SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ 56 आवश्यकहारिभद्रीया तस्येति योगः, अनेन क्रियाकालमाह, मिच्छामि दुक्कडं' इत्यनेन तु निष्ठाकालमिति, तत्रेरणमीर्या गमनमित्यर्थः, तत्प्रधानः पन्धा ईयर्यापथः तत्र भवैर्यापथिकी तस्यां, कस्यामित्यत आह-विराध्यन्ते-दुःखं स्थाप्यन्ते प्राणिनोऽनयेति विराधनाक्रिया तस्यां विराधनायां सत्यां, योऽतिचार इति वाक्यशेषः, तस्येति योगः, विषयमुपदर्शयन्नाह-गमनं कवद्भावस्तस्मिन् , तत्र गमनं स्वाध्यायादिनिमित्तं वसतेरिति, आगमनं प्रयोजनपरिसमाप्तौ पुनर्वसतिमेवेति, तत्रापि यः कथं जातोऽतिचार इत्यत आह-'पाणकमणे' प्राणिनो-द्वीन्द्रियादयस्त्रसा गृह्यन्ते, तेषामाक्रमणं-पादेन पीडनं प्राण्याक्रमणं, तस्मिन्निति, तथा बीजाक्रमणे, अनेन बीजानां जीवत्वमाह, हरिताक्रमणे, अनेन तु सकलवनस्पतेरेव, तथाऽवश्यायोतिङ्गापनकदगमृत्तिकामर्कटसन्तानसक्रमणे सति, तत्रावश्या-जलविशेषः, इह चावश्यायग्रहणमतिशयतः शेषजलसम्भोगपरिवारणार्थमिति, एवमन्यत्रापि भावनीयं, उत्तिङ्गा-गईभाकृतयो जीवाः कीटिकानगराणि चापनका-फल्लि दगमत्तिकाचिक्खालम् , अथवा दकग्रहणादप्कायः, मृत्तिकाग्रहणात् पृथ्वीकायः, मर्कटसन्तानः कोलिकजालमुच्यते, ततश्चावश्यायथोत्तिङ्गश्चेत्यादि द्वन्द्वः, अवश्यायोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानास्तेषां सङ्क्रमणं-आक्रमणं तस्मिन् ,किंबहुना!, कियन्तो भेदेनाऽऽख्यास्यन्ते ?, सर्वे ये मया जीवा विराधिता-दुःखेन स्थापिताः, एकेन्द्रियाः-पृथिव्यादयः, द्वीन्द्रियाः-कृम्यादयः, त्रीन्द्रिया:-पिपीलिकादयः, चतुरिन्द्रिया-भ्रमरादयः, पञ्चेन्द्रिया-मूषिकादयः, अभिहता-अभिमुख्येन हताः, चरणेन घट्टिताः, उत्क्षिप्य क्षिप्ता वा, वर्तिताः-पुञ्जीकृताः, धूल्या वा स्थगिता इति, श्लेषिताः-पिष्टाः, भूम्यादिषु दा लगिताः * किंविशिष्टाया० प्र०. + अभिमुखागता. सङ्घातिता-अन्योऽन्यं गात्रैरेकत्र लगिताः, सङ्घट्टिता-मनाक् स्पृष्टाः, परितापिताः-समन्ततः पीडिताः, क्लामिताः-समुद्घातं निमापादिता इत्यर्थः, अवद्राविता-उत्रासिताः स्थानात् स्थानान्तरं सङ्कामिता:-स्वस्थानात् परं स्थानं नीताः, जीविताद् व्यपरोपिताः, व्यापादिता इत्यर्थः, एवं यो जातोऽतिचारस्तस्य, एतावता क्रियाकालमाह, तस्यैव 'मिच्छामि दुक्कड' इत्यनेन निष्ठाकालमाह, मिथ्या दुष्कृतं पूर्ववद्, एवं तस्येत्युभययोजना सर्वत्र कार्या । इत्थं गमनातिचारप्रतिक्रमण मुक्तम्, अधुना त्वग्वर्तनस्थानातिचारप्रतिक्रमणं प्रतिपादयन्नाह इच्छामि पडिमिउं पगामसिजाए निगामसिजाए संथाराउव्वट्टणाए परिवट्टणाए आउंटणपसारणाए छप्पइसंघट्टणाए कूहए ककराइए छिइए जंभाइए आमोसे ससरकखामोसे आउलमाउलाए सोअ इत्थीविप्परिआसिआए दिहीविपरिआसिआए मणविप्परिआसिआए पाणभोयणविप्परिआसिआए जो मे देवसिओ अइआरो कओ तस्स मिच्छामि दुकडं ॥ (सू०) ___ अस्य व्याख्या-इच्छामि प्रतिक्रमितुं पूर्ववत्, कस्येत्याह-प्रकामशय्यया हेतुभूतया यो मया दैवसिकोऽतिचारः कृतः, तस्येति योगः, अनेन क्रियाकालमाह, 'मिच्छामि दुक्कडं' इत्यनेन तु निष्ठाकालमेवेति भावना, एवं सर्वत्र योजना कार्येति, 'शी स्वप्ने' अस्य यप्रत्ययान्तस्य 'कृत्यल्युटो वहुल (पा०३-३-११३)मिति वचनात् शयनं शय्या प्र प्रकामशय्या शेरतेऽस्यामिति वा शय्या-संस्तारकादिलक्षणा प्रकामा-उत्कटा शय्या प्रकामशय्या-संस्तारोत्तरपट्टकातिरिक्ता प्रावरणमधिकृत्य कल्पत्रयातिरिका वा तया हेतुभूतया, स्वाध्यायाद्यकरणतश्चेहातिचारः,प्रतिदिवसं प्रकामशय्यैव निकामशय्योच्यते तया हेतुभूतया, अत्राप्यतिचारः पूर्ववत् , उद्वर्तनं तत्प्रथमतया वामपार्चेन सुप्तस्य दक्षिणपार्थेन वर्तनमुद्वर्तनमुद्वर्तनमेवोद्वर्तना तया, परिवर्तनं पुनर्वामपार्श्वनैव वर्तनं तदेव परिवर्तना तया, अत्राप्यप्रमृज्य कुर्वतोऽतिचारः, आकुञ्चनंगात्रसङ्कोचलक्षणं तदेवाकुश्चना तया, प्रसारणम्-अङ्गानां विक्षेपः तदेव प्रसारणा तया, अत्र च कुकुट्टिदृष्टान्तप्रतिपादितं विधिमकुर्वतोऽतिचारः, तथा चोक्तम्-'कुक्कुटिपायपसारे जह आगासे पुणोवि आउंटे । एवं पसारिऊणं आगासि पुणोवि आउंटे ॥१॥ अइकुंडिय सिय ताहे जहियं पायस्स पण्हिया ठाइ। तहियं पमजिऊणं आगासेणं तु णेऊणं ॥२॥ पायं ठावित्तु तहिं आगासे चेव पुणोवि आउंटे । एवं विहिमकरेंते अइयारो तत्थ से होइ ॥ ३ ॥' षट्रपदिकानां-यूकानां सट्टनम्-अविधिना स्पर्शनं पट्पदिकासङ्घद्दनं तदेव पटपदिकासङ्घटना तया, तथा 'कूइए'त्ति कूजिते सति योऽतिचारः, कूजितं-कासितं तस्मिन् अविधिना मुखवस्त्रिकां करं वा मुखेऽनाधाय कृत इत्यर्थः, विषमा धर्मवतीत्यादिशय्यादोषो. चारणं सकर्करायितमुच्यते तस्मिन् सति योऽतिचारः, इह चाऽऽर्तध्यानजोऽतिचारः, क्षुते-अविधिना जृम्भितेऽविधिनैव आमर्पणम् आमर्पः-अप्रमृज्य करेण स्पर्शनमित्यर्थः तस्मिन् , सरजस्कामर्षे सति, सह पृथिव्यादिरजसा यद्वस्तु स्पृष्टं तत्संस्पर्शे सतीत्यर्थः, एवं जाग्रतोऽतिचारसम्भवमधिकृत्योक्तम् , अधुना सुप्तस्योच्यते-'आउ लया-ख्यादिपरिभोगविवाहयुद्धादिसंस्पर्शननानाप्रकारया स्वप्नप्रत्ययया-स्वप्ननिमित्तया, विराधनयेति गम्यते, सा पुनर्मू १ कुकुटी पादी प्रसारयेत् यथाऽऽकाशे पुनरप्याकुतयेत् । एवं प्रसार्याकाशे पुनरप्याकुञ्जयेत् ॥१॥ अनिबाधितं स्यात्तदा या पादस्य पार्षिणका तिष्ठति । तत्र प्रमाग्यांकाशे तु नीत्वा ॥२॥ पादं स्थापयित्वा तत्राकाश एव पुनरप्याकुजयेत् । एवं विधिमकुर्वत्यतिचारतत्र तस्य भवति ॥ ३ ॥ Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.002522
Book TitleAgam 40 Mool 01 Aavashyam Sutra Niryukti Part 02
Original Sutra AuthorHaribhadrasuri, Bhadrabahuswami
Author
PublisherBherulal Kanhiyalal Kothari Religious Trust
Publication Year
Total Pages260
LanguageSanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy