्या तस्यां गोचरचर्यायां, कस्यां ?-भिक्षार्थ चर्या भिक्षाचर्या तस्यां, तथाहि-लाभालाभनिरपेक्षः खल्बदीनचित्तो मुनिरुत्तमाधममध्यमेषु कुलेष्विष्टानिप्टेषु वस्तुपु रागद्वेपावगच्छन् भिक्षामटतीति, कथं पुनस्तस्यामतिचार इत्याह-'उग्घाडकवाड उग्घाडणाए' उद्घाटम्-अदत्तागेलमीपत्स्थगितं वा किं तत् ?-कपाटं तस्योद्घाटनं-सुतरां प्रेरणम् उद्घाटकपाटोद्घाटनम् इदमेवोद्घाटकपाटोद्घाटना तया हेतुभूतया, इह चाप्रमार्जनादिभ्योऽतिचारः, तथा श्वानवत्सदारकसङ्घनयेति प्रकटार्थ, मण्डीप्राभृतिकया बलिप्राभृतिकया स्थापनाप्राभृतिकया, आसां स्वरूपं-'मंडीपाहुडिया साहुंमि आगए अग्गकूरमंडीए । अण्णमि भायणमि व काउं तो देइ साहुस्स ॥१॥ तत्थ पवत्तणदोसो ण कप्पए तारिसा सुविहियाणं । वलिपाहुडिया भण्णइ चउद्दिसिं काउ अच्चणियं ॥ २॥ अग्गिमि व छोढणं सित्थे तो देइ साहुणो भिक्खं । सावि ण कप्पइ ठवणा (जा) भिक्खायरियाण ठविया उ ॥३॥' आधाकर्मादीनाम्-उद्गमादिदोषाणामन्यतमेन शङ्किते गृहीते सति योऽतिचारः, सहसाकारे वा सत्यकल्पनीये गृहीत इति, अत्र च तमपरित्यजतोऽविधिना वा परित्यजतो योऽतिचारः, अनेन प्रकारेणानेषणया हेतुभूतया, तथा 'पाणभोयणाए'त्ति प्राणिनो-रसजादयः भोजने-दध्योदनादौ सङ्घयन्ते-विराध्यन्ते व्यापाद्यन्ते वा यस्यां प्राभृतिकायां सा
१ मण्डिप्राभृतिका साधावागते अग्रकरमण्ड्यै । अन्यस्मिन् भाजने वा कृत्वा ततो ददाति साधये ॥ १॥ तत्र प्रवर्तनदोषो न कल्पते तादृशी सुविहि - तानाम् । बलिप्राभृतिका भण्यते चतुर्दिशं कृत्वाऽर्च निकाम् ॥ २ ॥ अग्नौ वा क्षित्वा सिक्धान् ततो ददाति साध भिक्षाम् । साऽपि न कल्पते स्थापना(या) भिक्षाचरेभ्यः स्थापिता ॥ ३ ॥ प्राणिभोजना तया, तेषां च सट्टनादि दातृग्राहकप्रभवं विज्ञेयम्, अत एवातिचारः, एवं 'बीयभोयणाए' बीजानि भोजने यस्यां सा बीजभोजना तया, एवं हरितभोजनया, 'पच्छाकम्मियाए पुरेकम्मियाए' पश्चात् कर्म यस्यां पश्चाजलोज्झनकर्म भवति पुरःकर्म यस्यामादाविति. 'अदिठ्ठहडाए'त्ति अदृष्टाहतया-अदृष्टोत्क्षेपमानीतयेत्यर्थः, तत्र च सत्त्वसट्टनादिनाऽतिचारसम्भवो, दगसंसृष्टाहतया-उदकसम्बद्धानीतया हस्तमात्रगतोदकसंसृष्टया वा भावना, एवं रजः संसृष्टाहृतया, नवरं रजः पृथिवीरजोऽभिगृह्यते, 'पारिसाडणियाए'त्ति परिशाट:-उज्झनलक्षणः प्रतीत एव तस्मिन् भवा पारिशाटनिका तया, 'पारिठावणियाए'त्ति परिस्थापनं-प्रदानभाजनगतद्रव्यान्तरोज्झनलक्षणं तेन निवृत्ता पारिस्थापनिका तया, एतदुक्तं भवति-'पारिद्वावणिया खलु जेण भाणेण देइ भिक्खं तु । तंमि पडिओयणाई जातं सहसा परिठ्ठवियं ॥१॥' 'ओहासणभिक्खाए'त्ति विशिष्टद्रव्ययाचनं समयपरिभाषया 'ओहासणंति भण्णइ' तत्प्रधाना या भिक्षा तया, कियदत्र भणिष्यामो ?, भेदानामेवंप्रकाराणां बहुत्वात् , ते च सर्वेऽपि यस्मादुद्गमोत्पादनैषणास्ववतरन्त्यत आह'जं उग्गमेण' मित्यादि, यत्किञ्चिदशनाद्यद्गमेन-आधाकर्मादिलक्षणेन उत्पादनया-धाच्यादिलक्षणया एषणया-शङ्कितादिलक्षणया अपरिशुद्धम्-अयुक्तियुक्तं प्रतिगृहीतं वा परिभुक्तं वा यन्न परिछापितं, कथञ्चित् प्रतिगृहीतमपि यन्नोज्झितं परिभुक्तमपि च भावतोऽपुनःकरणादिना प्रकारेण यन्नोज्झितम् , एवमनेन प्रकारेण यो जातोऽतिचारस्तस्य मिथ्या दुष्कृतमिति पूर्ववत एवं गोचरातिचारप्रतिक्रमणमभिधायाधना स्वाध्यायाद्यतिचारप्रतिक्रमणप्रतिपादनायाऽऽह
पारिस्थापनिका खलु येन भाजनेन ददाति भिक्षां तु । तस्मिन् पतितौदनादि जातं सहसा परिस्थापितम् ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org